मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे| दत्तलहरि दत्त स्तोत्रे श्रीजाबालदर्शनोपनिषत् बालाकप्रभा इंद्रनील जठीलं... ॥अथ ध्यानम॥ यावद्द्वैतभ्र... ॥ हरिः ॐ ॥ ॐ नमो भगवते दत... दत्तात्रेयं परमसुखमयं वेद... ॐ नमो भगवते दत्तात्रेयाय,... रसज्ञावशातारकं स्वादुलभ्य... दिगंबरं भस्मसुगन्धलेपनं च... अथ प्रथमः पटलः । ईश्वरदत्... श्रीपाद श्रीवल्लभ त्वं सद... भूतप्रेतपिशाचाद्या यस्य स... दत्तात्रेयं परमसुखमयं वेद... श्रीपाद श्रीवल्लभ त्वं सद... श्रीपाद श्रीवल्लभ त्वं सद... ॥ॐ ॥ दत्तात्रेयं प्रियदैव... ॥ॐ ॥ श्री गुरूदेवाय नमः ।... नृसिंहरूपिणे चिदात्मने सु... कार्तवीर्य उवाच - यस्मिन... श्रीगणेशाय नमः ॥ पार्वत्... श्रीगणेशाय नमः ॥ अस्य श्र... श्रीगणेशाय नमः ॥ श्रीपार... श्रीदत्तात्रेयाय नमः ॥ अथ... श्रीगणेशाय नमः ॥ मूलाधार... श्रीगणेशाय नमः ॥ आचम्य प्... ॥ अथ दत्तव्याहृति प्रारभ्... श्रीगणेशाय नमः ॥ श्रीशुक ... श्रीदत्तात्रेयाय नमः ॥ आ... श्रीगणेशाय नमः ॥ हरिः ॐ ... श्रीगणेशाय नमः ॥ सहनाववत... जयलाभादिकरं श्रीदत्तस्तोत्रम् दत्तनामस्मरणम् इंदुकोटि तेजकीर्ण सिंधुभक... यस्य नाम श्रुते सद्यो मृत... दत्तलहरि ओव्या श्रीदत्तापराधक्षमापनस्तोत्रम् श्रीदत्तापराधक्षमापनस्तोत्रम् दत्तप्रबोधम् (दत्तात्रेय सुप्रभातम्) श्री दत्तात्रेयस्तोत्रम् श्रीगुरुराजस्तवः । श्र... ह्या दत्तरक्षास्तोत्राचा ... दत्तलहरि देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : dattagodgurudattastotraगुरूदत्तदत्तदेवतास्तोत्र दत्तलहरि Translation - भाषांतर श्रीगणेशायनमः ॥ दलादन ऋषिरुवाच । विभुर्नित्यानंदः श्रुतिगणशिरोवेद्यमहिमा यतो जन्माद्यस्य प्रभवती स मायागुणवतः । सदाधारः सत्यो जयति पुरुषार्थेकफलदः सदा दत्तात्रेयो विहरति मुदा ज्ञानलहरिः ॥१॥हरीशब्राह्मणः पदकमलपूजां विदधते जगद्रक्षशिक्षाजननकरणे ते ह्यधिकृताः । अभूवन्निंद्राद्या हरिदधिपतां । देवमुनयः परं तत्त्वं प्रापुः शशिदिनकरौ ज्योतिरमलम् ॥२॥परंज्योतिर्मूतें तव रुचिरतेजःकलरवाज्जगद्व्याप्येदानीं तपनशशिताराहुतभुजः । महातेजः पुंजाः सकलजगधाराध्यचरिताश्चरंत्येवं लोकान्नतजनमनोभीष्टफलदाः ॥३॥भवन्मायारूपं जगदखिलजीवात्मकमिदं भवद्रूपं प्राहुर्निखिलनिगमांतश्रुतिचयाः । त्वया सृष्टं चांदौ हृतमवितमेतत्तदधुना प्रभावं ते वेत्तुं प्रभवति जनः कोऽवनितले ॥४॥कृपासिंधो तावज्जनुरजननस्याप्य कथिते जगद्रक्षादीक्षा भवति खलु नो चेत्कथमिदम् । अनीहस्याऽकर्तुस्तव जगति कर्मोपकृतये प्रमाणीकर्तुं वा स्वकृतनिगमार्थानिति मतिः ॥५॥महाविद्यारूपे भगवति निबद्धत्वमुचित्तं हृदा वाचाऽगम्ये परमपि विमुह्यंति कवयः । अविद्यातीतः किं यदि गुणविहीनोऽपि गुणवानविद्यायुक्तोऽयं त्विति वदति मायामुपितधीः ॥६॥भवानादौ यादोनरमृगमुखगोश्वादिकतनूर्विधत्ते लोकानामवनकृतिहेतोरनुयुगम् । विशुद्धस्त्वं लीलानरवपुरिदानीमटसि गां पवित्रीकर्तुं वा परिजननिवासांगणतलम् ॥७॥जगद्रकषार्थं वा विचरसि जगत्यात्मजनतापरित्राणायाद्यः परमपुरुषोऽगम्यचरितः । मृपालोको लोको वदति मनुजत्वं तदधुना यथा श्रीकृष्णत्वं यदुपुब्रुवते मूढमतयः ॥८॥महायोगाधीशैरविदितमहायोगचतुरं कथं जानंति त्वां कुटिलमतयो मादृशजनाः । तथापि त्वां जाने तव पदयुगांभोजभजनान्न चेत्त्वत्पादाब्जस्मृतिविषयवाणी कथमभूत् ॥९॥अपारे संसारे सुतहितकलत्रादिभरणाद्युपाधौ मग्नास्तत्तरणकरणो पायरहिताः । पतंति त्वत्पादाम्बुजयुगलसेवासु विमुखा नराः पापात्मानः प्रवरनरके शोकनिलये ॥१०॥सुधासिंधौ द्वीपे कनकलतिके कल्पकवने वितानैर्मुक्ताढ्यैर्नवमणिमये मण्डपवरे । अशेषैर्माणिक्यैः खचितहरिपीठेऽब्जकुहरे हुताशारे ध्यायेत्तव परमपूर्ति निखिलदाम् ॥११॥धराधाराधारे हुतवहपूरेधीशगणपं विधिं श्रीशेषौ वानलपवनव्योमानि हृदये । युतौ जीवात्मानाधधिकमवमत्या प्रविशते विधत्ते जायास्त्वं परकलितवामेन वपुषा ॥१२॥सहस्रारे नीरेरुहि सकलशीतांशुललिते सहंसे हंस यः स्फुटमपि भवन्तं कलयते । सुषुम्णावर्तिन्यां तव चरणपीठेंदुसुधयाऽप्लुतो भित्वा ग्रंथित्रयममृतरूपो विचरति ॥१३॥तवाधारे शक्तिस्थितकमलकर्माद्यभिवृते महापीठे वैश्वानरपुरमरुद्देहनिलये । धराव्योमाकल्पे सुरमुनिमहेंद्राद्यभिनुतं महातेजोराशिं निगमानिलयं नौभि हृदये ॥१४॥भवत्पादांभोजं भवजलधिपोतं भजति यो महासंसाराब्धिं तरतितरतित्येव निगमः । इहामुत्र त्रातुं तव चरणामेवात्मशरणं भजे भीतश्चाहकृंतिपरमनस्कोऽयमधुना ॥१५॥यथा दारुष्वग्निर्निवसति तथा देहनिकरे प्रविश्य त्वं चैको बहुविध इवाभासि तु तथा । चलन्नीरे चंद्रः शतविध इवाभाति गुणतो न चैतच्चंद्रे स्यान्न शतविधता नापि चपलम् ॥१६॥दरिद्रो वा मूढः कठिनहृदयो वापि भवतां दयापात्रं स्याच्चेद्धजति महातामप्यधिकताम् । न विद्या रूपं वा न कुलमपि वा कारणमभून्महत्त्वे सेवैका तव पदयुगांभोजकलना ॥१७॥न कारुण्यं स्यात्सकलगुणवानप्यगुणवान् भवत्कारुण्यं स्यादगुणगणपो वोरुगुणवान् । यथा पत्यौ रक्ते यदपि च विरक्तै च युवतौ वृथा सौंदर्यं स्यात्सकलमपि तेऽनुग्रहवाशात् ॥१८॥अनाथे दीने मव्यधिगतभवत्पादशरणे शरण्यब्रह्मण्यप्रथितगुणसिंधो कुरु दयाम् । महातेजोवार्धे स्वसुकृतमहिन्नैव सततं पुरा पुण्यैहीनं पुरुषमुपकुर्वन्ति कृतिनः ॥१९॥महाश्वेतद्वीपेऽभरतरुणात्यंतरुचिरे मणेः पीठांभोजेऽनलशशिखगांतर्निवसितम् । गदाचक्राजासिप्रसृतकरपद्मं मुररिपुं स धन्यस्त्वां ध्यायेत्परचिदानंदवपुषम् ॥२०॥लसन्मेरोः शृंगे सुरमणिमये कल्पतरु - प्रकीर्णे वाक्पीठे रविशशिकरा - कीर्णजलजे । स्थितं वाचाधीशैर्नुतमनुदिनं त्वां भजति यो भवेद्वाणिशानामपि गुरुरजेयोऽवनितले ॥२१॥समुद्यद्भलार्काय - युतनिभशरीरं मुनिवरं स्थितं बीजे मारे त्रिदशपतिगोपातिरुचिरे । हृदि त्वां यः पश्यन् सुखकरमिति ध्यायति सदा स एवाहं नूनं स भवति जगन्मोहकरः ॥२२॥निधिर्विश्वेषां त्वं निजचरणपद्मद्वयवर्ता शरण्यश्चार्तानां चकितहृदया - नामभयदः । वरेण्यः साधूनां वरद इति वा कामितधियां भवत्सेवा जंतोः सुरतरुसमाना नु फलति ॥२३॥यथा वै पांचाली नटति कुहकेच्छानुशरणं कुलालेन भ्रांतं भ्रमति च सकृच्चक्रमनिशम् । तथा विश्वं सर्वं वियति मनवश्चानुगुणिताः स्वतंत्रः को वास्ते वद परसुरेशस्त्रिभुवने ॥२४॥त्वयाज्ञप्तो धाता सृजति जगदीशोऽपि हरते हतिः पुष्णातीदं तपति तपनो याति पवनः । धरां साद्रिद्विपां वहति भुजगानामधिपतिः सुराः सर्वे युष्मद्भवपरवशाद्बिभ्रति बलिम् ॥२५॥स्वयं मुक्तेः पूर्व स्वकृतसुकृतं मां नयति चेद्भवासत्त्वं का वा तर व चरणपंकेरुहरतिः । हरेत्पापौद्यं नः शुभमपि ददातीति च सदा भवंत्याशाबद्धाःसकलमपि धातुर्वशमहो ॥२६॥प्रधानं वा कर्म स्थितिविलयसर्गेऽलमिति चेज्जडत्वात्क्षीणत्वात्कथुमुचितमेतन्निगदितुम् । तयोरीशोऽनीशे भवति जगदुत्पत्तिविलयावनान्यासन् ब्रह्मान्निति वदति शास्त्रं श्रुतिरपि ॥२७॥भवत्सेवा जंतोर्भवदबहुताशांवुदनिभा महामोहध्वांतप्रतिहतमतेर्दीपकलिका । सुधावर्षिण्येषा विहित मनसां निर्ममनृणामुपाध्याये ब्रह्मप्रवचनविधानेऽतिचतुरा ॥२८॥अवज्ञायै लोके बहुपरिचितिः प्राकृतमतिर्निरस्यापो गंगाःप्रसरति यथा नाल्पतटिनीम् विशुद्ध्यर्थं तत्त्वं सकलपुरुषार्थैकफलदं भवंतं हित्वान्यं भजति गुरुमाशापरवशः ॥२९॥निमील्याक्षिद्वंद्वं निगमनिरतो निश्चलमनाः प्रकाशंतंदृष्ट्या त्रिभुवनमुदं ज्ञानपरया । ललाटेऽधोमुख्या रसजनित - दिव्यांजनधरं स्मरेद्यस्त्वां योगी भवति निधिसिद्धेरधिपतिः ॥३०॥महामायामंत्राक्षर - कमलपद्मासनयुतं महानीलच्छायं मधुमुदित - योगिन्यभिवृतम् । दधानं सद्बोधासितकनकगोक्षीरतिलकं मुने यस्त्वां पश्येद्भवति सकलादृश्यकतनुः ॥३१॥सुधाधारे हेतौ सकलजागतां स्वर्णकलिते सितांभोजे तेजोधिकतपनबिभ्रन्श्रुति तनुम् । मणिप्रोते पीठे निखिल - सुरवृन्दैः परिवृते स्थितं त्वामारोग्यं स्मरति हृदि तस्यामृतमयम् ॥३२॥परत्रादाता चेद्भवति न ददात्यैहिकसुखं ददात्येत्सौख्यं वितरति न चामुष्मिकसुखम् । भवत्सेवा जंतोरिह परसुखप्राभयकरी सुराणामन्येषामनुसरणमात्मैक्यमकरोत् ॥३३॥जटी वल्की क्कापि क्कचिदपि सुभूषांबरभृती क्ककिद्भूत्यालिप्तः क्कचिदपि सुगंधांकिततनुः । क्कचिद्योगी भोगी क्कचिदपि विरागी विहरसे बहुज्ञानी ज्ञातुं तव गतिमशक्ताश्च मुनयः ॥३४॥विशुद्धं चैतन्यं क्कचन जडवत्क्वापि सकलागमज्ञोऽप्यज्ञस्याद्विहरसि कदाचिद्बहुविधः । ऋषिभ्यस्त्वं तत्त्वं परममुपदेष्टासि विततं चरित्रं ते वेत्तुं चतुराधिकवक्त्रा न चतुराः ॥३५॥मणिर्वा मंत्रो वा विविधविमलैश्वर्यमपि वा महायोगोऽष्टांगाभ्यसनविहितो वा त्रिभुवनम् । समर्थं चैकैकं प्रभवति वशीकर्तुमधिकं स्थितं त्वय्येवेदं तव किमुत लोकैकवशता ॥३६॥सरस्वत्याधारीस्यतमरुदतिप्रेरितपरां नृपो धारां भित्त्वा रसकमलवासाधिपपुरी । परं तेजोरूपं सकलभुवनालोकनिरतो भवं ते संयोगात्परमसमवेतं मुनिपतिः ॥३७॥ अपतत्त्वं हंसं सकनभवदेवे जलरुहे तडिद्भास्वद्दीप्तिप्रकटदलषट्के सुललिते । परं स्वाधिष्ठाने रुचिरतररूपं निरूपमं स्थितं ध्यायेत्त्वां यो मदनसमरूपो विजयते ॥३८॥परीतं त्वां विष्णो हुतवहनमायाविलसिते सरोजे नीलाभे मणिरचितपीठे मणिगृहे । महासिद्धैःकल्पद्रुमवरतले स्वर्णनिचयात्प्रवर्षद्भिः सस्यात्परमतनुभूतिः स्मरति यः ॥३९॥मरुत्ताराप्राभेकनकरुचिपद्मे श्रुतिमयं प्रभुं लोकातीतं निखिल - निगमावेद्यचरितम् । भजंते ये त्वां ते सुदृढतरतादात्म्यकदृशां चिदानन्दं मायागुणविरहितं यांति परमम् ॥४०॥सुधाशुद्धे व्योम्नि द्रुहिणरमणी - बीजलसिते विशुद्धांभोजांते सुरनर खगाद्यंतरहितम् । भवंतं भावोत्थैः कुसुममुखपूजोपकरणैः समर्हंल्लोके ना द्वितयपरमं ब्रह्म भजते ॥४१॥तडिल्लेखाशोचिर्द्विदलकमले भाति परमो महामुक्तानंगोनलशशिदृशोक्षीणि भवते । अशेषस्तोत्रेषु द्विरसजलवानंगकनकः श्रुतिप्राणोष्टांगप्रगुणित - कलापीठनिलयः ॥४२॥ क्कचिगुह्यं जिव्हा क्क च गुदकमन्यत्र कविता क्कचिद्वागन्यत्र श्रुतिरपरतो लोचनयुगम् । समाकर्षंन्त्यात्मानमिव बहुभार्याः प्रलुभिता ततो ध्यातुं स्थातुं कथमपि न सक्तास्तव पदम् ॥४३॥अशक्तोऽहं स्नातुं क्षणमपि जपं कर्तुमपि वौ - दनाभावावादेवातिथिजनसपर्या च न कृता । कुतो ज्ञानं ध्यानं त्वकृतगुरुदेवस्य मम भो भवेदेवैकाशा वसति तव भक्तत्वजनिता ॥४४॥अमंदे मंदारदुमचरसमीपे मणिमये सुखासीनं पीठे सुरवरमुनेंद्रादिविनुतम् । स्वहृत्पद्मे वापि स्थितमनुदिनं त्वां भजति यः स चेहामुष्मिन्वा सकलजनपूज्यश्च भवति ॥४५॥तृणं मेरु कुर्यात्सुरवरगिरिं वापि च तृणं भवत्सामर्थ्यं वाऽघटितघटनाप्रौढिमतनो । इदं जाने तस्मै पुनरपि न जानंति कवयोऽप्यहो युष्मन्माया सकलजनमोहोन्मदकरी ॥४६॥नटो भूयो बैषैर्बहुविधि इवाभाति सगुणो यथैको वाकाशो घटमठगुहास्वंतरगतः । यथैकं गांगेयं कटकमुकुटाद्याकृतिवशात्तथा दत्तात्रेय त्वमपि बहुरूपस्त्रिभुवनम् ॥४७॥सहस्रांशुप्राभे सुरतरुसमाढ्येऽधिकतरे विमाने हंसाख्ये स्थितममृतनीहारवपुषम् । परीतं त्वां ध्यायेद्यदरजसमारूढम - निलैरशेषैराज्ञायां भवति खचरो व्योमगमनैः ॥४८॥स्थितं मूलाधारे कनकरुचिराङ्गं हुतभुजः शिखाभिः प्रख्याभिः वृतमाखिलतेजोरसघटम् । धरन्तं भ्रूमध्ये प्रसृतनयनः पश्यति च यः परं त्वां सत्यं स्यादखिलरसविद्यातिनिपुणः ॥४९॥शिरप्रान्तभ्रांतायतकुटिल बालार्कमतुलं प्रदीप्त - स्वर्णाढ्यारुणशतलसत्कुण्डलधरम् । मरुत्पुत्रं लङ्काधिपतनुजनाशोद्यतकरं स्मरेद्यस्त्वां यत्नात्सकलभयभूतापहरणे ॥५०॥गरुत्मन्तं चञ्चच्चलकनक - पक्षद्वययुतं सुधाकुम्भोद्भास्वत्करमखिललोकाभिगमनम् । अचिन्त्यं वेदैस्त्वां परममुनितार्थ स्मरतियः स दक्षोऽसौ वादी कपटविषजन्तुप्रहरणे ॥५१॥स्मृतिं नंदंतं यो मनुजमुपतिष्ठंत्यतिबलात्कृताशा मिथ्याद्यात्पणतजनमन्दार भवता । अदत्ते दत्तत्वादमलतरचिद्गम्यविभवात्सदा दत्तात्रेयो भजसि भजतामिष्टफलदः ॥५२॥विधिं विष्णुं भायां शृणिमदनयोनिं दिनकरं मिलित्वानङ्गेनानलवयुवतियुक्तां जपति यः । त्वदाख्यामाख्येयां निखिलानिगमाढ्यामखिलदां स संपद्भिर्देवाधिपविभवयुक्तो विहरति ॥५३॥परा माया वाणी मदनकमलाबीजसहितं मनु प्रत्येकं ते जपति सततं निश्चलधिया । यतामेत्यैश्वर्याश्रुतसकलविद्यानिपुणतां वशित्वं ब्रह्मैक्यं स्वपदि यदि यायात्परमुने ॥५४॥अविज्ञातं किञ्चित्तव जगति नास्ति प्रभवितुस्तदा विज्ञातोऽहं यदपि सकलज्ञेन भवता । अदृष्टं मन्येऽहं प्रतिभटमविज्ञानकरणे मुने दत्तात्रेय प्रकुरु मयि कारुण्यमतुलम् ॥५५॥भवत्पादांभोजद्वयशुभरसास्वादचतुरं भ्रमद्भृङ्गीशंखायितहृदयवृत्तिं कलय माम् । अनाधाराधाराश्रितसुरतरो तावकजने मुने कारुण्याब्धे प्रकुरु मयि संपत्प्रकटनम् ॥५६॥वदंत्येकेऽ पार्थ तव गतिमनेकार्थहरिणीमजानंतो ज्ञेयामनधिगततत्त्वार्थमतयः । महायोगिं ल्लोके जडमतिकृते त्वं धृतवपुस्तथा नो चेद्भक्तास्वजनपरिरक्षा कथमहो ॥५७॥स्मृतस्त्वच्छिष्यो वा जगति कृतवीर्यस्य तनयोऽर्जुनो राजा चोराद्भयमहिभयं वृश्चिकभयं । हिनस्त्याजौ शत्रूदितमपि भयं चेति गदितं भवेयुत्स्वच्छीष्याः किमुत हृतचोराधिकभयाः ॥५८॥पदानां सेव्यो वा न भवसि यदा किञ्चन नृणां प्रियः साधूनां त्वं तव च सुहृदस्तोपि सुजनाः । मयि त्वार्थे दीने जननमरणाद्येः कुरु दयां दयावान्को वा मे भ्रमनिगडनिर्मोचनविधौ ॥५९॥यथा माता पत्रं सकलगुणहीनं च कुटिलं प्रपुष्णात्यन्नादयिरनुदितमतावादरहिता । तथा त्वं लोकानां मम च पितरावित्यभिमतं ततस्त्रातुं दातुं फलमाभिमतं चार्हसि विभो ॥६०॥जडं वाचाधीशं सुधियमपि मूक च कुरुषे खेर्वा शीतत्त्वं यदि च कुरुषे दृष्टिवसतेः । अकर्तुं कर्तुं वान्यदपि परिकर्तुं च मनुजस्तदा सर्वं कुर्याः क्कचन किमसाध्यं त्रिभुवने ॥६१॥पुमान्यो वै युष्मत् - चरणपरिचर्याकृतिपरो महालापास्थानाशनशयनपानानि कुरुते । स वै धन्यो लोके सकलजगदाराध्यगरिमा अहो भाग्यं तस्यागणितयशसः कोऽपि न भजेत् ॥६२॥प्रसादात्ते यस्मिन्प्रबलतरदारिद्र्यविभवः स यायादिंद्रत्वं सकलसुरनारीपरिवृतः । तवोपेक्षा यस्मिन्भवति स सुराणामधिपतिः परत्र ह्यत्यंतं प्रविहतमहैश्वर्यविभवः ॥६३॥सदा मंत्रैर्जाप्यः पुनरपि मनूनेव जपति स्वयं तंत्रध्येयो यदपि कुरुते तंत्रनिचयम् । सदा ब्रह्मानंदामृतजलधिकेलीकलितधीः स भतेर्भूयस्या भवतु भगवन्नः कुरु दयाम् ॥६४॥तुरीयाग्निश्वेतद्युतिदिन कृदकैंर्मुनिपतेर्महाविद्याखंडैः परियुत - महानष्टुभमनो । चतुर्भिश्चक्राब्जां कुशगणधरं सामि युवतिं नृसिंह त्वद्रूप भजति सपुमर्थैकनिलयः ॥६५॥मुने ते माणिक्यप्रवरखचिते हेममुकुटे पुरा कल्पध्वंसे परिकलितसूर्यापररुचः । वसंत्त्यस्मिन्नूनं नहि यदि तदा भूतमुनयो न विद्यन्ते लोकाः प्रखरतिमिरांतैकचतुराः ॥६६॥अहो योगिन्नानामणिखचितभावाक्तमुकटः शिखाग्रालंबिन्यास्त्रिकतलमसौ रत्न - शिखरात् । महामेरोलीलांकलयति सदा यामकलितां शरत्सौदामिन्याः कटकवरतेजोमयतनोः ॥६७॥सुविज्ञातं लोकैरनवधिसदादेशनपरैः सुधाखंडं लब्ध्वा तव नबिडभावांधकमरनम् । द्वितीयं सोमेंदुस्फुटमुकुटः कांटमनघं महामूर्तिजोत्स्ना हरति नतदारिद्यतिमिरम् ॥६८॥धृतं पुंड्रं मात्रात्रितयरुचिरं साक्षरमिदं सहस्रारे हंसैः स्थितपरमहंसाजिगमिषोः । वहंती पादाब्जद्वयसरललाक्षारस पदं परा शक्तेश्चंद्रोपलरचितसोपानपदवी ॥६९॥श्रेयेते हैमंते तरुविमलपत्रे मधुकरौ शुभं गर्मांभोजे स्थिमिति सुचित्रं शमनिधे । कठोरेंदुप्रांशुप्रवरनिकरीभूततिमिरं सुधांशुर्भावात्को मुकुलयति विद्युत्कुवलयम् ॥७०॥तमोभिर्भूकालीगृहमिदनुज्जृंभितामिति त्वदीये नेत्राब्जे कमलसदना जृंभितवती । सदासुज्ञानेनाविशति सदयाक्षि प्रसरति प्रभो यस्मिन्स्याते ध्रुवमतिधनोऽयं मुनिपते ॥७१॥यदा योगिन्नी - षद्वलिरविलसत्कारकदृशोरूपांत नीलाली उदरयुगुली कंजदलयोः । वरं कारायेते कनकमकरीकुंडलयुगे कटाक्षौ चांपेयस्तबकविचरंताविव वरौ ॥७२॥त्रयीविद्यारूपस्त्रितनुरहिमांशुः प्रतिदिनं श्रुती भावत्केचिद्वविधमकरीकुंडलापदः । मिलित्वात्मायं ते घनतरनुपाधिद्वयमपि व्यनक्ति श्रीकारं निखिलजगदुद्दीपकमुने ॥७३॥कपोलौ यैष्माकौ स्फुटमुकुटबिंबप्रतिभटौ भृशं संघर्षित्वात्प्रतिदिनसमारोपितरुचौ । निजा कांतिर्निंत्या कनकनिकषोऽत्यंतमहिमा त्वदीयो नीचैव प्रचुरतरकांतिस्तव मुने ॥७४॥मुखेंदुं दृष्ट्वा ते यदि विशति राहुप्रतिभयात् शशी वक्रं प्राप्य द्विगुणितकलानां निधिरभूत् । द्विजानां राजत्वं प्रकटितमेत दत्तशरणी - बलेनाहो स्वामिन् कथमपि च लभ्यो हि महिमा ॥७५॥तवायं बिंबोष्ठश्चिवुकसहितो विद्रुमलतासमाक्षिप्ता तिर्यग्यदि बहुपदं स्यात्फलयुगम् । व्रजे तत्साम्य तन्निहितमुत वा पल्लवदलं यदि स्यात्ते नारस्तु - लयतिमहो संयमिपते ॥७६॥भवद्वाणिश्रेणीं श्रवणपुटसौख्यप्रकरणीं विजेतुं वाक् श्रुत्वा स्वयमुत विदित्त्वाऽहमितिभाक् । अशक्तां तेत्यतं फणिललितजिव्हाग्रविषतः प्रविष्टा वक्रांतं सितमणिलसद्विद्रुमगृहम् ॥७७॥तवावृत्ता रेखात्रयविलसिताकंबरभवच्छराणामाधारः कथम - भवदेतन्न यदि चेत् । अथेमामूदेहात्विहं कविहराद्याकृतिधरां तदा नो चेद्वेदत्रितयकलितां वापि गणये ॥७८॥महानन्तश्चासीद्विष घरवरो वासुकिरस निबर्हंतौ मर्त्याधिकभयकरत्त्वं गणयताम् । भुजाकारौ स्वीयौ तव तु भुजसत्त्वं विदधतां मुने भूतौ स्निग्धौ सपदि वरदौ चाभयकरौ ॥७९॥मुने गङ्गस्रोतोमरखगिरिप्रस्थफलके प्रसादे स्वर्णाढ्ये प्रभवभव - दुद्भागलुलितम् । त्रिसूत्रं सुस्निग्धं धवलमुपवीतं कलयते महायोगि - न्मूर्तित्रयमपि विलीनं तदथवा ॥८०॥प्रसिद्धस्वर्णाद्रिर्दिवि विबुधवाचा - वितरणात् । प्रशस्तौ ते हस्तावखिलपुरुषार्थप्रकरणात् । जनानां पादाब्ज - द्वितयमधिकं प्रेम भजतां मुनींद त्रैलोक्याद्भुतगणमणिक्षीरजलधे ॥८१॥इयं रोम्णां राजिर्विलसति महानाभिसरसः प्रवृत्ता कुल्येव प्रतिपतित - भंग्यस्त्रिवलयः । नवालेखालोकत्रयविभाजनार्थे विरचिता मुने दत्तात्रेय त्वदुदरविलग्ना विलिसिताः ॥८२॥ध्रुवं शं मा मौञ्जीत्रितयव - लिरेखावरतनो रुरुक्षोः प्रासादं स्वशयहृदयाख्यं तव हरे । महालक्ष्म्य - श्चचत्कनकमयसोपानपदवी न चेन्नाभीकुण्डे पुरिचिदुपलब्धा परिदया ॥८३॥प्रवृत्तावूरु ते लसदुदरलोकव्रजधृतिर्धृता सा कवींन्द्रस्फुटपटुकटौ सप्रकटितौ । कटौ विस्तारौ यत्कटकफलकौ ताविव मुने महायोगिन्विश्वम्भर इति च नून त्वमधिसूः ॥८४॥कृपालो विश्वेश त्रिभुवनतले ते प्रमितितो दिवारात्रौ स्थानं मिलति वपुषो जानुयुगलम् । अभक्तानित्ये - तत्कथितमभियुक्तैः समतनोः प्रदुब्यन्ते संप्रत्यपि तदिदमर्थं हि सुदृढम् ॥८५॥जगन्मूलं सृष्ट्वा सकलजगतां सर्वकुशलो भवज्जंघे लक्ष्मीकृदसमसरस्यः प्रकुरुते । प्रकृष्टौ तौ वीरौ भ्रमयित - विलक्ष्योऽल्पगुणवान् मुने ते नानङ्गस्तव तुं विमुखो लक्षणवतः ॥८६॥नाराणां नानार्थप्रदरसगुटित्वं च दधतौ मुने गुल्फौ गूढौ तव चरणपुष्टौ प्रकटिती । घटावृत्तिर्नार्योरिव सकलकौ वृत्तरुचिरौ विराजेते तेजोनिकरकालितायां सुवपुषा ॥८७॥मदाधारं युष्मत्प्रपदमतिपूज्यं सुरुचिरं धुवात्मानं मत्त्वा जितमिति सदा कच्छपपतिः । विवेशादौ भूमेर्यादि तदिदमेकं स्मयकरं त्विदानीं तज्जातिर्मुकु - लितशिराश्चाभवदहो ॥८८॥मया दत्तं किंचिन्न यदि कलितं वासवमहं तदा रोच्र्जातं जननमपि पंकप्रकटिनम् । प्रविश्येत्यायोज्य न चलति ह यत्तत्वदभिया पदं ते तु श्रीदं सकलसमये श्रीनिलयनम् ॥८९॥मुने ते पादाब्जं नवममृतपादोद्भवमहो श्रितः सौन्दर्यं तत्पशुपतिशिरोब्जं हिमकरः । निवृत्तं स्वास्याङ्कं भजति भवदेकात्मपुरुषः कथं ब्रह्मागारे परमपुरुषानांघ्रिभजनाः ॥९०॥न चित्रं ते पादौ वितरत इति प्रार्थितफलं विधिं श्रीशं रक्षाकलुषविषदं दृश्यमतुलम् । स्मरान्तः श्रीगङ्गाधरचरणशंखाम्बुजसुरद्रुमाश्चतद्भावानतजनपदानंदकलनात् ॥९१॥त्रिखण्डैः श्रीविद्यामनुवरभवैर्भावकरिपो विवृद्धस्ते मंत्रो विषवदति यो ज्योतिरमलम् । षडर्णाचंद्रार्कप्रकररुचि तन्मे प्रभवतां सदा ज्ञानानन्दं युवतिनृमयं लोचन - पदम् ॥९२॥समुन्मीलद्भानुप्रकररुचिवाग्बीजममलं मरुत्वद्गोपाभां मदनलिपिमाधारकमले । हृदब्जे शक्त्याख्यं सितकरकराभं शिरसिजे सरोजे त्वां ध्यायेत्सकलपुरुषार्थान् स भलते ॥९३॥चिदंशत्वाद्रूपं किमपि सवितुर्मण्डलगतं वरेण्यं भर्गो वै त्रिविधतनुदेवस्य वपुषि । मुने धीमह्मासद्धरिरपि धियो यो न इतरत्प्रचोदायास्तत्त्वं स्थितिलयसृजस्वं मुनिपते ॥९४॥हरिस्ततुः प्रोतः सदसि शिखरे शुभ्रकपटो जगन्मूलस्थाणुस्त्वमिति शुभमस्पंदमुनिमिभिः । ज्वरीभिः स्वर्णाढ्यः पवनहततद्बिन्दुकनिरैर्जरासक्ताब्जाहीरुचिरमभिषिक्तः स्थित इव ॥९५॥दुराचारो जारश्चपलमतिराजः परवशः परद्रव्याकांक्षी बहुजनविरोधी च सततम् । तदा चाहं पुतस्तव पदयुगे स्पर्शवशतो ह्ययः खण्डः स्वर्ण भवति हि यदा सिद्धसुरतिः ॥९६॥परिक्रान्ता देशा बहुतरधनस्यार्जनधिया कुलाचारं हित्वा कुमतिनृपसेवापि च कृता । विधायासौ श्रांतः किमपि न च लब्धं तु वपुषाश्रितं त्वत्पादाब्जं श्रितमनुजमन्दारमधुना ॥९७॥त्वदीयो मे देहस्त्वमपि पितरौ भ्रातृसुहृदस्त्वमेव ब्रह्मन्मेव सुतहितगृहक्षेत्रनिवहाः । त्वमेव प्राणो मे धनमपि ममत्वात्तव पदं न जाने मय्येव स्थिततरमुहुमींयमधुना ॥९८॥नमस्ते तारायामृतजलधिधाम्नेऽधिमहसे नमस्ते ब्रह्माद्यैर्मुनिसुरवरैः क्लृप्तमनसे । नमस्ते यन्नारायणमुनिविलासाय भवते मनूनां कोटीनामचलगणितानां च पतये ॥९९॥नमस्ते देवैरप्यविदितमहिम्नेऽतिय शसे नमस्ते दिक्पाल - प्रकटमुकुटालंकृतपदे । नमस्ते तेजस्विन्नमनुजमन्दारवपुषे नमो दत्तात्रेयाकृति - हरिहराजाय महते ॥१००॥नमस्ते पापौघाचलवितति - संहारपतये नमस्ते दारिद्र्यव्यथितजनदैवांवनिलये नमस्ते रोगार्तनमनुज - दिव्यौषधिदृशे नमस्ते दैवं मे नहि नहि जगत्यां तव पदम् ॥१०१॥असौ दत्तात्रेयस्तुतियुतकृतिर्ज्ञानलहरी सुधाधारापूराखिलनिगमसारानुपठताम् । श्रुतश्रीविद्यायुर्विभवधनधान्यामृतचयं ददात्येवात्यन्तं जयति सकलाल्हादजनिका ॥१०२॥॥ इति श्रीदत्तात्रेयज्ञानलहरी - दलादनमुनिविरचिता श्रीदत्तपदप्रापिका सम्पूर्णा ॥ N/A References : N/A Last Updated : March 16, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP