चतुर्थमायुषो भागमुषित्वाऽद्यं गुरौ द्विजाः । द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥१॥
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः । या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥२॥
यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः । अक्लेशेन शरीरस्य कुर्वीत धनसञ्चयम् ॥३॥
ऋतामृताभ्यां जीवेत् तु मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्त्या कदा चन ॥४॥
ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥५॥
सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते । सेवा श्ववृत्तिराख्याता तस्मात् तां परिवर्जयेत् ॥६॥
कुसूलधान्यको वा स्यात् कुम्भीधान्यक एव वा । त्र्यहेहिको वाऽपि भवेदश्वस्तनिक एव वा ॥७॥
चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम् । ज्यायान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥८॥
षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते । द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्त्रेण जीवति ॥९॥
वर्तयंश्च शिलौञ्छाभ्यामग्निहोत्रपरायणः । इष्टीः पार्वायणान्तीयाः केवला निर्वपेत् सदा ॥१०॥
न लोकवृत्तं वर्तेत वृत्तिहेतोः कथं चन । अजिह्मामशथां शुद्धां जीवेद् ब्राह्मणजीविकाम् ॥११॥
संतोषं परमास्थाय सुखार्थी संयतो भवेत् । संतोषमूलं हि सुखं दुःखमूलं विपर्ययः ॥१२॥
अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः । स्वर्गायुष्ययशस्यानि व्रताणीमानि धारयेत् ॥१३॥
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः । तद् हि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् ॥१४॥
नैहेतार्थान् प्रसङ्गेन न विरुद्धेन कर्मणा । न विद्यमानेष्वर्थेषु नार्त्यामपि यतस्ततः ॥१५॥
इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः । अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ॥१६॥
सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः । यथा तथाऽध्यापयंस्तु सा ह्यस्य कृतकृत्यता ॥१७॥
वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च । वेषवाग्बुद्धिसारूप्यमाचरन् विचरेदिह ॥१८॥
बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च । नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान् ॥१९॥
यथा यथा हि पुरुषः शास्त्रं समधिगच्छति । तथा तथा विजानाति विज्ञानं चास्य रोचते ॥२०॥
ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा । नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥२१॥
एतानेके महायज्ञान् यज्ञशास्त्रविदो जनाः । अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति ॥२२॥
वाच्येके जुह्वति प्राणं प्राणे वाचं च सर्वदा । वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम् ॥२३॥
ज्ञानेनैवापरे विप्रा यजन्त्येतैर्मखैः सदा । ज्ञानमूलां क्रियामेषां पश्यन्तो ज्ञानचक्षुषा ॥२४॥
अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा । दर्शेन चार्धमासान्ते पौर्णमासेन चैव हि ॥२५॥
सस्यान्ते नवसस्येष्ट्या तथार्तुअन्ते द्विजोऽध्वरैः । पशुना त्वयनस्यादौ समान्ते सौमिकैर्मखैः ॥२६॥
नानिष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान् द्विजः । नवान्नमद्यात्मांसं वा दीर्घमायुर्जिजीविषुः ॥२७॥
नवेनानर्चिता ह्यस्य पशुहव्येन चाग्नयः । प्राणानेवात्तुमिच्छन्ति नवान्नामिषगर्धिनः ॥२८॥
आसनाशनशय्याभिरद्भिर्मूलफलेन वा । नास्य कश्चिद् वसेद् गेहे शक्तितोऽनर्चितोऽतिथिः ॥२९॥
पाषण्डिनो विकर्मस्थान् बैडालव्रतिकान् शठान् । हैतुकान् बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥३०॥
वेदविद्याव्रतस्नातांश्रोत्रियान् गृहमेधिनः । पूजयेद् हव्यकव्येन विपरीतांश्च वर्जयेत् ॥३१॥
शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना । संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः ॥३२॥
राजतो धनमन्विच्छेत् संसीदन् स्नातकः क्षुधा । याज्यान्तेवासिनोर्वाऽपि न त्वन्यत इति स्थितिः ॥३३॥
न सीदेत् स्नातको विप्रः क्षुधा शक्तः कथं चन । न जीर्णमलवद्वासा भवेच्च विभवे सति ॥३४॥
कॢप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः । स्वाध्याये चैव युक्तः स्यान्नित्यमात्महितेषु च ॥३५॥
वैणवीं धारयेद् यष्टिं सोदकं च कमण्डलुम् । यज्ञोपवीतं वेदं च शुभं रौक्मे च कुण्डले ॥३६॥
नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदा चन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥३७॥
न लङ्घयेद् वत्सतन्त्रीं न प्रधावेच्च वर्षति । न चोदके निरीक्षेत स्वरूपमिति धारणा ॥३८॥
मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥३९॥
नोपगच्छेत् प्रमत्तोऽपि स्त्रियमार्तवदर्शने । समानशयने चैव न शयीत तया सह ॥४०॥
रजसाऽभिप्लुतां नारीं नरस्य ह्युपगच्छतः । प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रहीयते ॥४१॥
तां विवर्जयतस्तस्य रजसा समभिप्लुताम् । प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रवर्धते ॥४२॥
नाश्नीयाद् भार्यया सार्धं नैनामीक्षेत चाश्नतीम् । क्षुवतीं जृम्भमाणां वा न चासीनां यथासुखम् ॥४३॥
नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम् । न पश्येत् प्रसवन्तीं च तेजस्कामो द्विजोत्तमः ॥४४॥
नान्नमद्यादेकवासा न नग्नः स्नानमाचरेत् । न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे ॥४५॥
न फालकृष्टे न जले न चित्यां न च पर्वते । न जीर्णदेवायतने न वल्मीके कदा चन ॥४६॥
न ससत्त्वेषु गर्तेषु न गच्छन्नपि न स्थितः । न नदीतीरमासाद्य न च पर्वतमस्तके ॥४७॥
वायुअग्निविप्रमादित्यमपः पश्यंस्तथैव गाः । न कदा चन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥४८॥
तिरस्कृत्योच्चरेत् काष्ठलोष्ठपत्रतृणादिना । नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः ॥४९॥
मूत्रोच्चारसमुत्सर्गं दिवा कुर्यादुदङ्मुखः । दक्षिणाऽभिमुखो रात्रौ संध्यायोश्च यथा दिवा ॥५०॥
छायायामन्धकारे वा रात्रावहनि वा द्विजः । यथासुखमुखः कुर्यात् प्राणबाधभयेषु च ॥५१॥
प्रत्यग्निं प्रतिसूर्यं च प्रतिसोमोदकद्विजम् । प्रतिगु प्रतिवातं च प्रज्ञा नश्यति मेहतः ॥५२॥
नाग्निं मुखेनोपधमेन्नग्नां नैक्षेत च स्त्रियम् । नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥५३॥
अधस्तान्नोपदध्याच्च न चैनमभिलङ्घयेत् । न चैनं पादतः कुर्यान्न प्राणाबाधमाचरेत् ॥५४॥
नाश्नीयात् संधिवेलायां न गच्छेन्नापि संविशेत् । [ न चैव प्रलिखेद् भूमिं नात्मनोऽपहरेत् स्रजम् ॥५५॥
नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् । अमेध्यलिप्तमन्यद् वा लोहितं वा विषाणि वा ॥५६॥
नैकः सुप्यात्शून्यगेहे न श्रेयांसं प्रबोधयेत् । नोदक्ययाऽभिभाषेत यज्ञं गच्छेन्न चावृतः ॥५७॥
अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ । स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ॥५८॥
न वारयेद् गां धयन्तीं न चाचक्षीत कस्य चित् । न दिवीन्द्रायुधं दृष्ट्वा कस्य चिद् दर्शयेद् बुधः ॥५९॥
नाधर्मिके वसेद् ग्रामे न व्याधिबहुले भृशम् । नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् ॥६०॥
न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते । न पाषण्डिगणाक्रान्ते नोपस्षृटेऽन्त्यजैर्नृभिः ॥६१॥
न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यमाचरेत् ॥ नातिप्रगे नातिसायं न सायं प्रातराशितः ॥६२॥
न कुर्वीत वृथाचेष्टां न वार्यञ्जलिना पिबेत् । नोत्सङ्गे भक्षयेद् भक्ष्यान्न जातु स्यात् कुतूहली ॥६३॥
न नृत्येदथ वा गायेन्न वादित्राणि वादयेत् । नास्फोटयेन्न च क्ष्वेडेन्न च रक्तो विरावयेत् ॥६४॥
न पादौ धावयेत् कांस्ये कदा चिदपि भाजने । न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ॥६५॥
उपानहौ च वासश्च धृतमन्यैर्न धारयेत् । उपवीतमलङ्कारं स्रजं करकमेव च ॥६६॥
नाविनीतैर्भजेद् धुर्यैर्न च क्षुध्व्याधिपीडितैः । न भिन्नशृङ्गाक्षिखुरैर्न वालधिविरूपितैः ॥६७॥
विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः । वर्णरूपोपसंपन्नैः प्रतोदेनातुदन् भृशम् ॥६८॥
बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथाऽसनम् । न छिन्द्यान्नखरोमाणि दन्तैर्नोत्पाटयेन्नखान् ॥६९॥
न मृत्लोष्ठं च मृद्नीयान्न छिन्द्यात् करजैस्तृणम् । न कर्म निष्फलं कुर्यान्नायत्यामसुखोदयम् ॥७०॥
लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः । स विनाशं व्रजत्याशु सूचकाऽशुचिरेव च ॥७१॥
न विगर्ह्य कथां कुर्याद् बहिर्माल्यं न धारयेत् । गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ॥७२॥
अद्वारेण च नातीयाद् ग्रामं वा वेश्म वाऽवृतम् । रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥७३॥
नाक्षैर्दीव्येत् कदा चित् तु स्वयं नोपानहौ हरेत् । शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ॥७४॥
सर्वं च तिलसंबद्धं नाद्यादस्तमिते रवौ । न च नग्नः शयीतैह न चोच्छिष्टः क्व चिद् व्रजेत् ॥७५॥
आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् । आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात् ॥७६॥
अचक्षुर्विषयं दुर्गं न प्रपद्येत कर्हि चित् । न विण्मूत्रमुदीक्षेत न बाहुभ्यां नदीं तरेत् ॥७७॥
अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः । न कार्पासास्थि न तुषान् दीर्घमायुर्जिजीविषुः ॥७८॥
न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः । न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥७९॥
न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् । न चास्योपदिशेद् धर्मं न चास्य व्रतमादिशेत् ॥८०॥
यो ह्यस्य धर्ममाचष्टे यश्चैवादिशति व्रतम् । सोऽसंवृतं नाम तमः सह तेनैव मज्जति ॥८१॥
न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः । न स्पृशेच्चैतदुच्छिष्टो न च स्नायाद् विना ततः ॥८२॥
केशग्रहान् प्रहारांश्च शिरस्येतान् विवर्जयेत् । शिरःस्नातश्च तैलेन नाङ्गं किं चिदपि स्पृशेत् ॥८३॥
न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः । सूनाचक्रध्वजवतां वेशेनैव च जीवताम् ॥८४॥
दशसूनासमं चक्रं दशचक्रसमो ध्वजः । दशध्वजसमो वेशो दशवेशसमो नृपः ॥८५॥
दश सूणासहस्राणि यो वाहयति सौनिकः । तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः ॥८६॥
यो राज्ञः प्रतिगृह्णाति लुब्धस्यौच्छास्त्रवर्तिनः । स पर्यायेण यातीमान्नरकानेकविंशतिम् ॥८७॥
तामिस्रमन्धतामिस्रं महारौरवरौरवौ । नरकं कालसूत्रं च महानरकमेव च ॥८८॥
सञ्जीवनं महावीचिं तपनं संप्रतापनम् । संहातं च सकाकोलं कुड्मलं प्रतिमूर्तिकम् ॥८९॥
लोहशङ्कुं ऋजीषं च पन्थानं शाल्मलीं नदीम् । असिपत्रवनं चैव लोहदारकमेव च ॥९०॥
एतद् विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः । न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकाङ्क्षिणः ॥९१॥
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् । कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेव च ॥९२॥
उत्थायावश्यकं कृत्वा कृतशौचः समाहितः । पूर्वां संध्यां जपंस्तिष्ठेत् स्वकाले चापरां चिरम् ॥९३॥
ऋषयो दीर्घसंध्यत्वाद् दीर्घमायुरवाप्नुयुः । प्रज्ञां यशश्च कीर्तिं च ब्रह्मवर्चसमेव च ॥९४॥
श्रावण्यां प्रौष्ठपद्यां वाऽप्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान् ॥९५॥
पुष्ये तु छन्दसां कुर्याद् बहिरुत्सर्जनं द्विजः । माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ॥९६॥
यथाशास्त्रं तु कृत्वैवमुत्सर्गं छन्दसां बहिः । विरमेत् पक्षिणीं रात्रिं तदेवैकमहर्निशम् ॥९७॥
अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥९८॥
नाविस्पष्टमधीयीत न शूद्रजनसन्निधौ । न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥९९॥
यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् । ब्रह्म छन्दस्कृतं चैव द्विजो युक्तो ह्यनापदि ॥१००॥
इमान्नित्यमनध्यायानधीयानो विवर्जयेत् । अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम् ॥१०१॥
कर्णश्रवेऽनिले रात्रौ दिवा पांसुसमूहने । एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते ॥१०२॥
विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे । आकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥१०३॥
एतांस्त्वभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु । तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ॥१०४॥
निर्घाते भूमिचलने ज्योतिषां चोपसर्जने । एतानाकालिकान् विद्यादनध्यायान् ऋतावपि ॥१०५॥
प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिःस्वने । सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा ॥१०६॥
नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च । धर्मनैपुण्यकामानां पूतिगन्धे च सर्वदा ॥१०७॥
अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ । अनध्यायो रुद्यमाने समवाये जनस्य च ॥१०८॥
उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने । उच्छिष्टः श्राद्धभुक् चैव मनसाऽपि न चिन्तयेत् ॥१०९॥
प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् । त्र्यहं न कीर्तयेद् ब्रह्म राज्ञो राहोश्च सूतके ॥११०॥
यावदेकानुदिष्टस्य गन्धो लेपश्च तिष्ठति । विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्तयेत् ॥१११॥
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् । नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ॥११२॥
नीहारे बाणशब्दे च संध्ययोरेव चोभयोः । अमावास्याचतुर्दश्योः पौर्णमास्य्ऽष्टकासु च ॥११३॥
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी । ब्रह्माष्टकपौर्णमास्यौ तस्मात् ताः परिवर्जयेत् ॥११४॥
पांसुवर्षे दिशां दाहे गोमायुविरुते तथा । श्वखरोष्ट्रे च रुवति पङ्क्तो च न पठेद् द्विजः ॥११५॥
नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजेऽपि वा । वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ॥११६॥
प्राणि वा यदि वाऽप्राणि यत् किं चित्श्राद्धिकं भवेत् । तदालभ्याप्यनध्यायः पाण्यास्यो हि द्विजः स्मृतः ॥११७॥
चोरैरुपद्रुते ग्रामे संभ्रमे चाग्निकारिते । आकालिकमनध्यायं विद्यात् सर्वाद्भुतेषु च ॥११८॥
उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् । अष्टकासु त्वहोरात्रं ऋत्वन्तासु च रात्रिषु ॥११९॥
नाधीयीताश्वमारूढो न वृक्षं न च हस्तिनम् । न नावं न खरं नोष्ट्रं नैरिणस्थो न यानगः ॥१२०॥
न विवादे न कलहे न सेनायां न सङ्गरे । न भुक्तमात्रे नाजीर्णे न वमित्वा न शुक्तके ॥१२१॥
अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम् । रुधिरे च स्रुते गात्रात्शस्त्रेण च परिक्षते ॥१२२॥
सामध्वनावृग्यजुषी नाधीयीत कदा चन । वेदस्याधीत्य वाऽप्यन्तमारण्यकमधीत्य च ॥१२३॥
ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः । सामवेदः स्मृतः पित्र्यस्तस्मात् तस्याशुचिर्ध्वनिः ॥१२४॥
एतद् विद्वन्तो विद्वांसस्त्रयीनिष्कर्षमन्वहम् । क्रमतः पूर्वमभ्यस्य पश्चाद् वेदमधीयते ॥१२५॥
पशुमण्डूकमार्जारश्वसर्पनकुलाखुभिः । अन्तरागमने विद्यादनध्यायमहर्निशम् ॥१२६॥
द्वावेव वर्जयेन्नित्यमनध्यायौ प्रयत्नतः । स्वाध्यायभूमिं चाशुद्धमात्मानं चाशुचिं द्विजः ॥१२७॥
मावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यमप्यर्तौ स्नातको द्विजः ॥१२८॥
न स्नानमाचरेद् भुक्त्वा नातुरो न महानिशि । न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥१२९॥
देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा । नाक्रामेत् कामतश्छायां बभ्रुणो दीक्षितस्य च ॥१३०॥
मध्यंदिनेऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् । संध्ययोरुभयोश्चैव न सेवेत चतुष्पथम् ॥१३१॥
उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च । श्लेश्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत् तु कामतः ॥१३२॥
वैरिणं नोपसेवेत सहायं चैव वैरिणः । अधार्मिकं तस्करं च परस्यैव च योषितम् ॥१३३॥
न हीदृशमनायुष्यं लोके किं चन विद्यते । यादृशं पुरुषस्येह परदारोपसेवनम् ॥१३४॥
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् । नावमन्येत वै भूष्णुः कृशानपि कदा चन ॥१३५॥
एतत् त्रयं हि पुरुषं निर्दहेदवमानितम् । तस्मादेतत् त्रयं नित्यं नावमन्येत बुद्धिमान् ॥१३६॥
नात्मानमवमन्येत पुर्वाभिरसमृद्धिभिः । आ मृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम् ॥१३७॥
सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥१३८॥
भद्रं भद्रमिति ब्रूयाद् भद्रमित्येव वा वदेत् । शुष्कवैरं विवादं च न कुर्यात् केन चित् सह ॥१३९॥
नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते । नाज्ञातेन समं गच्छेन्नैको न वृषलैः सह ॥१४०॥
हीनाङ्गानतिरिक्ताङ्गान् विद्याहीनान् वयोऽधिकान् । रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् ॥१४१॥
न स्पृशेत् पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलाण् । न चापि पश्येदशुचिः सुस्थो ज्योतिर्गणान् दिवा ॥१४२॥
स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् । गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥१४३॥
अनातुरः स्वानि खानि न स्पृशेदनिमित्ततः । रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् ॥१४४॥
मङ्गलाचारयुक्तः स्यात् प्रयतात्मा जितेन्द्रियः । जपेच्च जुहुयाच्चैव नित्यमग्निमतन्द्रितः ॥१४५॥
मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् । जपतां जुह्वतां चैव विनिपातो न विद्यते ॥१४६॥
वेदमेवाभ्यसेन्नित्यं यथाकालमतन्द्रितः । तं ह्यस्याहुः परं धर्ममुपधर्मोऽन्य उच्यते ॥१४७॥
वेदाभ्यासेन सततं शौचेन तपसैव च । अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥१४८॥
पौर्विकीं संस्मरन् जातिं ब्रह्मैवाभ्यस्यते पुनः । ब्रह्माभ्यासेन चाजस्रमनन्तं सुखमश्नुते ॥१४९॥
सावित्रान् शान्तिहोमांश्च कुर्यात् पर्वसु नित्यशः । पितॄंश्चैवाष्टकास्वर्चेन्नित्यमन्वष्टकासु च ॥१५०॥
दूरादावसथान् मूत्रं दूरात् पादावसेचनम् । उच्छिष्टान्ननिषेकं च दूरादेव समाचरेत् ॥१५१॥
मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् । पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ॥१५२॥
दैवतान्यभिगच्छेत् तु धार्मिकांश्च द्विजोत्तमान् । ईश्वरं चैव रक्षार्थं गुरूनेव च पर्वसु ॥१५३॥
अभिवादयेद् वृद्धांश्च दद्याच्चैवासनं स्वकम् । कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात् ॥१५४॥
श्रुतिस्मृत्योदितं सम्यग़् निबद्धं स्वेषु कर्मसु । धर्ममूलं निषेवेत सदाचारमतन्द्रितः ॥१५५॥
आचारात्लभते ह्यायुराचारादीप्सिताः प्रजाः । आचाराद् धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥१५६॥
दुराचारो हि पुरुषो लोके भवति निन्दितः । दुःखभागी च सततं व्याधितोऽल्पायुरेव च ॥१५७॥
सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः । श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥१५८॥
यद् यत् परवशं कर्म तत् तद् यत्नेन वर्जयेत् । यद् यदात्मवशं तु स्यात् तत् तत् सेवेत यत्नतः ॥१५९॥
सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥१६०॥
यत् कर्म कुर्वतोऽस्य स्यात् परितोषोऽन्तरात्मनः । तत् प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥१६१॥
आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् । न हिंस्याद् ब्राह्मणान् गाश्च सर्वांश्चैव तपस्विनः ॥१६२॥
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् । द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ह्ण्यं च वर्जयेत् ॥१६३॥
परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनं निपातयेत् । अन्यत्र पुत्रात्शिष्याद् वा शिष्ट्यर्थं ताडयेत् तु तौ ॥१६४॥
ब्राह्मणायावगुर्यैव द्विजातिर्वधकाम्यया । शतं वर्षाणि तामिस्रे नरके परिवर्तते ॥१६५॥
ताडयित्वा तृणेनापि संरम्भात्मतिपूर्वकम् । एकविंशतीमाजातीः पापयोनिषु जायते ॥१६६॥
अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः । दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः ॥१६७॥
शोणितं यावतः पांसून् सङ्गृह्णाति महीतलात् । तावतोऽब्दानमुत्रान्यैः शोणितोत्पादकोऽद्यते ॥१६८॥
न कदा चिद् द्विजे तस्माद् विद्वानवगुरेदपि । न ताडयेत् तृणेनापि न गात्रात् स्रावयेदसृक् ॥१६९॥
अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम् । हिंसारतश्च यो नित्यं नैहासौ सुखमेधते ॥१७०॥
न सीदन्नपि धर्मेण मनोऽधर्मे निवेशयेत् । अधार्मिकानां पापानामाशु पश्यन् विपर्ययम् ॥१७१॥
नाधर्मश्चरितो लोके सद्यः फलति गौरिव । शनैरावर्त्यमानस्तु कर्तुर्मूलानि कृन्तति ॥१७२॥
यदि नात्मनि पुत्रेषु न चेत् पुत्रेषु नप्तृषु । न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः ॥१७३॥
अधर्मेणैधते तावत् ततो भद्राणि पश्यति । ततः सपत्नान् जयति समूलस्तु विनश्यति ॥१७४॥
सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत् सदा । शिष्यांश्च शिष्याद् धर्मेण वाच्बाहूदरसंयतः ॥१७५॥
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ । धर्मं चाप्यसुखोदर्कं लोकसङ्क्रुष्टमेव च ॥१७६॥
न पाणिपादचपलो न नेत्रचपलोऽनृजुः । न स्याद् वाक्चपलश्चैव न परद्रोहकर्मधीः ॥१७७॥
येनास्य पितरो याता येन याताः पितामहाः । तेन यायात् सतां मार्गं तेन गच्छन्न रिष्यति ॥१७८॥
ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः । बालवृद्धातुरैर्वैद्यैर्ज्ञातिसंबन्धिबान्धवैः ॥१७९॥
मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया । दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥१८०॥
एतैर्विवादान् संत्यज्य सर्वपापैः प्रमुच्यते । एतैर्जितैश्च जयति सर्वान्लोकानिमान् गृही ॥१८१॥
आचार्यो ब्रह्मलोकैशः प्राजापत्ये पिता प्रभुः । अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः ॥१८२॥
जामयोऽप्सरसां लोके वैश्वदेवस्य बान्धवाः । संबन्धिनो ह्यपां लोके पृथिव्यां मातृमातुलौ ॥१८३॥
आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः । भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ॥१८४॥
छाया स्वो दासवर्गश्च दुहिता कृपणं परम् । तस्मादेतैरधिक्षिप्तः सहेतासञ्ज्वरः सदा ॥१८५॥
प्रतिग्रहसमर्थोऽपि प्रसङ्गं तत्र वर्जयेत् । प्रतिग्रहेण ह्यस्याशु ब्राह्मं तेजः प्रशाम्यति ॥१८६॥
न द्रव्याणामविज्ञाय विधिं धर्म्यं प्रतिग्रहे । प्राज्ञः प्रतिग्रहं कुर्यादवसीदन्नपि क्षुधा ॥१८७॥
हिरण्यं भूमिमश्वं गामन्नं वासस्तिलान् घृतम् । प्रतिगृह्णन्नविद्वांस्तु भस्मीभवति दारुवत् ॥१८८॥
हिरण्यमायुरन्नं च भूर्गोश्चाप्योषतस्तनुम् । अश्वश्चक्षुस्त्वचं वासो घृतं तेजस्तिलाः प्रजाः ॥१८९॥
अतपास्त्वनधीयानः प्रतिग्रहरुचिर्द्विजः । अम्भस्यश्मप्लवेनैव सह तेनैव मज्जति ॥१९०॥
तस्मादविद्वान् बिभियाद् यस्मात् तस्मात् प्रतिग्रहात् । स्वल्पकेनाप्यविद्वान् हि पङ्के गौरिव सीदति ॥१९१॥
न वार्यपि प्रयच्छेत् तु बैडालव्रतिके द्विजे । न बकव्रतिके पापे नावेदविदि धर्मवित् ॥१९२॥
त्रिष्वप्येतेषु दत्तं हि विधिनाऽप्यर्जितं धनम् । दातुर्भवत्यनर्थाय परत्रादातुरेव च ॥१९३॥
यथा प्लवेनोपलेन निमज्जत्युदके तरन् । तथा निमज्जतोऽधस्तादज्ञौ दातृप्रतीच्छकौ ॥१९४॥
धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः । बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥१९५॥
अधोदृष्टिर्नैष्कृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः ॥१९६॥
ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः । ते पतन्त्यन्धतामिस्रे तेन पापेन कर्मणा ॥१९७॥
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ॥१९८॥
प्रेत्येह चेदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः । छद्मना चरितं यच्च व्रतं रक्षांसि गच्छति ॥१९९॥
अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति । स लिङ्गिनां हरत्येनस्तिर्यग्योनौ च जायते ॥२००॥
परकीयनिपानेषु न स्नायाद् हि कदा चन । निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥२०१॥
यानशय्याऽऽसनान्यस्य कूपोद्यानगृहाणि च । अदत्तान्युपयुञ्जान एनसः स्यात् तुरीयभाक् ॥२०२॥
नदीषु देवखातेषु तडागेषु सरःसु च । स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥२०३॥
यमान् सेवेत सततं न नित्यं नियमान् बुधः । यमान् पतत्यकुर्वाणो नियमान् केवलान् भजन् ॥२०४॥
नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा । स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्व चित् ॥२०५॥
अश्लीकमेतत् साधूनां यत्र जुह्वत्यमी हविः । प्रतीपमेतद् देवानां तस्मात् तत् परिवर्जयेत् ॥२०६॥
मत्तक्रुद्धातुराणां च न भुञ्जीत कदा चन । केशकीटावपन्नं च पदा स्पृष्टं च कामतः ॥२०७॥
भ्रूणघ्नावेक्षितं चैव संस्पृष्टं चाप्युदक्यया । पतत्रिणावलीढं च शुना संस्पृष्टमेव च ॥२०८॥
गवा चान्नमुपघ्रातं घुष्टान्नं च विशेषतः । गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ॥२०९॥
स्तेनगायनयोश्चान्नं तक्ष्ह्णो वार्धुषिकस्य च । दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥२१०॥
अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च । शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टमेव च ॥२११॥
चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः । उग्रान्नं सूतिकान्नं च पर्याचान्तमनिर्दशम् ॥२१२॥
अनर्चितं वृथामांसमवीरायाश्च योषितः । द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम् ॥२१३॥
पिशुनानृतिनोश्चान्नं क्रतुविक्रयिणस्तथा । शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च ॥२१४॥
कर्मारस्य निषादस्य रङ्गावतारकस्य च । सुवर्णकर्तुर्वेणस्य शस्त्रविक्रयिणस्तथा ॥२१५॥
श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च । रञ्जकस्य नृशंसस्य यस्य चोपपतिर्गृहे ॥२१६॥
मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः । अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च ॥२१७॥
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् । आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः ॥२१८॥
कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च । गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥२१९॥
पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् । विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥२२०॥
य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्तिताः । तेषां त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः ॥२२१॥
भुक्त्वाऽतोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् । मत्या भुक्त्वाऽचरेत् कृच्छ्रं रेतोविण्मूत्रमेव च ॥२२२॥
नाद्यात्शूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विजः । आददीताममेवास्मादवृत्तावेकरात्रिकम् ॥२२३॥
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः । मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ॥२२४॥
तान् प्रजापतिराहैत्य मा कृध्वं विषमं समम् । श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ॥२२५॥
श्रद्धयेष्टं च पूर्तं च नित्यं कुर्यादतन्द्रितः । श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः ॥२२६॥
दानधर्मं निषेवेत नित्यमैष्टिकपौर्तिकम् । परितुष्टेन भावेन पात्रमासाद्य शक्तितः ॥२२७॥
यत् किं चिदपि दातव्यं याचितेनानसूयया । उत्पत्स्यते हि तत् पात्रं यत् तारयति सर्वतः ॥२२८॥
वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः । तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥२२९॥
भूमिदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः । गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥२३०॥
वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः । अनडुहः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ॥२३१॥
यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः । धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम् ॥२३२॥
सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते । वार्यन्नगोमहीवासस्तिलकाञ्चनसर्पिषाम् ॥२३३॥
येन येन तु भावेन यद् यद् दानं प्रयच्छति । तत् तत् तेनैव भावेन प्राप्नोति प्रतिपूजितः ॥२३४॥
योऽर्चितं प्रतिगृह्णाति ददात्यर्चितमेव वा । तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥२३५॥
न विस्मयेत तपसा वदेदिष्ट्वा च नानृतम् । नार्तोऽप्यपवदेद् विप्रान्न दत्त्वा परिकीर्तयेत् ॥२३६॥
यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् । आयुर्विप्रापवादेन दानं च परिकीर्तनात् ॥२३७॥
धर्मं शनैः सञ्चिनुयाद् वल्मीकमिव पुत्तिकाः । परलोकसहायार्थं सर्वभूतान्यपीडयन् ॥२३८॥
नामुत्र हि सहायार्थं पिता माता च तिष्ठतः । न पुत्रदारं न ज्ञातिर्धर्मस्तिष्ठति केवलः ॥२३९॥
एकः प्रजायते जन्तुरेक एव प्रलीयते । एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥२४०॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ । विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ॥२४१॥
तस्माद् धर्मं सहायार्थं नित्यं सञ्चिनुयात्शनैः । धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥२४२॥
धर्मप्रधानं पुरुषं तपसा हतकिल्बिषम् । परलोकं नयत्याशु भास्वन्तं खशरीरिणम् ॥२४३॥
उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत् सह । निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत् ॥२४४॥
उत्तमानुत्तमानेव गच्छन् हीनांस्तु वर्जयन् । ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ॥२४५॥
दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन् । अहिंस्रो दमदानाभ्यां जयेत् स्वर्गं तथाव्रतः ॥२४६॥
एधौदकं मूलफलमन्नमभ्युद्यतं च यत् । सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ॥२४७॥
आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम् । मेने प्रजापतिर्ग्राह्यामपि दुष्कृतकर्मणः ॥२४८॥
नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च । न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥२४९॥
शय्यां गृहान् कुशान् गन्धानपः पुष्पं मणीन् दधि । धाना मत्स्यान् पयो मांसं शाकं चैव न निर्णुदेत् ॥२५०॥
गुरून् भृत्यांश्चोज्जिहीर्षन्नर्चिष्यन् देवतातिथीन् । सर्वतः प्रतिगृह्णीयान्न तु तृप्येत् स्वयं ततः ॥२५१॥
गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन् । आत्मनो वृत्तिमन्विच्छन् गृह्णीयात् साधुतः सदा ॥२५२॥
आर्धिकः कुलमित्रं च गोपालो दासनापितौ । एते शूद्रेषु भोज्यान्ना याश्चात्मानं निवेदयेत् ॥२५३॥
यादृशोऽस्य भवेदात्मा यादृशं च चिकीर्षितम् । यथा चौपचरेदेनं तथाऽत्मानं निवेदयेत् ॥२५४॥
योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते । स पापकृत्तमो लोके स्तेन आत्मापहारकः ॥२५५॥
वाच्यर्था नियताः सर्वे वाङ्मूला वाग्विनिःसृताः । तांस्तु यः स्तेनयेद् वाचं स सर्वस्तेयकृन्नरः ॥२५६॥
महर्षिपितृदेवानां गत्वाऽनृण्यं यथाविधि । पुत्रे सर्वं समासज्य वसेन् माध्यस्थ्यमाश्रितः ॥२५७॥
एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः । एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति ॥२५८॥
एषौदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती । स्नातकव्रतकल्पश्च सत्त्ववृद्धिकरः शुभः ॥२५९॥
अनेन विप्रो वृत्तेन वर्तयन् वेदशास्त्रवित् । व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते ॥२६०॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां सहितायां चतुर्थोध्यायः ॥