केशवीपद्यात्मिका शिक्षा
शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.
अनुदात्तादुदात्तश्चेत्स्वरितोत्तर एव च
हृच्छिरः कर्णमूलेषु न्यसेद्धस्तमसंशयम्
अनुदात्तादुदात्तश्चेदनुदात्तपरस्तथा
अनुदात्तं हृदि न्यस्योदात्तं वामभ्रुवि न्यसेत्
पुनर्हृदि न्यसेन्नोचमिति शास्त्रव्यवस्थितिः
प्रचितोच्चारणे न्यासो हस्तस्य नासिकाग्रतः
जात्योऽभिनिहितः क्षैप्रः प्रश्लिष्टो व्यञ्जनस्तिरः
तैरोविरामः पादवृत्तस्ताथाभाब्यस्तथाष्टमः
एतेषां लक्षणान्याहुः कात्यायनमुनीश्वराः
तत्र जात्यादिसञ्ज्ञानां चतुर्णां दर्शने करम्
तिर्य्यञ्चङ्गमयेद्धीमान्पितृदान वदेव हि
मनुष्यदान मिव चेदुदात्तः प्रत्ययः स्वरः
आद्यान्तस्थस्य जोच्चारः पदादौ पठितस्य च
उपसर्गपरो यस्तु यस्य छन्दसि नेष्यते
पदस्याद्यन्तमध्ये स्यादृरहैः सँय्युतस्य च
द्विर्भावेऽप्येवमेव स्यादिति कात्यायनश्रुतिः
अन्तस्थानां द्वितीयस्य सैकारोच्चारणं भवेत्
अत्युक्तहल्भिः शषसैऋर्कारेण युतस्य च
एवमेव तृतीयस्य शषसैः सँय्युतस्य च
सैकारोच्चारणं कुर्यादिति शास्त्रव्यवस्थितिः
ऋकारस्य च सँय्युक्तासँयुक्तस्यापि सर्वतः
सैकारोच्चारणं कुर्याल्लकारस्य तथा भवेत्
अथ चान्तस्यान्तस्त्रिविधं गुरुमध्यमलघुवृत्त्योच्चारः
वाक्यस्यादिममध्यान्त्यस्य प्रादिकपरस्य लघ्वेव स्यात्
वो वां वा वै मन्त्रे लघवो गुरवः पदे च विज्ञेयाः
देवो वः सवितादौ मृग्यमुदाहरणमन्येषाम्
असंय्युक्तस्य मूर्द्धन्योष्मणः खोच्चारणं मतम्
दुमृते संय्युक्तस्यापि सस्य योग ष एव हि
छन्दसीत्येव खोच्चारो लोक प्रकृतिरिष्यते
अनुस्वारस्य अंकार आदेशश्छन्दसि स्मृतः
ऊष्मरेफेषु परतस्तस्य त्रैवध्यमुच्यते
हस्वाद्दीर्घाद्दीर्घंह्रस्वो गुरौ च परतो गुरुः
ऋकारपर ऊष्मान्त्ये दीर्घाद्दीर्घोऽपि जायते
परसवर्णे ह्यनुस्वारस्येषत्प्रकृतिरुच्यते
अणुमात्रमनुस्वारो ह्युत्तमं चाणुमात्रकम्
शषसे च कखपफे विसर्गाः सन्ति यत्र च
वाचो विरामः कर्त्तव्यस्तत्रेषच्छ्रुतिचोदनात्
सँय्युक्तस्य पदाद्यस्य चाकारस्य प्रतीयते
ईषद्दीर्घतयोच्चारः कात्यायनमुनेर्गिरा
आस्तिकस्य मुनेर्वंशे जातो दैवज्ञगोकुलः
तत्सुतेन केशवेन् कृता सम्यक् शुभाप्तिनाम्
प्रीत्यर्थं सुधियां कारिकावली निर्म्मला शुभा
इति श्रिमदास्तिकमहर्षिवंशोद्भवज्ञगोकुलचन्द्रसुतदैवज्ञकेशवरामकृता- कारिकावली सम्पूर्णा
N/A
References : N/A
Last Updated : September 20, 2026

TOP