मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे| श्रीगुरुराजस्तवः । श्र... दत्त स्तोत्रे श्रीजाबालदर्शनोपनिषत् बालाकप्रभा इंद्रनील जठीलं... ॥अथ ध्यानम॥ यावद्द्वैतभ्र... ॥ हरिः ॐ ॥ ॐ नमो भगवते दत... दत्तात्रेयं परमसुखमयं वेद... ॐ नमो भगवते दत्तात्रेयाय,... रसज्ञावशातारकं स्वादुलभ्य... दिगंबरं भस्मसुगन्धलेपनं च... अथ प्रथमः पटलः । ईश्वरदत्... श्रीपाद श्रीवल्लभ त्वं सद... भूतप्रेतपिशाचाद्या यस्य स... दत्तात्रेयं परमसुखमयं वेद... श्रीपाद श्रीवल्लभ त्वं सद... श्रीपाद श्रीवल्लभ त्वं सद... ॥ॐ ॥ दत्तात्रेयं प्रियदैव... ॥ॐ ॥ श्री गुरूदेवाय नमः ।... नृसिंहरूपिणे चिदात्मने सु... कार्तवीर्य उवाच - यस्मिन... श्रीगणेशाय नमः ॥ पार्वत्... श्रीगणेशाय नमः ॥ अस्य श्र... श्रीगणेशाय नमः ॥ श्रीपार... श्रीदत्तात्रेयाय नमः ॥ अथ... श्रीगणेशाय नमः ॥ मूलाधार... श्रीगणेशाय नमः ॥ आचम्य प्... ॥ अथ दत्तव्याहृति प्रारभ्... श्रीगणेशाय नमः ॥ श्रीशुक ... श्रीदत्तात्रेयाय नमः ॥ आ... श्रीगणेशाय नमः ॥ हरिः ॐ ... श्रीगणेशाय नमः ॥ सहनाववत... जयलाभादिकरं श्रीदत्तस्तोत्रम् दत्तनामस्मरणम् इंदुकोटि तेजकीर्ण सिंधुभक... यस्य नाम श्रुते सद्यो मृत... दत्तलहरि ओव्या श्रीदत्तापराधक्षमापनस्तोत्रम् श्रीदत्तापराधक्षमापनस्तोत्रम् दत्तप्रबोधम् (दत्तात्रेय सुप्रभातम्) श्री दत्तात्रेयस्तोत्रम् श्रीगुरुराजस्तवः । श्र... ह्या दत्तरक्षास्तोत्राचा ... अथ श्रीदत्तात्रेयस्तोत्राणि - श्रीगुरुराजस्तवः । श्र... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : dattagodgoddessstotraदत्तदेवतादेवीस्तोत्र अथ श्रीदत्तात्रेयस्तोत्राणि । Translation - भाषांतर श्रीगुरुराजस्तवः । श्रीसद्गुरवे नमः ॥ सद्गुरुं भज सद्गुरुं भज सद्गुरुं भज वुद्धिमन् येन संसृतिपारमेष्यसि मुक्त इत्यपि गास्यसे ॥ आसुरीं त्यज संपदं विपदां पदं मुनिगर्हितां तर्हि तां भज संपदं मुनिसंस्तुतां भगवत्प्रियाम् ॥१॥ गर्वपर्वतमस्तके तव संस्थितिर्नहि शोभते पातमेण्यसि घातकर्मणि युज्यसे नतु पूज्यसे ॥ सात्त्विकं फलमश्नुषे यदि सत्यवृत्तपरायणो दनुजसूनुरिवामरद्रुममर्हणं भगवत्पदम् ॥२॥ दंभमार्गपरायणं यदि सत्फलाय भवत्यहो इल्वलादिकृताऽपि विप्रवरार्चना विषमा कथम् ॥ कष्टमेष्यसि दुष्टबुद्धिपरायणो यदि चांतरे मृष्ट मृष्ट परं पदं तव दूरतः स्तवकर्मणाम् ॥३॥ भुक्तताऽपि मुमुक्षुता कपटौघमूलनिकृंतनी नीतिरर्भकता तथा यदि नास्ति जन्म निरर्थकम् ॥ केषु ते गणना भवेद्वद विद्यवेद्यसमांतरे भासुरं जनजन्म कर्म निरर्थकं कुरुषे कुतः ॥४॥ साधुचित्तविखंडनाद्भगवत्प्रियावपि दानवौ तत्र साधुविघर्षणादपि राक्षसौ मुनिभक्तकौ ॥ तेन हीनबलावथो नृपनामदूषकराक्षसौ कृष्णहिंसनतत्पराविति कर्मणो गहना गतिः ॥५॥ ब्रह्मनिष्ठविमाननान्निजसूनुगीतहरेः पदे द्वेष आविरभूद्भवग्रहमांत्रिके निजसेविते ॥ दानवस्य च दानधर्मपरायणस्य च रक्षसः शैवधर्मरतस्य मूलविनाशनोऽप्यघनाशने ॥६॥ जीवतामपहापयञ्छिवतां दिशत्यतिकौशलात् पूर्ववत्स्थितविश्वमेष तिरःकरोत्यति लीलया ॥ तं गुरुं भज नम्रमोचनकारकं भवतारकं तत्र शात्रवमत्र यच्छति वृक्षतां पितृकानने ॥७॥ श्रीगुरौः पदपंकजं भजतां सतां सततं हरिः संनिधाविति सर्वशासनसारमेतदुदीरितम् ॥ तन्महत्त्वमहांबुधेरपरं तटं न हि केचन प्राप्नुवन्ति परावरज्ञाः पंडिताः सनकादयः ॥८॥ शब्दमूलमहो गुरुः शिवजीवविश्वभिदास्पदं विश्वजीवशिवादिनामत एष एव हि बुध्यते ॥ वाच्यकोटिनिविष्टमेव हि तत्त्रयं कृतपत्त्रयं लक्ष्यभूतवपुर्गुरुस्तमु जानते न हि कश्चन ॥९॥ वृत्त्यनाश्रितचित्स्वरूपकं एष एव समः प्रभो वृत्तिरूढचिदंबरं खलु जीव ईश इदं जगत् ॥ जन्ममृत्युनियामकः परमेश्वरः स तु भोगभुग्जन्ममृत्युनिवारकः परमेश्वरादतिरिच्यते ॥१०॥ ब्रह्मरन्ध्रपदं गुरोर्ह्रदयं शिवस्य निजास्पदं स्थानमेव हि तत्स्वरूपविनिर्णयाय भवत्फलम् ॥ ह्रद्यतो विषयान्भजत्यथ नैव किंचन रंध्रगो यच्छति क्रमतः फलं वद मुक्तिदोऽस्त्यनयोस्तु कः ॥११॥ तत्स्वरूपविमर्शनं गुरुपादुकामनुसंशितं तन्मनुस्तु तदीयपूर्णकृपाभरेण हि लभ्यते ॥ लाभतो गुरुणा सहैक्यविमर्शनं परमं पदं तत्र मुक्तिवरांगना वृणुते स्वयं निजसंपदा ॥१२॥ तत्र यो विमुखो नरो निजघातकीति निगद्यते तस्य संमुखतां भजन् परमद्वयं भवति क्षणात् ॥ ऋक्श्रुतिः शतधारमित्यपि नौति तां गुरुपादुका कृष्णभिक्षुरिमं स्तवं पदपंकजेऽर्पयते गुरोः ॥१३॥ द्रोणपर्वतवासिने नतशासिने मतिकाशिने हारिणे विपदां मुहुर्मम दायिनेऽखिलसंपदाम् ॥ सच्चिदादिसुकाभिधाय यतीश्वराय सहस्त्रशः संतु मे नतयो दयोदकसागराय दिने दिने ॥१४॥ स्तोत्रमेतदभीष्टसिद्धिदमासुरव्रतहारकं तारकं निजदेशिकेंद्रपदाब्जयोर्दृढसन्मतेः ॥ यः पठेत्प्रयतः शुचिः सुविचार्य भूरि दिने दिने मुच्यते भवपाशपाशित एवमेव मतिर्मम ॥१५॥ इति श्रीमत्कृष्णानन्दसरस्वतीकृतगुरुराजस्तवः सम्पूर्णः N/A References : N/A Last Updated : November 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP