मनुस्मृतिः - दशमोध्यायः

मनुस्मृती हे धर्मशास्त्र आहे. वर्णधर्म, आश्रमधर्म, वर्णाश्रमधर्म, राजधर्म, व्यवहारनिर्णय, स्त्रीधर्म व पुरूषधर्म यांच्या या स्मृतीमध्ये व्याख्या सांगून त्यांची निष्कृती कोणत्या उपायांनी करावी हे सुचविले आहे.


अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः । प्रब्रूयाद् ब्राह्मणस्त्वेषां नेतराविति निश्चयः ॥१॥

सर्वेषां ब्राह्मणो विद्याद् वृत्त्युपायान् यथाविधि । प्रब्रूयादितरेभ्यश्च स्वयं चैव तथा भवेत् ॥२॥

वैशेष्यात् प्रकृतिश्रैष्ठ्यान्नियमस्य च धारणात् । संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः ॥३॥

ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः ॥४॥

सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु । आनुलोम्येन संभूता जात्या ज्ञेयास्त एव ते ॥५॥

स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान् सुतान् । सदृशानेव तानाहुर्मातृदोषविगर्हितान् ॥६॥

अनन्तरासु जातानां विधिरेष सनातनः । द्व्येकान्तरासु जातानां धर्म्यं विद्यादिमं विधिम् ॥७॥

ब्राह्मणाद् वैश्यकन्यायामम्बष्ठो नाम जायते । निषादः शूद्रकन्यायां यः पारशव उच्यते ॥८॥

क्षत्रियात्शूद्रकन्यायां क्रूराचारविहारवान् । क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते ॥९॥

विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः । वैश्यस्य वर्णे चैकस्मिन् षडेतेऽपसदाः स्मृताः ॥१०॥

क्षत्रियाद् विप्रकन्यायां सूतो भवति जातितः । वैश्यान् मागधवैदेहौ राजविप्राङ्गनासुतौ ॥११॥

शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् । वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः ॥१२॥

एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ । क्षत्तृवैदेहकौ तद्वत् प्रातिलोम्येऽपि जन्मनि ॥१३॥

पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् । ताननन्तरनाम्नस्तु मातृदोषात् प्रचक्षते ॥१४॥

ब्राह्मणादुग्रकन्यायामावृतो नाम जायते । आभीरोऽम्बष्ठकन्यायामायोगव्यां तु धिग्वणः ॥१५॥

आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम् । प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः ॥१६॥

वैश्यान् मागधवैदेहौ क्षत्रियात् सूत एव तु । प्रतीपमेते जायन्ते परेऽप्यपसदास्त्रयः ॥१७॥

जातो निषादात्शूद्रायां जात्या भवति पुक्कसः । शूद्राज् जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ॥१८॥

क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्यते । वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते ॥१९॥

द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् । तान् सावित्रीपरिभ्रष्टान् व्रात्यानिति विनिर्दिशेत् ॥२०॥

व्रात्यात् तु जायते विप्रात् पापात्मा भूर्जकण्टकः । आवन्त्यवाटधानौ च पुष्पधः शैख एव च ॥२१॥

झल्लो मल्लश्च राजन्याद् व्रात्यात्निच्छिविरेव च । नटश्च करणश्चैव खसो द्रविड एव च ॥२२॥

वैश्यात् तु जायते व्रात्यात् सुधन्वाऽचार्य एव च । कारुषश्च विजन्मा च मैत्रः सात्वत एव च ॥२३॥

व्यभिचारेण वर्णानामवेद्यावेदनेन च । स्वकर्मणां च त्यागेन जायन्ते वर्णसङ्कराः ॥२४॥

सङ्कीर्णयोनयो ये तु प्रतिलोमानुलोमजाः । अन्योन्यव्यतिषक्ताश्च तान् प्रवक्ष्याम्यशेषतः ॥२५॥

सूतो वैदेहकश्चैव चण्डालश्च नराधमः । मागधः तथाऽयोगव एव च क्षत्रजातिश्च ॥२६॥

एते षट् सदृशान् वर्णाञ्जनयन्ति स्वयोनिषु । मातृजात्यां प्रसूयन्ते प्रवारासु च योनिषु ॥२७॥

यथा त्रयाणां वर्णानां द्वयोरात्माऽस्य जायते । आनन्तर्यात् स्वयोन्यां तु तथा बाह्येष्वपि क्रमात् ॥२८॥

ते चापि बाह्यान् सुबहूंस्ततोऽप्यधिकदूषितान् । परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥२९॥

यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते । तथा बाह्यतरं बाह्यश्चातुर्वर्ण्ये प्रसूयते ॥३०॥

प्रतिकूलं वर्तमाना बाह्या बाह्यतरान् पुनः । हीना हीनान् प्रसूयन्ते वर्णान् पञ्चदशैव तु ॥३१॥

प्रसाधनोपचारज्ञमदासं दासजीवनम् । सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे ॥३२॥

मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते । नॄन् प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये ॥३३॥

निषादो मार्गवं सूते दासं नौकर्मजीविनम् । कैवर्तमिति यं प्राहुरार्यावर्तनिवासिनः ॥३४॥

मृतवस्त्रभृत्स्वनारीषु गर्हितान्नाशनासु च । भवन्त्यायोगवीष्वेते जातिहीनाः पृथक् त्रयः ॥३५॥

कारावरो निषादात् तु चर्मकारः प्रसूयते । वैदेहिकादन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ ॥३६॥

चण्डालात् पाण्डुसोपाकस्त्वक्सारव्यवहारवान् । आहिण्डिको निषादेन वैदेह्यामेव जायते ॥३७॥

चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् । पुक्कस्यां जायते पापः सदा सज्जनगर्हितः ॥३८॥

निषादस्त्री तु चण्डालात् पुत्रमन्त्यावसायिनम् । श्मशानगोचरं सूते बाह्यानामपि गर्हितम् ॥३९॥

सङ्करे जातयस्त्वेताः पितृमातृप्रदर्शिताः । प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥४०॥

स्वजातिजानन्तरजाः षट् सुता द्विजधर्मिणः । शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः ॥४१॥

तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे । उत्कर्षं चापकर्षं च मनुष्येष्विह जन्मतः ॥४२॥

शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः । वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥४३॥

पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा यवनाः शकाः । पारदापह्लवाश्चीनाः किराता दरदाः खशाः ॥४४॥

मुखबाहूरुपद्जानां या लोके जातयो बहिः । म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः ॥४५॥

ये द्विजानामपसदा ये चापध्वंसजाः स्मृताः । ते निन्दितैर्वर्तयेयुर्द्विजानामेव कर्मभिः ॥४६॥

सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सनम् । वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः ॥४७॥

मत्स्यघातो निषादानां त्वष्टिस्त्वायोगवस्य च । मेदान्ध्रचुञ्चुमद्गूनामारण्यपशुहिंसनम् ॥४८॥

क्षत्त्र्युग्रपुक्कसानां तु बिलौकोवधबन्धनम् । धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् ॥४९॥

चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च । वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः ॥५०॥

चण्डालश्वपचानां तु बहिर्ग्रामात् प्रतिश्रयः । अपपात्राश्च कर्तव्या धनमेषां श्वगर्दभम् ॥५१॥

वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम् । कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः ॥५२॥

न तैः समयमन्विच्छेत् पुरुषो धर्ममाचरन् । व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ॥५३॥

अन्नमेषां पराधीनं देयं स्याद् भिन्नभाजने । रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ॥५४॥

दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः । अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः ॥५५॥

वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया । वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च ॥५६॥

वर्णापेतमविज्ञातं नरं कलुषयोनिजम् । आर्यरूपमिवानार्यं कर्मभिः स्वैर्विभावयेत् ॥५७॥

अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता । पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥५८॥

पित्र्यं वा भजते शीलं मातुर्वोभयमेव वा । न कथं चन दुर्योनिः प्रकृतिं स्वां नियच्छति ॥५९॥

कुले मुख्येऽपि जातस्य यस्य स्याद् योनिसङ्करः । संश्रयत्येव तत्शीलं नरोऽल्पमपि वा बहु ॥६०॥

यत्र त्वेते परिध्वंसाज् जायन्ते वर्णदूषकाः । राष्ट्रिकैः सह तद् राष्ट्रं क्षिप्रमेव विनश्यति ॥६१॥

ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः । स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् ॥६२॥

अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन् मनुः ॥६३॥

शूद्रायां ब्राह्मणाज् जातः श्रेयसा चेत् प्रजायते । अश्रेयान् श्रेयसीं जातिं गच्छत्या सप्तमाद् युगात् ॥६४॥

शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् । क्षत्रियाज् जातमेवं तु विद्याद् वैश्यात् तथैव च ॥६५॥

अनार्यायां समुत्पन्नो ब्राह्मणात् तु यदृच्छया । ब्राह्मण्यामप्यनार्यात् तु श्रेयस्त्वं क्वेति चेद् भवेत्॥६६॥

जातो नार्यामनार्यायामार्यादार्यो भवेद् गुणैः । जातोऽप्यनार्यादार्यायामनार्य इति निश्चयः ॥६७॥

तावुभावप्यसंस्कार्याविति धर्मो व्यवस्थितः । वैगुण्याज् जन्मनः पूर्व उत्तरः प्रतिलोमतः ॥६८॥

सुबीजं चैव सुक्षेत्रे जातं संपद्यते यथा । तथाऽर्याज् जात आर्यायां सर्वं संस्कारमर्हति ॥६९॥

बीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः । बीजक्षेत्रे तथैवान्ये तत्रैयं तु व्यवस्थितिः ॥७०॥

अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति । अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥७१॥

यस्माद् बीजप्रभावेण तिर्यग्जा ऋषयोऽभवन् । पूजिताश्च प्रशस्ताश्च तस्माद् बीजं प्रशस्यते ॥७२॥

अनार्यमार्यकर्माणमार्यं चानार्यकर्मिणम् । संप्रधार्याब्रवीद् धाता न समौ नासमाविति ॥७३॥

ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिताः । ते सम्यगुपजीवेयुः षट् कर्माणि यथाक्रमम् ॥७४॥

अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चैव षट् कर्माण्यग्रजन्मनः ॥७५॥

षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥७६॥

त्रयो धर्मा निवर्तन्ते ब्राह्मणात् क्षत्रियं प्रति । अध्यापनं याजनं च तृतीयश्च प्रतिग्रहः ॥७७॥

वैश्यं प्रति तथैवैते निवर्तेरन्निति स्थितिः । न तौ प्रति हि तान् धर्मान् मनुराह प्रजापतिः ॥७८॥

शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषिर्विषः । आजीवनार्थं धर्मस्तु दानमध्ययनं यजिः ॥७९॥

वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम् । वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु ॥८०॥

अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा । जीवेत् क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः ॥८१॥

उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद् भवेत् । कृषिगोरक्षमास्थाय जीवेद् वैश्यस्य जीविकाम् ॥८२॥

वैश्यवृत्त्याऽपि जीवंस्तु ब्राह्मणः क्षत्रियोऽपि वा । हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् ॥८३॥

कृषिं साधुइति मन्यन्ते सा वृत्तिः सद्विगर्हिताः । भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् ॥८४॥

इदं तु वृत्तिवैकल्यात् त्यजतो धर्मनैपुणम् । विट्पण्यमुद्धृतोद्धारं विक्रेयं वित्तवर्धनम् ॥८५॥

सर्वान् रसानपोहेत कृतान्नं च तिलैः सह । अश्मनो लवणं चैव पशवो ये च मानुषाः ॥८६॥

सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च । अपि चेत् स्युररक्तानि फलमूले तथौषधीः ॥८७॥

अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः । क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥८८॥

आरण्यांश्च पशून् सर्वान् दंष्ट्रिणश्च वयांसि च । मद्यं नीलिं च लाक्षां च सर्वांश्चैकशफांस्तथा ॥८९॥

काममुत्पाद्य कृष्यां तु स्वयमेव कृषीवलः । विक्रीणीत तिलांशूद्रान् धर्मार्थमचिरस्थितान् ॥९०॥

भोजनाभ्यञ्जनाद् दानाद् यदन्यत् कुरुते तिलैः । कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति ॥९१॥

सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥९२॥

इतरेषां तु पण्यानां विक्रयादिह कामतः । ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ॥९३॥

रसा रसैर्निमातव्या न त्वेव लवणं रसैः । कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥९४॥

जीवेदेतेन राजन्यः सर्वेणाप्यनयं गतः । न त्वेव ज्यायंसीं वृत्तिमभिमन्येत कर्हि चित् ॥९५॥

यो लोभादधमो जात्या जीवेदुत्कृष्टकर्मभिः । तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत् ॥९६॥

वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः । परधर्मेण जीवन् हि सद्यः पतति जातितः ॥९८॥

वैश्योऽजीवन् स्वधर्मेण शूद्रवृत्त्याऽपि वर्तयेत् । अनाचरन्नकार्याणि निवर्तेत च शक्तिमान् ॥९८॥

अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् । पुत्रदारात्ययं प्राप्तो जीवेत् कारुककर्मभिः ॥९९॥

यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः । तानि कारुककर्माणि शिल्पानि विविधानि च ॥१००॥

वैश्यवृत्तिमनातिष्ठन् ब्राह्मणः स्वे पथि स्थितः । अवृत्तिकर्षितः सीदन्निमं धर्मं समाचरेत् ॥१॥

सर्वतः प्रतिगृह्णीयाद् ब्राह्मणस्त्वनयं गतः । पवित्रं दुष्यतीत्येतद् धर्मतो नोपपद्यते ॥२॥

नाध्यापनाद् याजनाद् वा गर्हिताद् वा प्रतिग्रहात् । दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते ॥३॥

जीवितात्ययमापन्नो योऽन्नमत्ति ततस्ततः । आकाशमिव पङ्केन न स पापेन लिप्यते ॥४॥

अजीगर्तः सुतं हन्तुमुपासर्पद् बुभुक्षितः । न चालिप्यत पापेन क्षुत्प्रतीकारमाचरन् ॥५॥

श्वमांसमिच्छनार्तोऽत्तुं धर्माधर्मविचक्षणः । प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥६॥

भरद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने । बह्वीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः ॥७॥

क्षुधार्तश्चात्तुमभ्यागाद् विश्वामित्रः श्वजाघनीम् । चण्डालहस्तादादाय धर्माधर्मविचक्षणः ॥८॥

प्रतिग्रहाद् याजनाद् वा तथैवाध्यापनादपि । प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥९॥

याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् । प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मनः ॥११०॥

जपहोमैरपेत्येनो याजनाध्यापनैः कृतम् । प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥११॥

शिलौञ्छमप्याददीत विप्रोऽजीवन् यतस्ततः । प्रतिग्रहात् शिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते ॥१२॥

सीदद्भिः कुप्यमिच्छद्भिर्धने वा पृथिवीपतिः । याच्यः स्यात् स्नातकैर्विप्रैरदित्संस्त्यागमर्हति ॥१३॥

अकृतं च कृतात् क्षेत्राद् गौरजाविकमेव च । हिरण्यं धान्यमन्नं च पूर्वं पूर्वमदोषवत् ॥१४॥

सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥१५॥

विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः । धृतिर्भैक्षं कुसीदं च दश जीवनहेतवः ॥१६॥

ब्राह्मणः क्षत्रियो वाऽपि वृद्धिं नैव प्रयोजयेत् । कामं तु खलु धर्मार्थं दद्यात् पापीयसेऽल्पिकाम् ॥१७॥

चतुर्थमाददानोऽपि क्षत्रियो भागमापदि । प्रजा रक्षन् परं शक्त्या किल्बिषात् प्रतिमुच्यते ॥१८॥

स्वधर्मो विजयस्तस्य नाहवे स्यात् पराङ्मुखः । शस्त्रेण वैश्यान् रक्षित्वा धर्म्यमाहारयेद् बलिम् ॥१९॥

धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणावरम् । कर्मोपकरणाः शूद्राः कारवः शिल्पिनस्तथा ॥१२०॥

शूद्रस्तु वृत्तिमाकाङ्क्षन् क्षत्रमाराधयेद् यदि । धनिनं वाऽप्युपाराध्य वैश्यं शूद्रो जिजीविषेत् ॥२१॥

स्वर्गार्थमुभयार्थं वा विप्रानाराधयेत् तु सः । जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता ॥२२॥

विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते । यदतोऽन्यद् हि कुरुते तद् भवत्यस्य निष्फलम् ॥२३॥

प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद् यथार्हतः । शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ॥२४॥

उच्छिष्टमन्नं दातव्यं जीर्णानि वसनानि च । पुलाकाश्चैव धान्यानां जीर्णाश्चैव परिच्छदाः ॥२५॥

न शूद्रे पातकं किं चिन्न च संस्कारमर्हति । नास्याधिकारो धर्मेऽस्ति न धर्मात् प्रतिषेधनम् ॥२६॥

धर्मैप्सवस्तु धर्मज्ञाः सतां वृत्तमनुष्ठिताः । मन्त्रवर्ज्यं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥२७॥

यथा यथा हि सद्वृत्तमातिष्ठत्यनसूयकः । तथा तथैमं चामुं च लोकं प्राप्नोत्यनिन्दितः ॥२८॥

शक्तेनापि हि शूद्रेण न कार्यो धनसञ्चयः । शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते ॥२९॥

एते चतुर्णां वर्णानामापद्धर्माः प्रकीर्तिताः । यान् सम्यगनुतिष्ठन्तो व्रजन्ति परमं गतिम् ॥१३०॥

एष धर्मविधिः कृत्स्नश्चातुर्वर्ण्यस्य कीर्तितः । अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ॥१३१॥

इति मानवे धर्मशास्त्रे भृगुप्रोक्ताया संहिताया दशमोध्यायः ॥१०॥

N/A

References : N/A
Last Updated : April 03, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP