पुरुषस्य स्त्रियाश्चैव धर्मे वर्त्मनि तिष्ठतोः । संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् ॥१॥
अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ॥२॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने । रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥३॥
कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः । मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता ॥४॥
सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः । द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः ॥५॥
इमं हि सर्ववर्णानां पश्यन्तो धर्ममुत्तमम् । यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥६॥
स्वां प्रसूतिं चरित्रं च कुलमात्मानमेव च । स्वं च धर्मं प्रयत्नेन जायां रक्षन् हि रक्षति ॥७॥
पतिर्भार्यां संप्रविश्य गर्भो भूत्वैह जायते । जायायास्तद् हि जायात्वं यदस्यां जायते पुनः ॥८॥
यादृशं भजते हि स्त्री सुतं सूते तथाविधम् । तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत् प्रयत्नतः ॥९॥
न कश्चिद् योषितः शक्तः प्रसह्य परिरक्षितुम् । एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् ॥१०॥
अर्थस्य सङ्ग्रहे चैनां व्यये चैव नियोजयेत् । शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे ॥११॥
अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः । आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ॥१२॥
पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् । स्वप्नोऽन्यगेहवासश्च नारीसंदूषणानि षट् ॥१३॥
नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः । सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते ॥१४॥
पौंश्चल्याच्चलचित्ताच्च नैस्नेह्याच्च स्वभावतः । रक्षिता यत्नतोऽपीह भर्तृष्वेता विकुर्वते ॥१५॥
एवं स्वभावं ज्ञात्वाऽसां प्रजापतिनिसर्गजम् । परमं यत्नमातिष्ठेत् पुरुषो रक्षणं प्रति ॥१६॥
शय्याऽऽसनमलङ्कारं कामं क्रोधमनार्जवम् । अनार्यतां ] द्रोहभावं कुचर्यां च स्त्रीभ्यो मनुरकल्पयत् ॥१७॥
नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्मे व्यवस्थितिः । निरिन्द्रिया ह्यमन्त्राश्च स्त्रीभ्यो अनृतमिति स्थितिः ॥१८॥
तथा च श्रुतयो बह्व्यो निगीता निगमेष्वपि । स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः ॥१९॥
यन् मे माता प्रलुलुभे विचरन्त्यपतिव्रता । तन् मे रेतः पिता वृङ्क्तामित्यस्यैतन्निदर्शनम् ॥२०॥
ध्यायत्यनिष्टं यत् किं चित् पाणिग्राहस्य चेतसा । तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते ॥२१॥
यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि । तादृग्गुणा सा भवति समुद्रेणैव निम्नगा ॥२२॥
अक्षमाला वसिष्ठेन संयुक्ताऽधमयोनिजा । शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ॥२३॥
एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रसूतयः । उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर्भर्तृगुणैः शुभैः ॥२४॥
एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा । प्रेत्यैह च सुखोदर्कान् प्रजाधर्मान्निबोधत ॥२५॥
प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः । स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥२६॥
उत्पादनमपत्यस्य जातस्य परिपालनम् । प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्री निबन्धनम् ॥२७॥
अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा । दाराऽधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह ॥२८॥
पतिं या नाभिचरति मनोवाग्देहसंयता । सा भर्तृलोकानाप्नोति सद्भिः साध्वीइति चोच्यते ॥२९॥
व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । सृगालयोनिं चाप्नोति पापरोगैश्च पीड्यते ॥३०॥
पुत्रं प्रत्युदितं सद्भिः पूर्वजैश्च महर्षिभिः । विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत ॥३१॥
भर्तरि पुत्रं विजानन्ति श्रुतिद्वैधं तु कर्तरि । आहुरुत्पादकं के चिदपरे क्षेत्रिणं विदुः ॥३२॥
क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् । क्षेत्रबीजसमायोगात् संभवः सर्वदेहिनाम् ॥३३॥
विशिष्टं कुत्र चिद् बीजं स्त्रीयोनिस्त्वेव कुत्र चित् । उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ॥३४॥
बीजस्य चैव योन्याश्च बीजमुत्कृष्टमुच्यते । सर्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता ॥३५॥
यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते । तादृग् रोहति तत् तस्मिन् बीजं स्वैर्व्यञ्जितं गुणैः ॥३६॥
इयं भूमिर्हि भूतानां शाश्वती योनिरुच्यते । न च योनिगुणान् कांश्चिद् बीजं पुष्यति पुष्टिषु ॥३७॥
भूमावप्येककेदारे कालोप्तानि कृषीवलैः । नानारूपाणि जायन्ते बीजानीह स्वभावतः ॥३८॥
व्रीहयः शालयो मुद्गास्तिला माषास्तथा यवाः । यथाबीजं प्ररोहन्ति लशुनानीक्षवस्तथा ॥३९॥
अन्यदुप्तं जातमन्यदित्येतन्नोपपद्यते । उप्यते यद् हि यद् बीजं तत् तदेव प्ररोहति ॥४०॥
तत् प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना । आयुष्कामेन वप्तव्यं न जातु परयोषिति ॥४१॥
अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः । यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे ॥४२॥
नश्यतीषुर्यथा विद्धः खे विद्धमनुविध्यतः । तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे ॥४३॥
पृथोरपीमां पृथिवीं भार्यां पूर्वविदो विदुः । स्थाणुच्छेदस्य केदारमाहुः शाल्यवतो मृगम् ॥४४॥
एतावानेव पुरुषो यत्जायाऽत्मा प्रजैति ह । विप्राः प्राहुस्तथा चैतद् यो भर्ता सा स्मृताङ्गना ॥४५॥
न निष्क्रयविसर्गाभ्यां भर्तुर्भार्या विमुच्यते । एवं धर्मं विजानीमः प्राक् प्रजापतिनिर्मितम् ॥४६॥
सकृदंशो निपतति सकृत् कन्या प्रदीयते । सकृदाह ददानीति त्रीण्येतानि सतां सकृत् ॥४७॥
यथा गोऽश्वोष्ट्रदासीषु महिष्यजाविकासु च । नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि ॥४८॥
येऽक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः । ते वै सस्यस्य जातस्य न लभन्ते फलं क्व चित् ॥४९॥
यदन्यगोषु वृषभो वत्सानां जनयेत्शतम् । गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम् ॥५०॥
तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः । कुर्वन्ति क्षेत्रिणामर्थं न बीजी लभते फलम् ॥५१॥
फलं त्वनभिसंधाय क्षेत्रिणां बीजिनां तथा । प्रत्यक्षं क्षेत्रिणामर्थो बीजाद् योनिर्गलीयसी ॥५२॥
क्रियाभ्युपगमात् त्वेतद् बीजार्थं यत् प्रदीयते । तस्यैह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥५३॥
ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति । क्षेत्रिकस्यैव तद् बीजं न वप्ता लभते फलम् ॥५४॥
एष धर्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च । विहङ्गमहिषीणां च विज्ञेयः प्रसवं प्रति ॥५५॥
एतद् वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम् । अतः परं प्रवक्ष्यामि योषितां धर्ममापदि ॥५६॥
भ्रातुर्ज्येष्ठस्य भार्या या गुरुपत्न्यनुजस्य सा । यवीयसस्तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ॥५७॥
ज्येष्ठो यवीयसो भार्यां यवीयान् वाऽग्रजस्त्रियम् । पतितौ भवतो गत्वा नियुक्तावप्यनापदि ॥५८॥
देवराद् वा सपिण्डाद् वा स्त्रिया सम्यक्नियुक्तया । प्रजेप्सिताऽऽधिगन्तव्या संतानस्य परिक्षये ॥५९॥
विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत् पुत्रं न द्वितीयं कथं चन ॥६०॥
द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः । अनिर्वृतं नियोगार्थं पश्यन्तो धर्मतस्तयोः ॥६१॥
विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि । गुरुवत्च स्नुषावत्च वर्तेयातां परस्परम् ॥६२॥
नियुक्तौ यौ विधिं हित्वा वर्तेयातां तु कामतः । तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ ॥६३॥
नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥६४॥
नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्व चित् । न विवाहविधावुक्तं विधवावेदनं पुनः ॥६५॥
अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः । मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति ॥६६॥
स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा । वर्णानां सङ्करं चक्रे कामोपहतचेतनः ॥६७॥
ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् । नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः ॥६८॥
यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ॥६९॥
यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् । मिथो भजेता प्रसवात् सकृत्सकृद् ऋतावृतौ ॥७०॥
न दत्त्वा कस्य चित् कन्यां पुनर्दद्याद् विचक्षणः । दत्त्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम् ॥७१॥
विधिवत् प्रतिगृह्यापि त्यजेत् कन्यां विगर्हिताम् । व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ॥७२॥
यस्तु दोषवतीं कन्यामनाख्यायौपपादयेत् । तस्य तद् वितथं कुर्यात् कन्यादातुर्दुरात्मनः ॥७३॥
विधाय वृत्तिं भार्यायाः प्रवसेत् कार्यवान्नरः । अवृत्तिकर्शिता हि स्त्री प्रदुष्येत् स्थितिमत्यपि ॥७४॥
विधाय प्रोषिते वृत्तिं जीवेन्नियममास्थिता । प्रोषिते त्वविधायैव जीवेत्शिल्पैरगर्हितैः ॥७५॥
प्रोषितो धर्मकार्यार्थं प्रतीक्ष्योऽष्टौ नरः समाः । विद्यार्थं षड् यशोऽर्थं वा कामार्थं त्रींस्तु वत्सरान् ॥७६॥
संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः । ऊर्ध्वं संवत्सरात् त्वेनां दायं हृत्वा न संवसेत् ॥७७॥
अतिक्रामेत् प्रमत्तं या मत्तं रोगार्तमेव वा । सा त्रीन् मासान् परित्याज्या विभूषणपरिच्छदा ॥७८॥
उन्मत्तं पतितं क्लीबमबीजं पापरोगिणम् । न त्यागोऽस्ति द्विषन्त्याश्च न च दायापवर्तनम् ॥७९॥
मद्यपाऽसाधुवृत्ता च प्रतिकूला च या भवेत् । व्याधिता वाऽधिवेत्तव्या हिंस्राऽर्थघ्नी च सर्वदा ॥८०॥
न्ध्याष्टमेऽधिवेद्याब्दे दशमे तु मृतप्रजा । एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी ॥८१॥
या रोगिणी स्यात् तु हिता संपन्ना चैव शीलतः । साऽनुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हि चित् ॥८२॥
अधिविन्ना तु या नारी निर्गच्छेद् रुषिता गृहात् । सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ ॥८३॥
प्रतिषिद्धाऽपि चेद् या तु मद्यमभ्युदयेष्वपि । प्रेक्षासमाजं गच्छेद् वा सा दण्ड्या कृष्णलानि षट् ॥८४॥
यदि स्वाश्चापराश्चैव विन्देरन् योषितो द्विजाः । तासां वर्णक्रमेण स्याज् ज्येष्ठ्यं पूजा च वेश्म च ॥८५॥
भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम् । स्वा चैव कुर्यात् सर्वेषां नास्वजातिः कथं चन ॥८६॥
यस्तु तत् कारयेन् मोहात् सजात्या स्थितयाऽन्यया । यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः ॥८७॥
उत्कृष्टायाभिरूपाय वराय सदृशाय च । अप्राप्तामपि तां तस्मै कन्यां दद्याद् यथाविधि ॥८८॥
काममामरणात् तिष्ठेद् गृहे कन्यार्तुमत्यपि । न चैवैनां प्रयच्छेत् तु गुणहीनाय कर्हि चित् ॥८९॥
त्रीणि वर्षाण्युदीक्षेत कुमार्यर्तुमती सती । ऊर्ध्वं तु कालादेतस्माद् विन्देत सदृशं पतिम् ॥९०॥
अदीयमाना भर्तारमधिगच्छेद् यदि स्वयम् । नैनः किं चिदवाप्नोति न च यं साऽधिगच्छति ॥९१॥
अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा । मातृकं भ्रातृदत्तं वा स्तेना स्याद् यदि तं हरेत् ॥९२॥
पित्रे न दद्यात्शुल्कं तु कन्यां ऋतुमतीं हरन् । स च स्वाम्यादतिक्रामेद् ऋतूनां प्रतिरोधनात् ॥९३॥
त्रिंशद्वर्षो वहेत् कन्यां हृद्यां द्वादशवार्षिकीम् । त्र्यष्टवर्षोऽष्टवर्षां वा धर्मे सीदति सत्वरः ॥९४॥
देवदत्तां पतिर्भार्यां विन्दते नेच्छयाऽत्मनः । तां साध्वीं बिभृयान्नित्यं देवानां प्रियमाचरन् ॥९५॥
प्रजनार्थं स्त्रियः सृष्टाः संतानार्थं च मानवः । तस्मात् साधारणो धर्मः श्रुतौ पत्न्या सहोदितः ॥९६॥
कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः । देवराय प्रदातव्या यदि कन्याऽनुमन्यते ॥९७॥
आददीत न शूद्रोऽपि शुल्कं दुहितरं ददन् । शुल्कं हि गृह्णन् कुरुते छन्नं दुहितृविक्रयम् ॥९८॥
एतत् तु न परे चक्रुर्नापरे जातु साधवः । यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते ॥९९॥
नानुशुश्रुम जात्वेतत् पूर्वेष्वपि हि जन्मसु । शुल्कसंज्ञेन मूल्येन छन्नं दुहितृविक्रयम् ॥१००॥
अन्योन्यस्याव्यभिचारो भवेदामरणान्तिकः । एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ॥१॥
तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ । यथा नाभिचरेतां तौ वियुक्तावितरेतरम् ॥२॥
एष स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः । आपद्यपत्यप्राप्तिश्च दायधर्मं निबोधत ॥३॥
ऊर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम् । भजेरन् पैतृकं रिक्थमनीशास्ते हि जीवतोः ॥४॥
ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनमशेषतः । शेषास्तमुपजीवेयुर्यथैव पितरं तथा ॥५॥
ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । पितॄणामनृणश्चैव स तस्मात् सर्वमर्हति ॥६॥
यस्मिनृणं संनयति येन चानन्त्यमश्नुते । स एव धर्मजः पुत्रः कामजानितरान् विदुः ॥७॥
पितेव पालयेत् पूत्रान् ज्येष्ठो भ्रातॄन् यवीयसः । पुत्रवत्चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः ॥८॥
ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः । ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिरगर्हितः ॥९॥
यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान् मातैव स पितैव सः । अज्येष्ठवृत्तिर्यस्तु स्यात् स संपूज्यस्तु बन्धुवत् ॥११०॥
एवं सह वसेयुर्वा पृथग् वा धर्मकाम्यया । पृथग् विवर्धते धर्मस्तस्माद् धर्म्या पृथक्क्रिया ॥११॥
ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद् वरम् । ततोऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥१२॥
ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम् । येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान् मध्यमं धनम् ॥१३॥
सर्वेषां धनजातानामाददीताग्र्यमग्रजः । यच्च सातिशयं किं चिद् दशतश्चाप्नुयाद् वरम् ॥१४॥
उद्धारो न दशस्वस्ति संपन्नानां स्वकर्मसु । यत् किं चिदेव देयं तु ज्यायसे मानवर्धनम् ॥१५॥
एवं समुद्धृतोद्धारे समानंशान् प्रकल्पयेत् । उद्धारेऽनुद्धृते त्वेषामियं स्यादंशकल्पना ॥१६॥
एकाधिकं हरेज् ज्येष्ठः पुत्रोऽध्यर्धं ततोऽनुजः । अंशमंशं यवीयांस इति धर्मो व्यवस्थितः ॥१७॥
स्वेभ्योंशेभ्यस्तु कन्याभ्यः प्रदद्युर्भ्रातरः पृथक् । स्वात् स्वादंशाच्चतुर्भागं पतिताः स्युरदित्सवः ॥१८॥
अजाविकं सेकशफं न जातु विषमं भजेत् । अजाविकं तु विषमं ज्येष्ठस्यैव विधीयते ॥१९॥
यवीयान्ज्येष्ठभार्यायां पुत्रमुत्पादयेद् यदि । समस्तत्र विभागः स्यादिति धर्मो व्यवस्थितः ॥१२०॥
उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते । पिता प्रधानं प्रजने तस्माद् धर्मेण तं भजेत् ॥२१॥
पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः । कथं तत्र विभागः स्यादिति चेत् संशयो भवेत् ॥२२॥
एकं वृषभमुद्धारं संहरेत स पूर्वजः । ततोऽपरे ज्येष्ठवृषास्तदूनानां स्वमातृतः ॥२३॥
ज्येष्ठस्तु जातो ज्येष्ठायां हरेद् वृषभषोडशाः । ततः स्वमातृतः शेषा भजेरन्निति धारणा ॥२४॥
सदृशस्त्रीषु जातानां पुत्राणामविशेषतः । न मातृतो ज्यैष्ठ्यमस्ति जन्मतो ज्यैष्ठ्यमुच्यते ॥२५॥
जन्मज्येष्ठेन चाह्वानं सुब्रह्मण्यास्वपि स्मृतम् । यमयोश्चैव गर्भेषु जन्मतो ज्येष्ठता स्मृता ॥२६॥
अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् । यदपत्यं भवेदस्यां तन् मम स्यात् स्वधाकरम् ॥२७॥
अनेन तु विधानेन पुरा चक्रेऽथ पुत्रिकाः । विवृद्ध्यर्थं स्ववंशस्य स्वयं दक्षः प्रजापतिः ॥२८॥
ददौ स दश धर्माय कश्यपाय त्रयोदश । सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम् ॥२९॥
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा । तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥१३०॥
मातुस्तु यौतकं यत् स्यात् कुमारीभाग एव सः । दौहित्र एव च हरेदपुत्रस्याखिलं धनम् ॥३१॥
दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत् । स एव दद्याद् द्वौ पिण्डौ पित्रे मातामहाय च ॥३२॥
पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः । तयोर्हि मातापितरौ संभूतौ तस्य देहतः ॥३३॥
पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते । समस्तत्र विभागः स्यात्ज्येष्ठता नास्ति हि स्त्रियाः ॥३४॥
अपुत्रायां मृतायां तु पुत्रिकायां कथं चन । धनं तत् पुत्रिकाभर्ता हरेतैवाविचारयन् ॥३५॥
अकृता वा कृता वाऽपि यं विन्देत् सदृशात् सुतम् । पौत्री मातामहस्तेन दद्यात् पिण्डं हरेद् धनम् ॥३६॥
पुत्रेण लोकान्जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥३७॥
पुन्नाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः । तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥३८॥
पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते । दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवत् ॥३९॥
मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः । द्वितीयं तु पितुस्तस्यास्तृतीयं तत्पितुः पितुः ॥१४०॥
उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः । स हरेतैव तद्रिक्थं संप्राप्तोऽप्यन्यगोत्रतः ॥४१॥
गोत्ररिक्थे जनयितुर्न हरेद् दत्त्रिमः क्व चित् । गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥४२॥
अनियुक्तासुतश्चैव पुत्रिण्याऽप्तश्च देवरात् । उभौ तौ नार्हतो भागं जारजातककामजौ ॥४३॥
नियुक्तायामपि पुमान्नार्यां जातोऽविधानतः । नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः ॥४४॥
हरेत् तत्र नियुक्तायां जातः पुत्रो यथौरसः । क्षेत्रिकस्य तु तद् बीजं धर्मतः प्रसवश्च सः ॥४५॥
धनं यो बिभृयाद् भ्रातुर्मृतस्य स्त्रियमेव च । सोऽपत्यं भ्रातुरुत्पाद्य दद्यात् तस्यैव तद्धनम् ॥४६॥
या नियुक्ताऽन्यतः पुत्रं देवराद् वाऽप्यवाप्नुयात् । तं कामजमरिक्थीयं वृथोत्पन्नं प्रचक्षते ॥४७॥
एतद् विधानं विज्ञेयं विभागस्यैकयोनिषु । बह्वीषु चैकजातानां नानास्त्रीषु निबोधत ॥४८॥
ब्राह्मणस्यानुपूर्व्येण चतस्रस्तु यदि स्त्रियः । तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः ॥४९॥
कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च । विप्रस्यौद्धारिकं देयमेकांशश्च प्रधानतः ॥१५०॥
त्र्यंशं दायाद् हरेद् विप्रो द्वावंशौ क्षत्रियासुतः । वैश्याजः सार्धमेवांशमंशं शूद्रासुतो हरेत् ॥५१॥
सर्वं वा रिक्थजातं तद् दशधा परिकल्प्य च । धर्म्यं विभागं कुर्वीत विधिनाऽनेन धर्मवित् ॥५२॥
चतुरानंशान् हरेद् विप्रस्त्रीनंशान् क्षत्रियासुतः । वैश्यापुत्रो हरेद् द्व्यंशमंशं शूद्रासुतो हरेत् ॥५३॥
यद्यपि स्यात् तु सत्पुत्रोऽप्यसत्पुत्रोऽपि वा भवेत् । नाधिकं दशमाद् दद्यात्शूद्रापुत्राय धर्मतः ॥५४॥
ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् । यदेवास्य पिता दद्यात् तदेवास्य धनं भवेत् ॥५५॥
समवर्णासु वा जाताः सर्वे पुत्रा द्विजन्मनाम् । उद्धारं ज्यायसे दत्त्वा भजेरन्नितरे समम् ॥५६॥
शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते । तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत् ॥५७॥
पुत्रान् द्वादश यानाह नॄणां स्वायंभुवो मनुः । तेषां षड् बन्धुदायादाः षडदायादबान्धवाः ॥५८॥
औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥५९॥
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा । स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवाः ॥१६०॥
यादृशं फलमाप्नोति कुप्लवैः संतरन्जलम् । तादृशं फलमाप्नोति कुपुत्रैः संतरंस्तमः ॥६१॥
यद्येकरिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ । यस्य यत् पैतृकं रिक्थं स तद् गृह्णीत नैतरः ॥६२॥
एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । शेषाणामानृशंस्यार्थं प्रदद्यात् तु प्रजीवनम् ॥६३॥
षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात् पैतृकाद् धनात् । औरसो विभजन् दायं पित्र्यं पञ्चममेव वा ॥६४॥
औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ । दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ॥६५॥
स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद् हि यम् । तमौरसं विजानीयात् पुत्रं प्राथमकल्पिकम् ॥६६॥
यस्तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा । स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥६७॥
माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ॥६८॥
सदृशं तु प्रकुर्याद् यं गुणदोषविचक्षणम् । पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः ॥६९॥
उत्पद्यते गृहे यस्तु न च ज्ञायेत कस्य सः । स गृहे गूढ उत्पन्नस्तस्य स्याद् यस्य तल्पजः ॥१७०॥
मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा । यं पुत्रं परिगृह्णीयादपविद्धः स उच्यते ॥७१॥
पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् रहः । तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम् ॥७२॥
या गर्भिणी संस्क्रियते ज्ञाताऽज्ञाताऽपि वा सती । वोढुः स गर्भो भवति सहोढ इति चोच्यते ॥७३॥
क्रीणीयाद् यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् । स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा ॥७४॥
या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया । उत्पादयेत् पुनर्भूत्वा स पौनर्भव उच्यते ॥७५॥
सा चेदक्षतयोनिः स्याद् गतप्रत्यागताऽपि वा । पौनर्भवेन भर्त्रा सा पुनः संस्कारमर्हति ॥७६॥
मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् । आत्मानमर्पयेद् यस्मै स्वयंदत्तस्तु स स्मृतः ॥७७॥
यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत् सुतम् । स पारयन्नेव शवस्तस्मात् पारशवः स्मृतः ॥७८॥
दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् । सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थितः ॥७९॥
क्षेत्रजादीन् सुतानेतानेकादश यथोदितान् । पुत्रप्रतिनिधीनाहुः क्रियालोपान् मनीषिणः ॥१८०॥
य एतेऽभिहिताः पुत्राः प्रसङ्गादन्यबीजजाः । यस्य ते बीजतो जातास्तस्य ते नैतरस्य तु ॥८१॥
भ्रातॄणामेकजातानामेकश्चेत् पुत्रवान् भवेत् । सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥८२॥
सर्वासामेकपत्नीनामेका चेत् पुत्रिणी भवेत् । सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः ॥८३॥
श्रेयसः श्रेयसोऽलाभे पापीयान् रिक्थमर्हति । बहवश्चेत् तु सदृशाः सर्वे रिक्थस्य भागिनः ॥८४॥
न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः । पिता हरेदपुत्रस्य रिक्थं भ्रातर एव च ॥८५॥
त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्तते । चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते ॥८६॥
अनन्तरः सपिण्डाद् यस्तस्य तस्य धनं भवेत् । अत ऊर्ध्वं सकुल्यः स्यादाचार्यः शिष्य एव वा ॥८७॥
सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः । त्रैविद्याः शुचयो दान्तास्तथा धर्मो न हीयते ॥८८॥
अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः । इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः ॥८९॥
संस्थितस्यानपत्यस्य सगोत्रात् पुत्रमाहरेत् । तत्र यद् रिक्थजातं स्यात् तत् तस्मिन् प्रतिपादयेत् ॥१९०॥
द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने । तयोर्यद् यस्य पित्र्यं स्यात् तत् स गृह्णीत नैतरः ॥९१॥
जनन्यां संस्थितायां तु समं सर्वे सहोदराः । भजेरन् मातृकं रिक्थं भगिन्यश्च सनाभयः ॥९२॥
यास्तासां स्युर्दुहितरस्तासामपि यथार्हतः । मातामह्या धनात् किं चित् प्रदेयं प्रीतिपूर्वकम् ॥९३॥
अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि । भ्रातृमातृपितृप्राप्तं षड् विधं स्त्रीधनं स्मृतम् ॥९४॥
अन्वाधेयं च यद् दत्तं पत्या प्रीतेन चैव यत् । पत्यौ जीवति वृत्तायाः प्रजायास्तद् धनं भवेत् ॥९५॥
ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद् वसु । अप्रजायामतीतायां भर्तुरेव तदिष्यते ॥९६॥
यत् त्वस्याः स्याद् धनं दत्तं विवाहेष्वासुरादिषु । अप्रजायामतीतायां मातापित्रोस्तदिष्यते ॥९७॥
स्त्रियां तु यद् भवेद् वित्तं पित्रा दत्तं कथं चन । ब्राह्मणी तद् हरेत् कन्या तदपत्यस्य वा भवेत् ॥९८॥
न निर्हारं स्त्रियः कुर्युः कुटुम्बाद् बहुमध्यगात् । स्वकादपि च वित्ताद् हि स्वस्य भर्तुरनाज्ञया ॥९९॥
पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत् । न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥२००॥
अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा । उन्मत्तजडमूकाश्च ये च के चिन्निरिन्द्रियाः ॥१॥
सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणा । ग्रासाच्छादनमत्यन्तं पतितो ह्यददद् भवेत् ॥२॥
यद्यर्थिता तु दारैः स्यात् क्लीबादीनां कथं चन । तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति ॥३॥
यत् किं चित् पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति । भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥४॥
अविद्यानां तु सर्वेषामीहातश्चेद् धनं भवेत् । समस्तत्र विभागः स्यादपित्र्य इति धारणा ॥५॥
विद्याधनं तु यद्यस्य तत् तस्यैव धनं भवेत् । मैत्र्यमोद्वाहिकं चैव माधुपर्किकमेव च ॥६॥
भ्रातॄणां यस्तु नैहेत धनं शक्तः स्वकर्मणा । स निर्भाज्यः स्वकादंशात् किं चिद् दत्त्वोपजीवनम् ॥७॥
अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जितम् । स्वयमीहितलब्धं तन्नाकामो दातुमर्हति ॥८॥
पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात् । न तत् पुत्रैर्भजेत् सार्धमकामः स्वयमर्जितम् ॥९॥
विभक्ताः सह जीवन्तो विभजेरन् पुनर्यदि । समस्तत्र विभागः स्याज् ज्यैष्ठ्यं तत्र न विद्यते ॥२१०॥
येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः । म्रियेतान्यतरो वाऽपि तस्य भागो न लुप्यते ॥११॥
सोदर्या विभजेरंस्तं समेत्य सहिताः समम् । भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः ॥१२॥
यो ज्येष्ठो विनिकुर्वीत लोभाद् भ्रातॄन् यवीयसः । सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिः ॥१३॥
सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम् । न चादत्त्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत योतकम् ॥१४॥
भ्रातॄणामविभक्तानां यद्युत्थानं भवेत् सह । न पुत्रभागं विषमं पिता दद्यात् कथं चन ॥१५॥
ऊर्ध्वं विभागात्जातस्तु पित्र्यमेव हरेद् धनम् । संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह ॥१६॥
अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां पितुर्माता हरेद् धनम् ॥१७॥
ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि । पश्चाद् दृश्येत यत् किं चित् तत् सर्वं समतां नयेत् ॥१८॥
वस्त्रं पत्रमलङ्कारं कृतान्नमुदकं स्त्रियः ? ? । योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥१९॥
अयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः । क्रमशः क्षेत्रजादीनां द्यूतधर्मं निबोधत ॥२२०॥
द्यूतं समाह्वयं चैव राजा राष्ट्रात्निवारयेत् । राजान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् ॥२१॥
प्रकाशमेतत् तास्कर्यं यद् देवनसमाह्वयौ । तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान् भवेत् ॥२२॥
अप्राणिभिर्यत् क्रियते तत्लोके द्यूतमुच्यते । प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ॥२३॥
द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा । तान् सर्वान् घातयेद् राजा शूद्रांश्च द्विजलिङ्गिनः ॥२४॥
कितवान् कुशीलवान् क्रूरान् पाषण्डस्थांश्च मानवान् । विकर्मस्थान् शौण्डिकांश्च क्षिप्रं निर्वासयेत् पुरात् ॥२५॥
एते राष्ट्रे वर्तमाना राज्ञः प्रच्छन्नतस्कराः । विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ॥२६॥
द्यूतमेतत् पुरा कल्पे दृष्टं वैरकरं महत् । तस्माद् द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् ॥२७॥
प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः । तस्य दण्डविकल्पः स्याद् यथेष्टं नृपतेस्तथा ॥२८॥
क्षत्रविद् शूद्रयोनिस्तु दण्डं दातुमशक्नुवन् । आनृण्यं कर्मणा गच्छेद् विप्रो दद्यात्शनैः शनैः ॥२९॥
स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम् । शिफाविदलरज्ज्वाद्यैर्विदध्यात्नृपतिर्दमम् ॥२३०॥
ये नियुक्तास्तु कार्येषु हन्युः कार्याणि कार्यिणाम् । धनौष्मणा पच्यमानास्तान्निःस्वान् कारयेन्नृपः ॥३१॥
कूटशासनकर्तॄंश्च प्रकृतीनां च दूषकान् । स्त्रीबालब्राह्मणघ्नांश्च हन्याद् द्विष् सेविनस्तथा ॥३२॥
तीरितं चानुशिष्टं च यत्र क्व चन यद् भवेत् । कृतं तद् धर्मतो विद्यान्न तद् भूयो निवर्तयेत् ॥३३॥
अमात्यः प्राग्विवाको वा यत् कुर्युः कार्यमन्यथा । तत् स्वयं नृपतिः कुर्यात् तान् सहस्रं च दण्डयेत् ॥३४॥
ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः । एते सर्वे पृथग् ज्ञेया महापातकिनो नराः ॥३५॥
चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम् । शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥३६॥
गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये च श्वपदं कार्यं ब्रह्महण्यशिराः पुमान् ॥३७॥
असंभोज्या ह्यसंयाज्या असंपाठ्याऽविवाहिनः । चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ॥३८॥
ज्ञातिसंबन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः । निर्दया निर्नमस्कारास्तन् मनोरनुशासनम् ॥३९॥
प्रायश्चित्तं तु कुर्वाणाः सर्ववर्णा यथोदितम् । नाङ्क्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ॥२४०॥
आगःसु ब्राह्मणस्यैव कार्यो मध्यमसाहसः । विवास्यो वा भवेद् राष्ट्रात् सद्रव्यः सपरिच्छदः ॥४१॥
इतरे कृतवन्तस्तु पापान्येतान्यकामतः । सर्वस्वहारमर्हन्ति कामतस्तु प्रवासनम् ॥४२॥
नाददीत नृपः साधुर्महापातकिनो धनम् । आददानस्तु तत्लोभात् तेन दोषेण लिप्यते ॥४३॥
अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् । श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ॥४४॥
ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः । ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥४५॥
यत्र वर्जयते राजा पापकृद्भ्यो धनागमम् । तत्र कालेन जायन्ते मानवा दीर्घजीविनः ॥४६॥
निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक् । बालाश्च न प्रमीयन्ते विकृतं च न जायते ॥४७॥
ब्राह्मणान् बाधमानं तु कामादवरवर्णजम् । हन्याच्चित्रैर्वधोपायैरुद्वेजनकरैर्नृपः ॥४८॥
यावानवध्यस्य वधे तावान् वध्यस्य मोक्षणे । अधर्मो नृपतेर्दृष्टो धर्मस्तु विनियच्छतः ॥४९॥
उदितोऽयं विस्तरशो मिथो विवदमानयोः । अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ॥२५०॥
एवं धर्म्याणि कार्याणि सम्यक् कुर्वन् महीपतिः । देशानलब्धान्लिप्सेत लब्धांश्च परिपालयेत् ॥५१॥
सम्यग्निविष्टदेशस्तु कृतदुर्गश्च शास्त्रतः । कण्टकोद्धरणे नित्यमातिष्ठेद् यत्नमुत्तमम् ॥५२॥
रक्षनादार्यवृत्तानां कण्टकानां च शोधनात् । नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥५३॥
अशासंस्तस्करान् यस्तु बलिं गृह्णाति पार्थिवः । तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते ॥५४॥
निर्भयं तु भवेद् यस्य राष्ट्रं बाहुबलाश्रितम् । तस्य तद् वर्धते नित्यं सिच्यमान इव द्रुमः ॥५५॥
द्विविधांस्तस्करान् विद्यात् परद्रव्यापहारकान् । प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः ॥५६॥
प्रकाशवञ्चकास्तेषां नानापण्योपजीविनः । प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः ॥५७॥
उत्कोचकाश्चोपधिका वञ्चकाः कितवास्तथा । मङ्गलादेशवृत्ताश्च भद्राश्चैक्षणिकैः सह ॥५८॥
असम्यक्कारिणश्चैव महामात्राश्चिकित्सकाः । शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः ॥५९॥
एवमादीन् विजानीयात् प्रकाशांल्लोककण्टकान् । निगूढचारिणश्चान्याननार्यानार्यलिङ्गिनः ॥२६०॥
तान् विदित्वा सुचरितैर्गूढैस्तत्कर्मकारिभिः । चारैश्चानेकसंस्थानैः प्रोत्साद्य वशमानयेत् ॥६१॥
तेषां दोषानभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः । कुर्वीत शासनं राजा सम्यक् सारापराधतः ॥६२॥
न हि दण्डाद् ऋते शक्यः कर्तुं पापविनिग्रहः । स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ॥६३॥
सभाप्रपाऽपूपशालावेशमद्यान्नविक्रयाः । चतुष्पथांश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥६४॥
जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च । शून्यानि चाप्यगाराणि वनान्युपवनानि च ॥६५॥
एवंविधान्नृपो देशान् गुल्मैः स्थावरजङ्गमैः । तस्करप्रतिषेधार्थं चारैश्चाप्यनुचारयेत् ॥६६॥
तत्सहायैरनुगतैर्नानाकर्मप्रवेदिभिः । विद्यादुत्सादयेच्चैव निपुणैः पूर्वतस्करैः ॥६७॥
भक्ष्यभोज्योपदेशैश्च ब्राह्मणानां च दर्शनैः । शौर्यकर्मापदेशैश्च कुर्युस्तेषां समागमम् ॥६८॥
ये तत्र नोपसर्पेयुर्मूलप्रणिहिताश्च ये । तान् प्रसह्य नृपो हन्यात् समित्रज्ञातिबान्धवान् ॥६९॥
न होढेन विना चौरं घातयेद् धार्मिको नृपः । सहोढं सोपकरणं घातयेदविचारयन् ॥२७०॥
ग्रामेष्वपि च ये के चिच्चौराणां भक्तदायकाः । भाण्डावकाशदाश्चैव सर्वांस्तानपि घातयेत् ॥७१॥
राष्ट्रेषु रक्षाधिकृतान् सामन्तांश्चैव चोदितान् । अभ्याघातेषु मध्यस्थाञ् शिष्याच्चौरानिव द्रुतम् ॥७२॥
यश्चापि धर्मसमयात् प्रच्युतो धर्मजीवनः । दण्डेनैव तमप्योषेत् स्वकाद् धर्माद् हि विच्युतम् ॥७३॥
ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने । शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः ॥७४॥
राज्ञः कोशापहर्तॄंश्च प्रतिकूलेषु च स्थितान् । घातयेद् विविधैर्दण्डैररीणां चोपजापकान् ॥७५॥
संधिं छित्त्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः । तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥७६॥
अङ्गुलीर्ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे । द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥७७॥
अग्निदान् भक्तदांश्चैव तथा शस्त्रावकाशदान् । संनिधातॄंश्च मोषस्य हन्याच्चौरमिवेश्वरः ॥७८॥
तडागभेदकं हन्यादप्सु शुद्धवधेन वा । यद् वाऽपि प्रतिसंस्कुर्याद् दाप्यस्तूत्तमसाहसम् ॥७९॥
कोष्ठागारायुधागारदेवतागारभेदकान् । हस्त्यश्वरथहर्तॄंश्च हन्यादेवाविचारयन् ॥२८०॥
यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् । आगमं वाऽप्यपां भिन्द्यात् स दाप्यः पूर्वसाहसम् ॥८१॥
समुत्सृजेद् राजमार्गे यस्त्वमेध्यमनापदि । स द्वौ कार्षापणौ दद्यादमेध्यं चाशु शोधयेत् ॥८२॥
आपद्गतोऽथ वा वृद्धा गर्भिणी बाल एव वा । परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः ॥८३॥
चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः । अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥८४॥
सङ्क्रमध्वजयष्टीनां प्रतिमानां च भेदकः । प्रतिकुर्याच्च तत् सर्वं पञ्च दद्यात्शतानि च ॥८५॥
अदूषितानां द्रव्याणां दूषणे भेदने तथा । मणीनामपवेधे च दण्डः प्रथमसाहसः ॥८६॥
समैर्हि विषमं यस्तु चरेद् वै मूल्यतोऽपि वा । समाप्नुयाद् दमं पूर्वं नरो मध्यममेव वा ॥८७॥
बन्धनानि च सर्वाणि राजा मार्गे निवेशयेत् । [Mrjmrge ] दुःखिता यत्र दृश्येरन् विकृताः पापकारिणः ॥८८॥
प्राकारस्य च भेत्तारं परिखाणां च पूरकम् । द्वाराणां चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत् ॥८९॥
अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः । मूलकर्मणि चानाप्तेः कृत्यासु विविधासु च ॥२९०॥
अबीजविक्रयी चैव बीजोत्कृष्टा तथैव च । मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद् वधम् ॥९१॥
सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः । प्रवर्तमानमन्याये छेदयेत्लवशः क्षुरैः ॥९२॥
सीताद्रव्यापहरणे शस्त्राणामौषधस्य च । कालमासाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ॥९३॥
स्वाम्य्ऽमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत् तथा । सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते ॥९४॥
सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् । पूर्वं पूर्वं गुरुतरं जानीयाद् व्यसनं महत् ॥९५॥
सप्ताङ्गस्यैह राज्यस्य विष्टब्धस्य त्रिदण्डवत् । अन्योन्यगुणवैशेष्यात्न किं चिदतिरिच्यते ॥९६॥
तेषु तेषु तु कृत्येषु तत् तदङ्गं विशिष्यते । येन यत् साध्यते कार्यं तत् तस्मिंश्रेष्ठमुच्यते ॥९७॥
चारेणोत्साहयोगेन क्रिययैव च कर्मणाम् । स्वशक्तिं परशक्तिं च नित्यं विद्यान्महीपतिः ॥९८॥
पीडनानि च सर्वाणि व्यसनानि तथैव च । आरभेत ततः कार्यं सञ्चिन्त्य गुरुलाघवम् ॥९९॥
आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः । कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते ॥३००॥
कृतं त्रेतायुगं चैव द्वापरं कलिरेव च । राज्ञो वृत्तानि सर्वाणि राजा हि युगमुच्यते ॥१॥
कलिः प्रसुप्तो भवति स जाग्रद् द्वापरं युगम् । कर्मस्वभ्युद्यतस्त्रेता विचरंस्तु कृतं युगम् ॥२॥
इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च । चन्द्रस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत् ॥३॥
वार्षिकांश्चतुरो मासान् यथेन्द्रोऽभिप्रवर्षति । तथाऽभिवर्षेत् स्वं राष्ट्रं कामैरिन्द्रव्रतं चरन् ॥४॥
अष्टौ मासान् यथाऽदित्यस्तोयं हरति रश्मिभिः । तथा हरेत् करं राष्ट्रात्नित्यमर्कव्रतं हि तत् ॥५॥
प्रविश्य सर्वभूतानि यथा चरति मारुतः । तथा चारैः प्रवेष्टव्यं व्रतमेतद् हि मारुतम् ॥६॥
यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति । तथा राज्ञा नियन्तव्याः प्रजास्तद् हि यमव्रतम् ॥७॥
वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते । तथा पापान्निगृह्णीयाद् व्रतमेतद् हि वारुणम् ॥८॥
परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः । तथा प्रकृतयो यस्मिन् स चान्द्रव्रतिको नृपः ॥९॥
प्रतापयुक्तस्तेजस्वी नित्यं स्यात् पापकर्मसु । दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम् ॥३१०॥
यथा सर्वाणि भूतानि धरा धारयते समम् । तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥११॥
एतैरुपायैरन्यैश्च युक्तो नित्यमतन्द्रितः । स्तेनान् राजा निगृह्णीयात् स्वराष्ट्रे पर एव च ॥१२॥
परामप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत् । ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम् ॥१३॥
यैः कृतः सर्वभक्ष्योऽग्निरपेयश्च महोदधिः । क्षयी चाप्यायितः सोमः को न नश्येत् प्रकोप्य तान् ॥१४॥
लोकानन्यान् सृजेयुर्ये लोकपालांश्च कोपिताः । देवान् कुर्युरदेवांश्च कः क्षिण्वंस्तान् समृध्नुयात् ॥१५॥
यानुपाश्रित्य तिष्ठन्ति लोका देवाश्च सर्वदा । ब्रह्म चैव धनं येषां को हिंस्यात् ताञ्जिजीविषुः ॥१६॥
अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् । प्रणीतश्चाप्रणीतश्च यथाऽग्निर्दैवतं महत् ॥१७॥
श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति । हूयमानश्च यज्ञेषु भूय एवाभिवर्धते ॥१८॥
एवं यद्यप्यनिष्टेषु वर्तन्ते सर्वकर्मसु । सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् ॥१९॥
क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान् प्रति सर्वशः । ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हि ब्रह्मसंभवम् ॥३२०॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥२१॥
नाब्रह्म क्षत्रं ऋध्नोति नाक्षत्रं ब्रह्म वर्धते । ब्रह्म क्षत्रं च संपृक्तमिह चामुत्र वर्धते ॥२२॥
दत्त्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम् । पुत्रे राज्यं समासृज्य कुर्वीत प्रायणं रणे ॥२३॥
एवं चरन् सदा युक्तो राजधर्मेषु पार्थिवः । हितेषु चैव लोकस्य सर्वान् भृत्यान्नियोजयेत् ॥२४॥
एषोऽखिलः कर्मविधिरुक्तो राज्ञः सनातनः । इमं कर्मविधिं विद्यात् क्रमशो वैश्यशूद्रयोः ॥२५॥
वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम् । वार्तायां नित्ययुक्तः स्यात् पशूनां चैव रक्षणे ॥२६॥
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् । ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ॥२७॥
न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति । वैश्ये चेच्छति नान्येन रक्षितव्याः कथं चन ॥२८॥
मणिमुक्ताप्रवालानां लोहानां तान्तवस्य च । गन्धानां च रसानां च विद्यादर्घबलाबलम् ॥२९॥
बीजानामुप्तिविद् च स्यात् क्षेत्रदोषगुणस्य च । मानयोगं च जानीयात् तुलायोगांश्च सर्वशः ॥३३०॥
सारासारं च भाण्डानां देशानां च गुणागुणान् । लाभालाभं च पण्यानां पशूनां परिवर्धनम् ॥३१॥
भृत्यानां च भृतिं विद्याद् भाषाश्च विविधा नृणाम् । द्रव्याणां स्थानयोगांश्च क्रयविक्रयमेव च ॥३२॥
धर्मेण च द्रव्यवृद्धावातिष्ठेद् यत्नमुत्तमम् । दद्याच्च सर्वभूतानामन्नमेव प्रयत्नतः ॥३३॥
विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम् । शुश्रूषैव तु शूद्रस्य धर्मो नैश्रेयसः परः ॥३४॥
शुचिरुत्कृष्टशुश्रूषुर्मृदुवागनहङ्कृतः । ब्राह्मणाद्याश्रयो नित्यमुत्कृष्टां जातिमश्नुते ॥३५॥
एषोऽनापदि वर्णानामुक्तः कर्मविधिः शुभः । आपद्यपि हि यस्तेषां क्रमशस्तन्निबोधत ॥३३६॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहिताया नवमोध्यायः ॥९॥