मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|
दत्तात्रेयं परमसुखमयं वेद...

दत्त भावसुधारस स्तोत्रम् - दत्तात्रेयं परमसुखमयं वेद...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.

In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


दत्तात्रेयं परमसुखमयं वेदगेयं ह्यमेयं
योगिध्येयं हृतनिजभयं स्वीकृतानेककायम् ।
दुष्टागम्यं विततविजयं देवदैत्यर्षिवन्द्यं
वन्दे नित्यं विहितविनयं चाव्ययं भावगम्यम् ॥१॥

दत्तात्रेय नमोऽस्तु ते भगवते पापक्षयं कुर्वते
दारिद्र्यं हरते भयं शमयते कारुण्यमातन्वते ।
भक्तानुद्धरते शिवं च ददते सत्कीर्तिमातन्वते
भूतान्द्रावयते वरं प्रददते श्रेयः पते सद्गते ॥२॥

एकं सौभाग्यजनकं तारकं लोकनायकम् ।
विशोकं त्रातभजकं नमस्ये कामपूरकम् ॥३॥

नित्यं स्मरामि ते पादे हतखेदे सुखप्रदे ।
प्रदेहि मे शुद्धभावं भावं यो वारयेद्द्रुतम् ॥४॥

समस्तसंपत्प्रदमार्तबंधुं समस्तकल्याणदमस्तबंधुम् ।
कारुण्यसिंधुं प्रणमामि दत्तं यः शोधयत्याशु मलीनचित्तम् ॥५॥

समस्तभूतांतरबाह्यवर्ती यश्चात्रिपुत्रो यतिचक्रवर्ती ।
सुकीर्तिसंव्याप्तदिगंतरालः स पातु मां निर्जितभक्तकालः ॥६॥

व्याध्याधिदारिद्र्यभयार्तिहर्ता स्वगुप्तयेऽनेकशरीरधर्ता
स्वदासभर्ता बहुधा विहर्ता कर्ताप्यकर्ता स्ववशोऽरिहर्ता ॥७॥

स चानसूयातनयोऽभवद्यो विष्णुः स्वयं भाविकरक्षणाय ।
गुणा यदीया म हि बुद्धिमद्भिर्गण्यंत आकल्पमपीह धात्रा ॥८॥

न यत्कटाक्षामृतवृष्टितोऽत्र
तिष्ठन्ति तापाः सकलाः परत्र ।
यः सद्गतिं संप्रददाति भूमा
स मेऽन्तरे तिष्ठतु दिव्यधामा ॥९॥

स त्वं प्रसीदात्रिसुतार्तिहारिन्
दिगम्बर स्वीयमनोविहारिन् ।
दुष्टा लिपिर्या लिखितात्र धात्रा
कार्या त्वया साऽतिशुभा विधात्रा ॥१०॥

सर्वमंगलसंयुक्त सर्वैश्वर्यसमन्वित ।
प्रसन्ने त्वयि सर्वेशे किं केषां दुर्लभं कुह ॥११॥

हार्दांधतिमिरं हन्तुं शुद्धज्ञानप्रकाशक ।
त्वदंघ्रिनखमाणिक्यद्युतिरेवालमीश नः ॥१२॥

स्वकृपार्द्रकटाक्षेण वीक्षसे चेत्सकृद्धि माम् ।
भविष्यामि कृतार्थोऽत्र पात्रं चापि स्थितेस्तव ॥१३॥

क्व च मन्दो वराकोऽहं क्व भवान्भगवान्प्रभुः ।
अथापि भवदावेश भाग्यवानस्मि ते दृशा ॥१४॥

विहितानि मया नाना पातकानि च यद्यपि ।
अथापि ते प्रसादेन पवित्रोऽहं न संशयः ॥१५॥

स्वलीलया त्वं हि जनान्पुनासि
तन्मे स्वलीला श्रवणं प्रयच्छ ।
तस्याः श्रुतेः सान्द्रविलोचनोऽहं
पुनामि चात्मानमतीव देव ॥१६॥

पुरतस्ते स्फुटं वच्मि दोषराशिरहं किल ।
दोषा ममामिताः पांसुवृष्टिबिन्दुसमा विभोः ॥१७॥

पापीयसामहं मुख्यस्त्वं तु कारुणिकाग्रणीः ।
दयनीयो न हि क्वापि मदन्य इति भाति मे ॥१८॥

ईदृशं मां विलोक्यापि कृपालो ते मनो यदि ।
न द्रवेत्तर्हि किं वाच्यमदृष्टं मे तवाग्रतः ॥१९॥

त्वमेव सृष्टवान्सर्वान्दत्तात्रेय दयानिधे ।
वयं दीनतराः पुत्रास्तवाकल्पाः स्वरक्षणे ॥२०॥

जयतु जयतु दत्तो देवसङ्घाभिपूज्यो
जयतु जयतु भद्रो भद्रदो भावुकेज्यः ।
जयतु जयतु नित्यो निर्मलज्ञानवेद्यो
जयतु जयतु सत्यः सत्यसंधोऽनवद्यः ॥२१॥

यद्यहं तव पुत्रः स्यां पिता माता त्वमेव मे ।
दयास्तन्यामृतेनाशु मातस्त्वमभिषिञ्च माम् ॥२२॥

ईशाभिन्ननिमित्तोपादनात्स्रष्टुरस्य ते ।
जगद्योने सुतो नाहं दत्त मां परिपाह्यतः ॥२३॥

तव वत्सस्य मे वाक्यं सूक्तं वाऽसूक्तमप्यहो ।
क्षन्तव्यं मेऽपराधश्च त्वत्तोऽन्या न गतिर्हि मे ॥२४॥

अनन्यगतिकस्यास्य बालस्य मम ते पितः ।
न सर्वथोचितोपेक्षा दोषाणां गणनापि च ॥२५॥

अज्ञानित्वादकल्पत्वाद्दोषा मम पदे पदे ।
भवन्ति किं करोमीश करुणावरुणालय ॥२६॥

अथापि मेऽपराधैश्चेदायास्यन्तर्विषादताम् ।
पदाहतार्भकेणापि माता रुष्यति किं भुवि ॥२७॥

रङ्कमङ्कगतं दीनं ताडयन्तं पदेन च ।
माता त्यजति किं बालं प्रत्युताश्वासयत्यहो ॥२८॥

तादृशं मामकल्पं चेन्नाश्वासयसि भो प्रभो ।
अहहा बत दीनस्य त्वां विना मम का गतिः ॥२९॥

शिशुर्नायं शठः स्वार्थीत्यपि नायातु तेऽन्तरम् ।
लोके हि क्षुधिता बालाः स्मरन्ति निजमातरम् ॥३०॥

जीवनं भिन्नयोः पित्रोर्लोक एकतराच्छिशोः ।
त्वं तूभयं दत्त मम माऽस्तु निर्दयता मयि ॥३१॥

स्तवनेन न शक्तोऽस्मि त्वां प्रसादयितुं प्रभो ।
ब्रह्माद्याश्चकितास्तत्र मन्दोऽहं शक्नुयां कथम् ॥३२॥

दत्त त्वद्बालवाक्यानि सूक्तासूक्तानि यानि च ।
तानि स्वीकुरु सर्वज्ञ दयालो भक्तभावन ॥३३॥

ये त्वा शरणमापन्नाः कृतार्था अभवन्हि ते ।
एतद्विचार्य मनसा दत्त त्वां शरणं गतः ॥३४॥

त्वन्निष्ठास्त्वत्परा भक्तास्तव ते सुखभागिनः ।
इति शास्त्रानुरोधेन दत्त त्वां शरणं गतः ॥३५॥

स्वभक्ताननुगृह्णाति भगवान् भक्तवत्सलः ।
इति सञ्चित्य सञ्चित्य कथञ्चिद्धारयाम्यसून् ॥३६॥

त्वद्भक्तस्त्वदधीनोऽहमस्मि तुभ्यं समर्पितम् ।
तनुं मनो धनं चापि कृपां कुरु ममोपरि ॥३७॥

त्वयि भक्तिं नैव जाने न जानेऽर्चनपद्धतिम् ।
कृतं न दानधर्मादि प्रसादं कुरु केवलम् ॥३८॥

ब्रह्मचर्यादि नाचीर्णं नाधीता विधितः श्रुतिः ।
गार्हस्थ्यं विधिना दत्त न कृतं तत्प्रसीद मे ॥३९॥

न साधुसङ्गमो मेऽस्ति न कृतं वृद्धसेवनम् ।
न शास्त्रशासनं दत्त केवलं त्वं दयां कुरु ॥४०॥

ज्ञातेऽपि धर्मे नहि मे प्रवृत्ति
र्ज्ञातेऽप्यधर्मे न ततो निवृत्तिः ॥
श्रीदत्तनाथेन हृदि स्थितेन
यथा नियुक्तोऽस्मि तथा करोमि ॥४१॥

कृतिः सेवा गतिर्यात्रा स्मृतिश्चिन्ता स्तुतिर्वचः ।
भवन्तु दत्त मे नित्यं त्वदीया एव सर्वथा ॥४२॥

प्रतिज्ञा ते न भक्ता मे नश्यन्तीति सुनिश्चितम् ।
श्रीदत्त चित्त आनीय जीवनं धारयाम्यहम् ॥४३॥

दत्तोऽहं ते मयेतीश आत्मदानेन योऽभवत् ।
अनसूयात्रिपुत्रः स श्रीदत्तः शरणं मम ॥४४॥

कार्तवीर्यार्जुनायादाद्योगर्धिमुभयीं प्रभुः ।
अव्याहतगतिं चासौ श्रीदत्तः शरणं मम ॥४५॥

आन्वीक्षिकीमलर्काय विकल्पत्यागपूर्वकम् ।
योऽदादाचार्यवर्यः स श्रीदत्तः शरणं मम ॥४६॥

चतुर्विंशतिगुर्वाप्तं हेयोपादेयलक्षणं ।
ज्ञानं यो यदवेऽदात्स श्रीदत्तः शरणं मम ॥४७॥

मदालसागर्भरत्नालर्काय प्राहिणोच्च यः ।
योगपूर्वात्मविज्ञानं श्रीदत्तः शरणं मम ॥४८॥

आयुराजाय सत्पुत्रं सेवाधर्मपराय यः ।
प्रददौ सद्गतिं चैष श्रीदत्तः शरणं मम ॥४९॥

लोकोपकृतये विष्णुदत्तविप्राय योऽर्पयत् ।
विद्यास्तच्छ्राद्धभुग्यः स श्रीदत्तः शरणं मम ॥५०॥

भर्त्रा सहानुगमनविधिं यः प्राह सर्ववित् ।
राममात्रे रेणुकायै श्रीदत्तः शरणं मम ॥५१॥

समूलमाह्निकं कर्म सोमकीर्तिनृपाय यः ।
मोक्षोपयोगि सकलं श्रीदत्तः शरणं मम ॥५२॥

नामधारक भक्ताय निर्विण्णाय व्यदर्शयत् ।
तुष्टः स्तुत्या स्वरूपं स श्रीदत्तः शरणं मम ॥५३॥

यः कलिब्रह्मसंवादमिषेणाह युगस्थितीः ।
गुरुसेवां च सिद्धाऽऽस्याच्छ्रीदत्तः शरणं मम ॥५४॥

दुर्वासःशापमाश्रुत्य योऽम्बरीषार्थमव्ययः ।
नानावतारधारी स श्रीदत्तः शरणं मम ॥५५॥

अनसूयासतीदुग्धास्वादायेव त्रिरूपतः ।
अवातरदजो योऽपि श्रीदत्तः शरणं मम ॥५६॥

पीठापुरे यः सुमतिब्राह्मणीभक्तितोऽभवत् ।
श्रीपादस्तत्सुतस्त्राता श्रीदत्तः शरणं मम ॥५७॥

प्रकाशयामास सिद्धमुखात्स्थापनमादितः ।
महाबलेश्वरस्यैष श्रीदत्तः शरणं मम ॥५८॥

चण्डाल्यपि यतो मुक्ता गोकर्णे तत्र योऽवसत् ।
लिङ्गतीर्थमये त्र्यब्दं श्रीदत्तः शरणं मम ॥५९॥

कृष्णाद्वीपे कुरुपुरे कुपुत्रं जननीयुतम् ।
यो हि मृत्योरपाच्छ्रीपाच्छ्रीदत्तः शरणं मम ॥६०॥

रजकायापि दास्यन्यो राज्यं कुरुपुरे प्रभुः ।
तिरोऽभूदज्ञदृष्ट्या स श्रीदत्तः शरणं मम ॥६१॥

विश्वासघातिनश्चोरान्स्वभक्तघ्नान्निहत्य यः ।
जीवयामास भक्तं स श्रीदत्तः शरणं मम ॥६२॥

करञ्जनगरेऽम्बायाः प्रदोषव्रतसिद्धये ।
योऽभूत्सुतो नृहर्याख्यः श्रीदत्तः शरणं मम ॥६३॥

मूको भूत्वा व्रतात्पश्चाद्वदन्वेदान्स्वमातरम् ।
प्रव्रजन् बोधयामास श्रीदत्तः शरणं मम ॥६४॥

काशीवासी स संन्यासी निराशीष्ट्वप्रदो वृषम् ।
वैदिकं विशदीकुर्वन् श्रीदत्तः शरणं मम ॥६५॥

भूमिं प्रदक्षिणीकृत्य सशिष्यो वीक्ष्य मातरम् ।
जहार द्विजशूलार्तिं श्रीदत्तः शरणं मम ॥६६॥

शिष्यत्वेनोररीकृत्य सायंदेवं ररक्ष यः ॥
भीते च क्रूरयवनाच्छ्रीदत्तः शरणं मम ॥६७॥

प्रेरयत्तीर्थयात्रायै तीर्थरूपोऽपि यः स्वकान् ।
सम्यग्धर्ममुपादिश्य श्रीदत्तः शरणं मम ॥६८॥

सशिष्यः पर्यलीक्षेत्रे वैद्यनाथसमीपतः ।
स्थित्वोद्दधार मूढो यः श्रीदत्तः शरणं मम ॥६९॥

विद्वत्सुतमविद्यं यो आगतं लोकनिन्दितम् ।
छिन्नजिह्वं बुधं चक्रे श्रीदत्तः शरणं मम ॥७०॥

नृसिंहवाटिकास्थो यः प्रददौ शाकभुङ्निधिम् ।
दरिद्रब्राह्मणायासौ श्रीदत्तः शरणं मम ॥७१॥
भक्ताय त्रिस्थलीयात्रां दर्शयामास यः क्षणात् ।
चकार वरदं क्षेत्रं स श्रीदत्तः शरणं मम ॥७२॥

प्रेतार्तिं वारयित्वा यो ब्राह्मण्यै भक्तिभावितः ।
ददौ पुत्रौ स गतिदः श्रीदत्तः शरणं मम ॥७३॥

तत्त्वं यो मृतपुत्रायै बोधयित्वाप्यजीवयत् ।
मृतं कल्पद्रुमस्थः स श्रीदत्तः शरणं मम ॥७४॥

दोहयामास भिक्षार्थं यो वन्ध्यां महिषीं प्रभुः ।
दारिद्र्यदावदावः स श्रीदत्तः शरणं मम ॥७५॥

राजप्रार्थित एत्यास्थान्मठे यो गाणगापुरे ।
ब्रह्मरक्षः समुद्धर्ता श्रीदत्तः शरणं मम ॥७६॥

विश्वरूपं निन्दकाय शिबिकास्थः स्वलङ्कृतः ।
गर्वहा दर्शयद्यः स श्रीदत्तः शरणं मम ॥७७॥

त्रिविक्रमेण चानीतौ गर्वितौ ब्राह्मणद्विषौ ।
बोधयामास तौ यः स श्रीदत्तः शरणं मम ॥७८॥

उक्त्वा चतुर्वेदशाखातदङ्गादिकमीश्वरः ।
विप्रगर्वहरो यः स श्रीदत्तः शरणं मम ॥७९॥

सप्तजन्मविदं सप्तरेखोल्लङ्घनतो ददौ ।
यो हीनाय श्रुतिस्फूर्तिः श्रीदत्तः शरणं मम ॥८०॥

त्रिविक्रमायाह कर्मगतिं दत्तविदा पुनः ।
वियुक्तं पतितं चक्रे श्रीदत्तः शरणं मम ॥८१॥

रक्षसे वामदेवेन भस्ममाहात्म्यमुद्गतिम् ।
उक्तां त्रिविक्रमायाह श्रीदत्तः शरणं मम ॥८२॥

गोपीनाथसुतो रुग्णो मृतस्तत्स्त्री शुशोच ताम् ।
बोधयामास यो योगी श्रीदत्तः शरणं मम ॥८३॥

गुर्वगस्त्यर्षिसंवादरूपं स्त्रीधर्ममाह यः ।
रूपान्तरेण स प्राज्ञः श्रीदत्तः शरणं मम ॥८४॥

विधवाधर्ममादिश्यानुगमं चाक्षभस्मदः ।
अजीवयन्मृतं विप्रं श्रीदत्तः शरणं मम ॥८५॥

वेश्यासत्यै तु रुद्राक्षमाहात्म्ययुतमीट्कृतम् ।
प्रसादं प्राह यः सत्यै श्रीदत्तः शरणं मम ॥८६॥

शतरुद्रीयमाहात्म्यं मृतराट् सुतजीवनम् ।
सत्यै शशंस स गुरुः श्रीदत्तः शरणं मम ॥८७॥

कचाख्यानं स्त्रियो मंत्रानर्हतार्थसुभाग्यदम् ।
सोमव्रतं च यः प्राह श्रीदत्तः शरणं मम ॥८८॥

ब्राह्मण्या दुःस्वभावं यो निवार्याह्निकमुत्तमम् ।
शशंस ब्राह्मणायासौ श्रीदत्तः शरणं मम ॥८९॥

गार्हस्थधर्मं विप्राय प्रत्यवायजिहासया ।
क्रममुक्त्यै य ऊचे स श्रीदत्तः शरणं मम ॥९०॥

त्रिपुंपर्याप्तपाकेन भोजयामास यो नृणाम् ।
सिद्धश्चतुःसहस्राणि श्रीदत्तः शरणं मम ॥९१॥

अश्वत्थसेवामादिश्य पुत्रौ योऽदात्फलप्रदः ।
चित्रकृद्वृद्धवन्ध्यायै श्रीदत्तः शरणं मम ॥९२॥

कारयित्वा शुष्ककाष्ठसेवां तद्वृक्षतां नयन् ।
विप्रकुष्ठं जहारासौ श्रीदत्तः शरणं मम ॥९३॥

भजन्तं कष्टतोऽप्याह सायंदेवं परीक्ष्य यः ।
गुरुसेवाविधानं स श्रीदत्तः शरणं मम ॥९४॥

शिवतोषकरीं काशीयात्रां भक्ताय योऽवदत् ।
सविधिं विहितां त्वष्ट्रा श्रीदत्तः शरणं मम ॥९५॥

कौण्डिण्यधर्मविहितमनंतव्रतमाह यः ।
कारयामास तद्योऽपि श्रीदत्तः शरणं मम ॥९६॥

श्रीशैलं तंतुकायासौ योगगत्या व्यदर्शयत् ।
शिवरात्रिव्रताहे स श्रीदत्तः शरणं मम ॥९७॥

ज्ञापयित्वाप्यर्मत्यत्वं स्वस्य दृष्ट्या चकार यः ।
विकुष्ठं नन्दिशर्माणं श्रीदत्तः शरणं मम ॥९८॥

नरकेसरिणे स्वप्ने स्वं कल्लेश्वरलिङ्गगम् ।
दर्शयित्वानुजग्राह श्रीदत्तः शरणं मम ॥९९॥

अष्टमूर्तिधरोऽप्यष्टग्रामगो भक्तवत्सलः ।
दीपावल्युत्सवेऽभूत्स श्रीदत्तः शरणं मम ॥१००॥

अपक्वं छेदयित्वापि क्षेत्रे शतगुणं ततः ।
धान्यं शूद्राय योऽदात्स श्रीदत्तः शरणं मम ॥१०१॥

गाणगापुरके क्षेत्रे योऽष्टतीर्थान्यदर्शयत् ।
भक्तेभ्यो भीमरथ्यां स श्रीदत्तः शरणं मम ॥१०२॥

पूर्वदत्तवरायादाद्राज्यं स्फोटकरुग्घरः ।
म्लेच्छाय दृष्टिं चेष्टं स श्रीदत्तः शरणं मम ॥१०३॥

श्रीशैलयात्रामिषेण वरदः पुष्पपीठगः ।
कलौ तिरोऽभवद्यः स श्रीदत्तः शरणं मम ॥१०४॥

निद्रामातृपुरेऽस्य सह्यशिखरे पोठं मिमंक्षापुरे
काश्याख्ये करहाटकेऽर्घ्यमवरे भिक्षास्य कोलापुरे ।
पाञ्चाले भुजिरस्य विठ्ठलपुरे पत्रं विचित्रं पुरे
गांधर्वे युजिराचमः कुरुपुरे दूरे स्मृतो नान्तरे ॥१०५॥

अमलकमलवक्त्रः पद्मपत्राभनेत्रः
परविरतिकलत्रः सर्वथा यः स्वतन्त्रः ।
स च परमपवित्रः सत्कमण्डल्वमत्रः
परमरुचिरगात्रो योऽनसूयात्रिपुत्रः ॥१०६॥

नमस्ते समस्तेष्टदात्रे विधात्रे
नमस्ते समस्तेडिताघौघहर्त्रे ।
नमस्ते समस्तेङ्गितज्ञाय भर्त्रे
नमस्ते समस्तेष्टकर्त्रेऽकहर्त्रे ॥१०७॥

नमो नमस्तेऽस्तु पुरान्तकाय
नमो नमस्तेऽस्त्वसुरान्तकाय ।
नमो नमस्तेऽस्तु खलान्तकाय
दत्ताय भक्तार्तिविनाशकाय ॥१०८॥

श्रीदत्तदेवेश्वर मे प्रसीद
श्रीदत्तसर्वेश्वर मे प्रसीद ।
प्रसीद योगेश्वर देहि योगं
त्वदीयभक्तेः कुरु मा वियोगम् ॥१०९॥

श्रीदत्तो जयतीह दत्तमनिशं ध्यायामि दत्तेन मे
हृच्छुद्धिर्विहिता ततोऽस्तु सततं दत्ताय तुभ्यं नमः ।
दत्तान्नास्ति परायणं श्रुतिमतं दत्तस्य दासोऽस्म्यहम् ।
श्रीदत्ते परभक्तिरस्तु मम भो दत्त प्रसीदेश्वर ॥११०॥

॥ इति श्री परमहंस परिव्राजकाचार्य श्री श्री श्री
वासुदेवानन्द सरस्वती यति वरेण्य विरचितं श्री दत्त भावसुधारस स्तोत्रं संपूर्णम् ॥

N/A

References : N/A
Last Updated : November 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP