हयग्रीवी शिक्षा
शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.
क्रमे यथोक्ते पदजातमेव द्विरभ्यसेदुत्तरमेव पूर्वम्
अभ्यस्य पूर्वं च तथोत्तरे पदेऽवसानमेवं हि जटा विधीयते
त्रिभिः पदैः स्यात्क्रमको यत्र तत्र
मध्यं त्वनभ्यस्य च पूर्वमभ्यसेत्
अर्थाच्च मध्यस्य भवेद् द्विरुक्तिता
संदेहदं त्विङ्गनतः प्रदर्शयेत्
अभिक्रमे क्रमशास्त्रं प्रमाणं
स्याद् व्युत्क्रमे व्याकरणं प्रधानम्
उक्तक्रमे व्युत्क्रमणे विशेषः
स्वराः प्रकारद्वितयेप्यभिन्नाः
चतुःक्रमे त्रिक्रमवत् परीत्य
संदर्शयेन्मध्यपदस्य रूपम्
तथेङ्गयेत्पदजातं विकारि
व्यावर्तने संहितावत्प्रगृह्य
ऋते क्रमं द्वैपदसंहितास्वर-
ज्ञानं न चेति क्रमकप्रयोजनम्
तथान्यतः पदसंधेर्विशेषितः
स्वराभिधाने हि जटा प्रयोजिका
क्रमस्वरेणैव जटासु भूयते
समज्यतेऽतोत्र न तिङ्ङतिङ्विधिः
स्वराभिधेया हि यथाश्रुतैः स्वरैः
पदेष्वथामन्त्रितजातिकेष्वपि
इति जटापटले प्रथमो वर्गः
[[
अथ द्वितीयो वर्गः
मध्यस्वरस्त्रिक्रमे यत्र लुप्यते
व्यावर्तने तद्ग्रहणं च सर्वतः
स्यादन्यथा विग्रहणे प्रयोजनं
किं वाभिजाते पदनिश्चये तदा
संधिर्निपातस्य कदापि नोक्तस्
तथापि पूर्वेण जटासु दृष्टः
स्वरा हि सर्वे क्रमवद्विधेयाः
कम्पा अपि स्युः स्वरसंधिजाश्च
अर्धर्चान्त्यं पदमेकं प्रदृश्यते
तदा तदभ्यस्य विरम्य चेङ्गयेत्
ऋच्येकमेव प्रकटं पदं भवेत्
परेण साकं परिवर्तनं तदा
ओकार आमन्त्रितजोपि दृष्टः
संधीयमानो न तु संहितायाम्
स्वरे परेऽकारवर्जं जटायाम्
उपैति संधिं न परो विशेषः
अनानुपूर्व्येण च यत्र संहिता
पदक्रमाद् व्युत्क्रमणं पुनः क्रमः
भवेत्प्रकारोऽयमनादिरुत्तमः
सदा जटाया इति सर्वसंमतत्
इति द्वितीयो वर्गः
मूलशिक्षा समाप्ता
N/A
References : N/A
Last Updated : September 20, 2026

TOP