मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|
श्रीगणेशाय नमः ॥ सहनाववत...

अथ श्रीदत्तोपनिषत् ( उत्तरतापिनी ) - श्रीगणेशाय नमः ॥ सहनाववत...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


श्रीगणेशाय नमः ॥
सहनाववत्वितिशांतिः ॥ तस्य क्षेत्रे ब्रह्मा नारायणं प्रणिपत्याह ॥ अधीहि भगवान् योगविद्यारहस्यम ॥ यस्मिन विदिते योगी भोगी भवति ॥ इत्युक्त्वा सत्यानंदचिदात्मकेवलसात्विकं मामकं धामोपास्येति ब्रह्माणमाह ॥ सदा दत्तोमेतत्पदं ये वदंति न ते संसारिणो भवंति ॥ ॐ मित्येकाक्षरम ॥ दत्तात्रेयाय चतुरक्षरम ॥ श्रीदेवदत्तेति पंचमाक्षरम । य इमानि विद्यानामानि दशवारमुच्चरेत् ॥ विश्वरूपधरो विष्णुर्नारायणो दत्तात्रेयस्तमिन् भगवान् प्रसीदति ॥ दशमेषु दिवसेषु स्वन्परूपं प्रदर्शयति ॥ अथ एकाक्षरं व्याख्यास्ये ॥ ‘ दत्त ’ शब्दमुच्चार्यरेफं सबिंधुकम् वदेत् ॥ र्‍हामिति र्‍हस्वो भवति ॥ इमं मंत्रं जप्त्वा वेदव्यासो भगवान् अष्टादशपुराआण्नि चकार ॥ दक्षिणामुर्तिबीजमुक्वा रामबीजं वदेत् ॥द्रामित्येकाक्षरमंत्रो भवति ॥ तदेतत्तारकं भवेति ॥ तदेवोपासितव्यमिति ज्ञेयम ॥ मंत्रमिमं जप्त्वा नमातृगर्भं प्रविशति ॥ ब्रह्मा - विष्णु - शिवात्म कमिदमेकाक्षरम् ॥ सर्वदा जप्यमिदं नदेश कालनियमोत्र विद्यते ॥ एतन्मंत्रजपमेव मुख्यः क्रियायोगः ॥ अनेन सच्चिदानंदब्रह्मैव भवति ॥ न स पुनरावर्तते न स पुनरावर्तते । वटबीजवृक्षस्यैव दत्तबीजस्थं सर्वजगत्त्रयमेतत् ॥
ॐ मिति प्रथमम् ॥ श्रीमिति द्वितीयम् ॥ र्‍हामिति तृतीयम् ॥ क्लीमिति चतुर्थम् ॥ ग्लौमिति पंचमम् ॥ ब्रह्मा - विष्णु - शिवात्मकं दत्तैकाक्षरं षष्ठम् । षड्क्षरमयं भवति, सर्वसंपत्समृद्धिकारी भवति, योगानंदःप्राप्तो भवति, एतन्मंत्रजपेन राजा भवति, त्रयाणां शबररूपी सदाशिवो ऋषिः, गायत्रीच्छंदः, दत्तात्रेयो देवता, द्रामिति प्रथमं व्याहरेत्, दत्तात्रेयायेति पश्चात्, नम इत्यष्टाक्षरमंत्रो भवति ॥ गायत्रीच्छंदः, दत्तात्रेयो देवता, मनुमेनं जप्त्वा दत्तात्रेयाय इति सत्यानंदचिदात्मकं नम इति पूर्णानंदचिदात्मकं विग्रहं पश्यति ॥ ॐ कारमादौ ब्रूयात् ॥ सानुस्वरं द्वितीय स्वरं वदेत् ॥ र्‍हीमिति पश्चात् ॥ क्रोमिति चतुर्थम् ॥ एहीति वदेत् ॥ दत्तात्रेयायेति संबुद्धिः ॥ स्वाहेति मंत्राअजोयं द्वादशाक्षरः ॥ जगतीच्छंदः, सदाशिवोऋषिः, दत्तात्रेयो देवता, ॐ बीजं, स्वाहा शक्तिः, संबुद्धिः कीलकम्, ॐ आमिति हृदये, र्‍हींक्रोमिति शिरसि, एहीति शिखायां, दत्तेति कंठे, आत्रेयायेति नेत्रे, स्वाहेत्यस्त्रम्, तन्मंत्रमयो भवति ॥ अक्षरलक्ष जपाद्देवतासाक्षात्कारो भवति ॥ इंद्रपुरोगमास्त्रयस्त्रिंशत्कोटिदेवताः प्रसन्ना भवंति ॥ सप्तकोटिमुनीश्वराः नवकोटिसिद्धगंधर्वादयश्च भवति ॥ कोटिशो यो मंत्रो जपति दत्तात्रेयसमानो भवति ॥ अक्षरकोटिसंख्याकं मंत्रं जपति स जरा - मरणहीनः सिद्धो भवति ॥ परकायप्रवेशसामर्थं लभते ॥ अत्रैते श्लोकाः भवंति - खङ्गस्तंभो जलस्तंभो सेनास्तंभस्तथैव च ॥ इच्छासिद्धिर्वशित्वं च दिक्पालैः सह भाषणम् ॥ वायुवद्गतिरित्याहुराल्हादित्वं च सोमवत् ॥ अग्निवत्सर्वभक्षत्वं नित्यतृप्तित्वमेव च ॥ सर्वभाषापरिज्ञानं सर्वचित्तावबोधनम् ॥ वापी - कूप - समुद्राणां पर्वतानां च चालनम् ॥ दत्तात्रेयमयो स्वच्छो व्यासतुल्यो भवेदिति ॥ षोडशाक्षरं व्याख्यास्ये ॥ प्राणो देयो मनो देयं चक्षुर्देयं च खंडशः ॥ शरीरं हित्वा ( शरीरयित्वा ) वा देयम् - षोडशाक्षरमंत्रो नदेयो भवति ॥ अतिसेवापरो क्लामिति तृतीयम्, क्लीमिति चतुर्थम्, क्लूमिति पंचमम्, र्‍हामिति षष्ठम्, र्‍हीमिति सप्तमम्, र्‍हूमित्यष्टमम्, सौरिति नवमम्, दत्तात्रेयायेति चतुर्दशम्, नम इति षोडशम् ॥ ॐ बीजं, नमःशक्तिः, दत्तात्रेयायेति कीलकम् ॥ ॐ ऐमिति हृदये ॥ क्लांक्लींक्लूमितिशिरसि ॥ र्‍हां र्‍हीं र्‍हूमिति शिखायाम् ॥ सौरिति कवचे ॥ दत्तात्रेयायेति चक्षुषि ॥ नम इति अस्त्रं ॥ यो नित्यमधीयानः सच्चिदानंदस्वरूपे स्फुरति मुक्तिर्भवति सौरित्यंते विष्णुवन्नित्युच्यते ॥ तज्जपे श्रीविष्णुरूपी भवति ॥ अथानुष्टुभं व्याख्यास्ये ॥ सर्वमंत्रसंबुद्धिर्नामाति इत्युच्यते ॥ दत्तात्रेय हरे कृष्ण उन्मत्तानंददायक ॥ दिगंबर मुने बालपिशाचज्ञानसागरः ॥ सागरेत्युपनिषत् ॥अनुष्टुप् छंद ॥ दत्तात्रेयो देवता, दत्तात्रेयेति हृदये ॥ हरे कृष्णेति शिरसि ॥ उन्मत्तानंददायकेति शिखायाम् ॥ दिगंबरेति बाव्होः ॥ मुने बालेति चक्षुषि ॥ पिशाचज्ञानसागरेत्यस्त्रम् ॥ अनुष्टुभो योयमधीते आब्रह्महननदोषाः प्रणश्यंति ॥ सर्वोपकारी मुक्तिर्भवति ॥ य एवं वेदेत्युपनिषत् ॥ सहनाववतु सहनौभुनक्तु सहवीर्यंकरवावहै ॥ तेजस्विनावधीतमस्तु माविद्विषावहै ॐ शांतिः शांतिः शांतिः ॥

N/A

References : N/A
Last Updated : March 16, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP