संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा| शौनक शिक्षा शिक्षा व्यास शिक्षा शम्भुशिक्षा व्यालिशिक्षा शैशिरीयशिक्षा शौनक शिक्षा शौनक शिक्षा शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे. Tags : sanskritshikshaशिक्षासंस्कृत शौनक शिक्षा Translation - भाषांतर शौनक शिक्षासर्वज्ञं सर्वकर्तारं सर्वात्मानं शिवं गुरुम्प्रणम्यर्क्षु प्रवक्ष्यामि वर्णोच्चारणलक्षणम् ॥१॥वेदस्य लक्षणं सम्यग्बालानां बुद्धिवर्धनम्यथोक्तं पूर्वशास्त्रेषु तथा संक्षिप्तमर्थवत् ॥२॥द्विविधं वर्णजातं हि स्वरो व्यञ्जनमेव चअकारादिस्वरो ज्ञेयः कादि व्यञ्जनमुच्यते ॥३॥द्विविधश्च स्वरो ज्ञेयो नासिक्यस्सानुनासिकः उदात्तश्चानुदात्तश्च स्वरितः प्रचयस्तथा ॥४॥कादीनां पञ्च वर्गाश्च स्पर्शा इति हि संज्ञिताःदुस्पृष्टश्चेति विज्ञेयो डढयोस्स्वरमध्ययोः ॥५॥वर्गाणां प्रथमा वर्णा द्वितीया ऊष्मसंज्ञिताःहकारवर्ज्याश्चाघोषाः शिष्टं घोषवदुच्यते ॥६॥नासिक्याः पञ्चमा वर्णा अनुस्वारस्तथैव चचत्वारश्च यमाः प्रोक्ता अव्यक्तास्सानुनासिकाः ॥७॥चतस्रो यादयोऽन्तस्था नासिक्या अप्यरेफिकाःऊष्माणश्शादयश्चैव चत्वारश्चेति कीर्तिताः ॥८॥जिह्वामूलीय इत्युक्त उपध्मानीय एव चकपाश्रितौ चोष्मजातौ विसर्गस्य च सम्भवौ ॥९॥ह्रस्वो दीर्घः प्लुत इति स्वराः कालेन संज्ञिताःसन्ध्यक्षराणां कालश्च दीर्घप्लुतौ न मात्रिकः ॥१०॥व्यञ्जनानान्त्वर्धमात्रा स्वरभक्तेस्तथैव चसंयोगे पादमात्रा स्यात्स्वरभक्तिः प्रकीर्त्यते ॥११॥ह्रस्वात्परस्त्वनुस्वारास्त्रिपादः परिकीर्तितःस च ह्रस्वस्त्रिपादः स्यात् द्वावेतौ सममात्रकौ ॥१२॥दीर्घात्परस्त्वनुस्वारः पादमात्रः प्रकीर्तितःस च दीर्घस्सपादः स्याद्वर्णकालो निगद्यते ॥१३॥अकुहाः कण्ठजाः प्रोक्ता विसर्गश्चापि कण्ठजःतालाविचुयशा जाता मूर्धन्यृटुरषा स्मृताः ॥१४॥दन्त्या लृतुलसाः प्रोक्ता उपध्मानीय ओष्ठजःउपू ओष्ठ्यौ विजानीयात् वो दन्त्योष्ठस्तथैव च ॥१५॥ए ऐ तु कण्ठतालव्यौ ओ औ कण्ठोष्ठजौ स्मृतौस्पर्शानां करणं स्पृष्टं अन्तस्थास्वीषदुच्यते ॥१६॥स्वराणामूष्मणाञ्चैव विवृतं करणं स्मृतम्संवृतञ्चेत्यकारस्य सर्ववर्णो निगद्यते ॥१७॥ओ औ उवर्ण इत्येषामनेकस्य च सङ्गमेसकृदोष्ठ्यौ विजानीयान्नान्यश्चेन्मध्यगः स्वरः ॥१८॥उषो न ओषूणो अग्ने द्विषो युयोतु यूयुविःविरामे च विवृत्तौ च मध्ये चेत् व्यञ्जनद्वयम् ॥१९॥द्विरोष्ठौ तु विगृह्णीयाद्वकारे त्वधरं तथायन्मयोभु उदीरय ताभिरूषु ऊतिभिः ॥२०॥भ्रातुः पुत्रान्धेनुं सोमस्सुष्टुतिर्मोषु वो अस्मत्कुतुप्वो यत्र दृश्यन्ते सन्धिस्थानेषु नित्यशः ॥२१॥स्ववर्गेण नियुक्ताश्चेत् वीरं तत्रैव कारयेत्ज्योक्करुत्तराहमुत्तर इमम्म इति च ॥२२॥नकारस्य पदान्तस्य रेफोन्तस्थास्वरोष्मसुलोपस्त्वाकारपूर्वस्य सशौ तु तचयोः परे ॥२३॥पूर्वस्वरश्च नासिक्यस्स च रंगः प्रकीर्तितःपूर्वकालो यथा तस्य रज्यमाने स एव च ॥२४॥दस्यूँ र्योनौ पणीँ र्हतं कवीँ रिछाम्यवराँ इन्दोताँ स्त्रायस्वावदँ स्त्वञ्च ताँश्च पाहि पुत्राँश्चेति ॥२५॥नॄन्पे च स्वतवान् पायौ विसर्गश्च विधीयतेअवर्णस्यानकारस्य स्वरे रङ्गः क्वचिद्भवेत् ॥२६॥नॄँ: पात्रं स्वतवाँ: पायुस्सवायँ एव स चाँ इन्द्रःउः पदे रज्यते दीर्घः पदान्तः प्लुत एव च ॥२७॥पदान्तस्य विधिः प्रोक्तः पदमध्येऽपि दृश्यतेअभूदुपारमुभा उनूनं विन्दतीति ॥२८॥माँस्पचन्या माँश्चत्वे ह्रस्वत्वे च मँश्चतोःमकारस्य पदान्तस्य रेफोष्मसु परेषु च ॥२९॥अनुस्वारो भवत्येव पदमध्यगतेष्वपित्वं रथं तं हिन्वन्ति त्वं शुक्रस्य तां सुते कीर्तिम् ॥३०॥समानोदर्कं षष्ठेऽहनि मांसमेकः पिंशतिस्ववर्गपञ्चमश्चैव स्पर्शेषु विषयेषु च ॥३१॥अन्तस्थासु च ता एव मकारस्य विधिः स्मृतःइदङ्कवेः तङ्गीर्भिर्नकिष्टङ्घ्नन्ति जङ्घ्नतः ॥३२॥सञ्चोदय सञ्जानानास्तन्त्वातन्देवाश्शन्नःत्वम्पवित्रे प्रतरँल्लायन्तय्यत् संवर्धतेति च ॥३३॥परस्परस्तु संयोगः स्पर्शानां संभवेद्यदितत्पूर्वस्य श्रुतिर्नास्ति विरामे व्यञ्जनस्य च ॥३४॥वाक्पूता वाग्देवी विट्कुला द्विभ्राट्बृहत् तत्पुनःजङ्घ्नन्ति त्रिष्टुब्गायत्र्यर्वाग्वितदनुष्टुप् ॥३५॥स्पर्शानां पञ्चमैर्योगे भवन्तो हि यमाः स्मृताः अयःपिण्डेन तत्तुल्यं घनबन्धाः प्रकीर्तिताः ॥३६॥पलिक्नीर्यज्ञरत्नानि विद्माप्नानं ररभ्म चस्पर्शाश्च पञ्चमाश्चैवमन्तस्थाभिश्च संयुताः ॥३७॥दारुपिण्डेन तत्तुल्यं घनबन्धाः प्रकीर्तिताःशक्यं सरव्यं कृच्छ्रं वज्रं राष्ट्र्यत्येतीड्यं सम्राट् ॥३८॥मीढ्वान्तथ्यं वाध्र्यश्वोतापम्लुक्तं विभ्वीरुच्यतेऊष्माणः पञ्चमैर्युक्ता अन्तस्थाभिश्च संयुताः ॥३९॥ऊर्णापिण्डेन तत्तुल्यं श्लथबन्धाः प्रकीर्तिताःअश्नोतु विष्णुर्घृतस्नु अस्मे युष्मे इति स्नुषे ॥४०॥अस्य वामस्याजुष्रन्नश्वस्सम्मिश्ल इत्यपिवकारस्तु नकारेण णकारेण च संयुतःश्लथबन्धस्स विज्ञेयो दुस्पृष्टश्चात्र चोच्यते ॥४१॥विसर्जनीयस्य यदा कपयोः परतः स्थितिःन संहितायां भवतः ऊष्मजातौ परिग्रहे ॥४२॥ऋऌस्वरौ यत्र पूर्वौ ऊष्मसंज्ञे परे स्थितेपूर्वस्वरस्य संभाक् स्यात्स्वरभक्तिः प्रकीर्त्यते ॥४३॥हकारं पञ्चमैर्युक्तं अन्तस्थाभिश्च संयुतम्उरस्यं तं विजानीयात्परं चेत् पृथगुच्चरेत् ॥४४॥प्रथमात्तु हकारो यस्तच्चतुर्थमवाप्यतेस्वतृतीयमवाप्नोति पूर्ववर्णस्तदा हि सः ॥४५॥अनुस्वारस्वराभ्यान्तु संयोगादिर्द्विरुच्यतेऊष्मणः प्रथमौ ज्ञेयौ लात् स्पर्शोरपरस्तथा ॥४६॥ह्रस्वपूर्वौ नङौ द्वित्वमापद्येते स्वरोदयौप्रथमाच्च नकाराद्वा शकारश्छत्वमेव च ॥४७॥ह्रस्वात्तु द्विछकारोऽत्र यो दीर्घादपि दृश्यतेपवमान सह यस्य तनेचाति हायवर्जिताः ॥४८॥नटाभ्यां से परे मध्ये तकारः संप्रजायतेनतयोर्लचवर्गे च सवर्णः स्यात्परस्य तु ॥४९॥पदान्ताः प्रथमा वर्णाः घोषसंज्ञे स्वरे परेस्वतृतीयानवाप्यन्ते पञ्चमे पञ्चमांस्तथा ॥५०॥अपदान्ताः प्रथमा वर्णा ऊष्मसंज्ञे परे स्थितेवर्णा द्वितीया विज्ञेया उच्यन्ते वर्णवेदिभिः ॥५१॥यकाररेफावित्येतौ ऋकारेण च संयुतौ॥ओष्ठौ तत्र न कम्प्येत क्षिप्रमेतत् प्रचक्षते ॥५२॥नादस्तु श्रूयते घोषात् विरामाद्द्वित्वतस्तथाअनासिक्योऽथ नासिक्यो जायते वर्णरूपतः ॥५३॥नीचैस्वरोऽनुदात्तस्स्यादुच्चैश्चोदात्त उच्यतेस्वरितस्तत्समाहारस्तदैक्यं प्रचयः स्मृतः ॥५४॥अनुदात्तो हृदि ज्ञेयो मूर्ध्न्युदात्त उदाहृतःस्वरितः कर्णमूलीयस्सर्वस्मिन् प्रचयः स्मृतः ॥५५॥मध्ये तु कम्पयेत्कम्पं उभौ नीचौ समौ भवेत्द्विगुणं वर्णकालाच्च पादः कम्पार्थमिष्यते ॥५६ ॥अनुदात्तमुपादाय स्वरितं ह्यवलम्बयेत्पुनर्निहतमागछेदेष कम्पविधिः स्मृतः ॥५७॥उदात्तः पूर्वभागस्तु परभागो निहन्यतेउदात्तकम्प इत्युक्तः कुत्रचिच्चापि दृश्यते ॥५८॥स्थानं कालो विकारश्च संवृतं विवृतागमौईषत्स्पृष्टमघोषत्वं स्वरः कम्पस्तथोष्मता ॥५९॥घोषानासिक्यनासिक्याः वर्णधर्मास्त्विमे मताःयावन्तो यत्र ये धर्मास्तावन्तस्तत्र तान् विदुः ॥६०॥चतुर्मात्रश्च षण्मात्रः प्रणवः कीर्त्यते बुधैःपूर्वस्वरः परो नादस्सममात्रः प्रकीर्तितः ॥६१॥अनुदात्तः स्वरो ज्ञेय उदात्तो नाद उच्यतेलक्षणं प्रणवस्येदं प्रणवो ब्रह्म कीर्त्यते ॥६२॥तैलधारामिवाछिन्नं दीर्घघण्टानिनादवत्अवाग्जं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥६३॥त्रिस्थानञ्च त्रिमात्रञ्च त्रिब्रह्मञ्च त्रियक्षरम्त्रिमात्रादर्धमात्रन्तु यस्तं वेद स वेदवित् ॥६४॥वेदो हि वर्णसंघातो वेदो ब्रह्मेति कीर्त्यतेतस्मात्तद्वेदवर्णज्ञो ब्रह्मलोके महीयते ॥६५॥एतत्पुण्यं पापहरं वाङ्मलस्य विशोधनम्भक्त्या ज्ञात्वा च संगृह्य ब्रह्मलोकं स गच्छति ॥६६॥अनेन विधिना वेदं योऽधीते श्रद्धयान्वितः सर्वपापैर्विमुक्तस्सन् ब्रह्मलोके महीयते ॥६७॥ इति शौनक शिक्षा समाप्ता N/A References : N/A Last Updated : August 17, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP