संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा| माण्डूकीशिक्षा शिक्षा चारायणीयशिक्षा जटा शिक्षा नारदीया शिक्षा व्यास शिक्षा शम्भु शिक्षा व्यालि शिक्षा शैशिरीय शिक्षा शौनक शिक्षा आत्रेय शिक्षा आरण्यकशिक्षा केशवीपद्यात्मिका शिक्षा केशवीयशिक्षा श्रीकौण्डिन्यशिक्षा कौंडिन्य शीक्षा कौहलीयशिक्षा क्रमकारिका शिक्षा क्रमसंधान शिक्षा पाराशरीशिक्षा प्रातिशाख्यप्रदीप शिक्षा प्लुत शिक्षा भारद्वाजशिक्षा मनःस्वारशिक्षा माण्डूकीशिक्षा माध्यन्दिनीयशिक्षा योहिप्राप्तिशिक्षा लक्ष्मीकान्तशिक्षा लक्ष्मीकान्त शिक्षा लघुमाध्यन्दिनीयशिक्षा लघ्वमोघानन्दिनीशिक्षा लघ्वमोघानन्दिनीशिक्षा वररुचिशिक्षा वर्ण शिक्षा वेदपरिभाषाकारिका शिक्षा व्याळशिक्षा शमानशिक्षा षोडशश्लोकी शिक्षा सिद्धान्तशिक्षा स्वरभक्तिलक्षण शिक्षा स्वरशिक्षा स्वराङ्कुशशिक्षा हयग्रीवी शिक्षा माण्डूकीशिक्षा शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे. Tags : sanskritshikshaशिक्षासंस्कृत माण्डूकीशिक्षा Translation - भाषांतर अथर्ववेदीया माण्डूकी शिक्षातिस्रो वृत्तयोऽनुक्रान्ता द्रुतमध्यमविलम्बिताःयथानुपूर्वं प्रथमा द्रुता वृत्तिः प्रशस्यते मध्यमैकान्तरावृत्तिर्द्व्यन्तरा हि विलम्बितानैनां बुधः प्रयुञ्जीत यदीच्छेद्वर्णसम्पदाम् अभ्यासार्थे द्रुता वृत्तिरुपलब्धौ विलम्बितामध्यमा तु प्रयोगार्थे न तद्वचनमन्यथा ऐन्द्री तु मध्यमा वृत्तिः प्राजापत्या विलम्बिताअग्निमारुतयोर्वृत्तिः सर्वशास्त्रेषु निन्दिता दोषाप्रकाशस्तु विलम्बितायां वर्णा द्रुतायां न तु सूपलक्षाःतस्माद्द्रुतां चैव विलम्बितां च त्त्यक्त्वा नरो मध्यमया प्रयुञ्ज्यात् सर्वा एव तु निर्दोषा वृत्तयः समुदाहृताःखद्योतस्य सुवक्त्रस्य शिक्षकस्य विशेषतः सप्तस्वरास्तु गीयन्ते सामभिः सामगैर्बुधैःचत्वार एव छन्दोभ्यस्त्रयस्तत्र विवर्जिताः षडजऋषभगान्धारो मध्यमः पञ्चमस्तथाधैवतश्च निषादश्च स्वराः सप्तेह सामसु षडजे वदति मयूरो गावो रम्भन्ति चर्षभेअजा वदति गान्धारे क्रौञ्चनादस्तु मध्यमे पुष्पसाधारणे काले कोकिलः पञ्चमे स्वरेअश्वस्तु धैवते प्राह कुञ्जरस्तु निषादवान् नासिकायास्तु गान्धारः उरसो मध्यमस्तथा उरः शिरोभ्यां कण्ठाच्चपञ्चमः स्वर उच्यतेधैवतस्तु ललाटाद्यैः निषादः सवरूपवान् मद्मपत्रप्रभः षड्ज ऋषभः शुकपिञ्जरःकनकाभस्तु गान्धारो मध्यमः कुन्दसप्रभः पञ्चमस्तु भवेत्कृष्णः पीतवर्णस्तु धैवतःनिषादः सर्ववर्णाभः इत्येते स्वरवर्णकाः ब्रह्माङ्गष्ठं तु क्रुष्टं स्यादङ्गुष्ठे मध्यमः स्वरःप्रादेशिन्यां तु गान्धारो मध्यमायां तु पञ्चमः अनामिकायां षड्जस्तु कनिष्ठायान्तु धैवतःतस्याधस्तात्तु योऽन्त्यः स्यान्निषाद इति तं विदुः प्रथमावन्तिमौ चैव वर्तन्ते छन्दसि स्वराःचयो मध्या निवर्तन्ते पण्डूकस्य मतं यथा द्वितीयं स्वरितं प्राहुः षष्ठः प्रचित उच्यतेउच्चं विद्यान्निषादन्तु नीचं षड्जमुदाहृतम् उदात्तश्चानुदात्तश्च स्वरितः प्रचितस्तथाचतुर्विधःस्वरोदृष्टः स्वरचिन्ताविशारदैः स्वरे ज्ञात्वा यथा स्थानम् हस्तस्य स्पन्दनं स्मृतम्निष्कृष्य हस्तं विन्यस्तं पाणौ दृष्टिं निवेशयेत् किञ्चिद्यो नभसः स्वांसाद् बाहुंदृष्टिं निपातयेत्प्रसार्य चाङ्गुलीः सर्वाश्चालयेत् करमण्डलम् न चाङ्गुलीभिरङ्गुष्ठमुपेयाद्दोषवित्ततःऊर्ध्वमापुस्तमाकुञ्चमङ्गुष्ठं स्थापयेद् बुधः नाधः शिरस्ताद्दामे वा नाङ्गुल्यः प्रतराः स्मृताःउत्तानं सोन्नतं किञ्चित्सुव्यक्ताङ्गुलिरञ्जितम् स्वरचिह्नंकरं कुर्यात्प्रादेशोद्देशगामिनम्अंगुष्ठस्योत्तरे पूर्वे यस्योपरि यद्भवेत् प्रादेशस्तु तद्देशस्तन्मात्रं चालयेत्करम्चुलुनौ वा स्फुटी दण्डी स्वस्तिका मुष्टिकाकृतिः एते वै हस्तदोषाः स्युः परशुछेदस्तु सप्तमःकूर्मोऽङ्गानीव संहृत्य चेष्टां दृष्टिं दृढं मनः न कम्पयेच्छिरः पादौ मुखदोषाँश्च वर्जयेत्नासिकायास्तु पूर्वेण हस्तं सञ्चालयेद् बुधः सूक्ष्मान्वर्णान्नुच्चरेद्वै दक्षिणं श्रवणं प्रतिश्रुतिं वाचोऽनुगाङ्कृत्वा वाचं कृत्वा मनोऽनुगाम् दृष्टिं हस्तानुगां कृत्वा ततः पदमिवोच्चरेत्यथा पाणी तथा वाणी रिक्तुं तु परिवर्जयेत् यत्रैव तु स्थिता पाणी पाणिस्तत्रैव धार्यतेस्वरश्चैव च हस्तश्च द्वावेतौ युगपद्भवेत् हस्ताद्भ्रष्टः स्वराद्भ्रष्टो न वेदफलमश्नुतेहस्तहीनतु योऽधीते स्वरवर्णविवर्जितम् ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छतिऋग्यजुःसामगादीनि हस्तहीनानि यः पठेत् अनृतो ब्राह्मणस्तावद्यावत्स्वारं न विन्दतिहस्तेनाधीयमानो यः स्वरवर्णान्प्रयोजयेत् ऋग्यजुःसामभिः पूतो ब्रह्मलोकं स गच्छतिस्वरात्स्वरं सङ्कमते स्वरसन्धिमनुल्बणम् अविच्छिन्नं समं कुर्यात्सूक्ष्मांछायां तथोपमम्अक्षरज्ञो विरामज्ञः प्रत्यारम्भं तथैव च स्वरमात्रा विभागस्तु स विप्रो वक्तुमर्हतिआम्रपालाशबिल्वानामपामार्गशिरीषयोः खदिरस्य करञ्जस्य कदम्बस्य च क्षीरिणःअर्कस्य करवीरस्य कुटजस्य विशेषतः वाग्यतः प्रातरुत्त्थाय भक्षयेद्दन्तधावनम्तेनास्यकरणं सूक्ष्मं माधुर्यं चोपजायते न चास्य वदतो दोषात्कञ्चिदप्युपलक्षयेत्नात्युच्चैः नाति वा नीचैर्दोषेण सवनस्य खम् प्रयुञ्ज्यान्नातितीक्ष्णेन कण्ठेन सृदुनादिनाप्रातर्वदेन्नित्यमुरः स्थितेन स्वरेण शार्दूलरुतोपमेनमाध्यन्दिने कण्ठगतेन चैव चकाह्वसंकूजितसन्निभेन तारं तु विद्यात्सवनं तृतीयं शिखण्डिना तच्च सदा प्रयोज्यम्मयूरहंसादिमृदुस्वराणां तुल्येन नादेन शिरःसुखेन यथा व्याघ्रो हरेत्पुत्रान्दंष्ट्राभिर्न च पीडयेत्भीता पतनभेदाभ्यां तद्वद्वर्णान् प्रयोजयेत् एवं वर्णाः प्रयोक्तव्याः न मुक्ता न च पीडयेत्सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते शनैरध्वसु वक्रेण न परं योजनाद् व्रजेत्नहि पार्ष्णिहिता वाणी प्रयोगान्वक्तुमर्हति मान्ते मुष्ट्याकृतिङ्कुर्यात् तकारान्ते विलोपयेत्नखस्य दक्षिणे पार्श्वे नकारान्ते प्रयोजयेत् कष्टान्तयोस्तु कर्त्तव्यमङ्गुल्यग्रप्रकुञ्चनम्ङणनान्तं तथैव स्यान्मान्ते त्वङ्गुलिपीडनम् ऊर्ध्वक्षेपाच्च या मात्रा अधःक्षेपापि या भवेत्एकैकामुत्सृजेद्धीरः प्रचिते तूभयं तथा ह्रस्वानुस्वारकरणे त्वङ्गुल्याश्च प्रकुञ्चनम्दीर्घे तु सूरयः प्राहुः देशिन्याः सुप्रसारणम् पदान्तरं न कुर्वीत संहितायां प्रयोगवित्नैवमांसं विजानीयात् मांसे मांसं विनिर्दिशेत् यथा नौः स्रोतसां मध्ये समं गच्छति संयुतातैलधारेण वा वाणी तद्वद्वर्णान्प्रयोजयेत् उदात्ताच्च न कर्त्तव्यमुदात्तं स्वरितन्तथानीचान्नीचतरन्नास्ति उच्चादुच्चं न विद्यते उच्चादुच्चतरन्नास्ति नीचान्नीचतरङ्कुतःस्वरितात् स्वरितन्नास्ति कम्पिताच्चैव कम्पितम् यदुदात्तमुदात्त तद्यत्स्वरितन्तत्पदे भवति नीचम्यन्नीचं नीचमेव तद्यत्प्रचयस्थं तदपि नीचम् अनुदातमनुदात्तमनह्लादमुदात्तानामताडनम्अनुदात्तमनाधिष्ठम् शषसानामरोमशम् षड्धातु स्वरितादेव ह्यनुदात्तश्च चतुर्विधःद्विविधश्चानुदात्तश्च ह्येतच्छास्त्रेण चोदितम् स्वरितप्रभवं प्रचितात्स्वरितमेव उदात्तं वाअनुदात्तमेव तं विद्यादृतं च तद्विद्धि यत्प्रचितम् स्वरितात्पराणी यानि स्युरनुदात्तान्युदात्तवत्सर्वाणि प्रचयं यान्ति ह्युपोदात्तं न विद्यते स्वरितावधृत उदात्ते परस्त्रिपूर्वो विक्रमोच्यतेस्वरितावधृत उदात्ते पादः स्यात्स हि विक्रमः ननु धारयेत् वृत्तमुपस्पर्शमुपोदात्तं निपातयेत्एकाक्षरे धारयेन्न च धृतमुच्चारयेत् स्वरे वापि न्यासभेवादितः कुर्यात् नियतेषु बहुष्वपिशेषमाद्यवदुक्ता तु तत्पदेषु समेषु च स्वरः उच्चः स्वरो नीचः स्वरः स्वरित उच्यतेव्यञ्जनान्यनु वर्त्तन्ते यत्रासौ तिष्ठति स्वरः स्वरः उच्चः स्वरो नीचः स्वरः स्वरित एव तुस्वरः प्रधानं त्रैस्वर्य्यमाहुरक्षरचिन्तकाः द्वयोस्तु स्वरयोः सन्धावेको भावो यदा भवेत्उदात्तोऽप्यनुदात्तस्य वशं गच्छति सन्धिषु दुर्बलस्य यथा राष्ट्रं हरते बलवान् नृपःस्वरो व्यञ्जनमासाद्य हरते नात्र संशयः आख्यानानां प्रयोगेषु पूर्वस्वरमुपस्थितम्षोडशाक्षरमर्यादं यद्योगे स्वरमुद्धरेत् नीचं तु स्वरपूर्वं तु नीचावग्रहमेव चहन्तव्यन्तद्विजानीयाद् उच्चावग्रहवर्जितम् नाभिहन्यान्न निर्हन्यान्न प्रगायेन्न कम्पयेत्एतौ द्वौ युगपत्साध्यावेतच्छास्त्रेण चोदितम् अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथाजिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च वर्णानां तु प्रयोगेषु करणम् स्याच्चतुर्विधम्संवृतं विवृतञ्चैव स्पृष्टमस्पृष्टमेव च स्पर्शानां करणं स्पृष्टमन्तस्थानामतोऽन्यथायमानां स्वरितं प्राहुर्विवृतं च विरोष्मणाम् सप्त स्वरान् प्रवक्ष्यामि तेषां चैव बलाबलम्लक्षणानि च सर्वेषां युक्तास्तानि निबोध मे अभिनिहितः प्राश्लिष्टः जात्यः क्षैप्रश्च पादवृत्तश्चतैरोव्यञ्जनः षष्ठस्तिरोविरामश्च सप्तमः ए ओ अभ्यासमुदात्ताभ्यामकारो रेफितश्च यःअकारं यत्र लुम्पन्ति तमभिनिहितं विदुः इकारं यत्र पश्येयुः इकारेणैव संयुतम्उदात्तोऽप्यनुदात्तस्य प्राश्लिष्टोऽभीन्वतामपि सयकारं सधंवाप्यक्षरं स्वरितं भवेत्न चोदात्तं पुरस्तस्य जात्यः स्वर्दूत्य एव तु इउवर्णौ यदोदात्तावापद्येते यवौ क्वचित्अनुदात्ते प्रत्यये नित्यं विद्धि क्षैप्रस्थ लक्षणम् स्वरिते स्वरितं यत्र विवृत्यां यत्र संहितातं पादवृत्तं जानीयात्ते त्वस्मिन्यवमादधुः उदात्तपूर्वे सार्द्धे तु द्वितीये अक्षरे तु यःतैरोव्यञ्जन इत्येष सारः स्याद्दधिमध्विति अवग्रहात्परं यत्र स्वरितम् स्यादनन्तरम्तिरोविरामं जानीयात्प्रजापतिर्निदर्शनम् द्वयोरुदात्तयोर्मध्ये नीचोऽस्ति यदवग्रहःतथा भाव्यो भवेत्कम्पस्तनूनामान्निदर्शनम् तथा माव्यस्तु तालव्यो न कम्पः स्वरसंज्ञकःस तालव्यो भवेत्कम्पः एजतौति निदर्शनम् मर्वतीक्ष्णोऽभिनिहितस्ततः प्राश्लिष्ट उच्यतेततो मृदुतरौ चैव जात्यः क्षैप्रश्च तावुभौ ततो मृदुतरः स्वारस्तैरो व्यञ्जन उच्यतेपादवृतो मृदुतर इति स्वारबलाबलम् उपन्यासस्तु कर्त्तव्यः कण्ठे निक्षेपसंज्ञकःउपन्यासात्परं हन्याद् भूमौ शङ्कुपदम् यथा प्राश्लिष्टजात्यक्षैप्राश्च यश्चाभिनिहितश्च यःउदात्तोपस्थिते तेषामेकदेशः प्रकल्पयेत् हलन्तादुत्तरो यस्तु पदादवग्रहेषु चयस्य स्वस्माद्य इत्येषो योन्यः स य इति स्मृतः पादादौ च पदादौ च संयोगावग्रहेषु चयः शब्द इति विज्ञेयो योन्यः स य इति स्मृतः पुनरन्तश्च सवितश्च प्रातर्वा रिफिता च संहिता यत्ररेफान्ति पदान्यस्य स्याद्वैतद्रिफितं पदम् अन्तः शब्दस्तु यः कश्चित् आद्युदात्तो भवेद्यदिन तत्र रेफमिच्छन्ति संहितायां पदेषु च अनुस्वारं हि दोपस्तु हकारादिषु वर्जितःअंहो मुचो वातरंहा दंहश्चेति निदर्शनम् अनुस्वारश्च कर्त्तव्या ह्रस्वदीर्घप्लुतास्त्रयःअयं राजा यशोर्मासं क्षत्रियाणां धनूंषी च विवृत्तयश्च विज्ञेयाश्चतस्रस्त्वनुपूर्वशःनामभिस्तु पृथगक्षे यास्तासां वक्ष्यामि लक्षणम् पिपीलिका पाकवती तथा वत्सानुसारिणीअनुसृतवत्सा चैव चतस्रो हि विवृत्तयः वत्सानुसृता ह्रस्वा जघने वत्सानुसारिणी चाग्रेपाकवती चोभयतः पिपीलिकमध्याप्युभयदीर्घा पूर्वह्नस्वपरं दीर्घमक्षरं यत्र दृश्यतेसा वत्सानुसृता ज्ञेया व्यत्यामेत्यनुसारिणी उभाभ्यामेव ह्रस्वाभ्यां यवमध्या विनिर्द्दिशेत्ताभ्यामेव तु दीर्घाभ्यां विज्ञेया सा पिपीलिका अस्त्रमध्ये यथा विद्युद्दृश्यते मणिसूत्रवत्एषच्छेदो विवृत्तीनां यथा बालेषु कर्त्तरी आपद्यते मकारो यखोष्मसु प्रत्ययेष्वनुस्वारम्न भवति लकारे परसवर्णस्पर्शेषुचोत्तमापत्तिः उष्मस्थौ यत्र दृश्येते स्वरस्ववर्णौ ध्यौरोदयौऋ ऌ वर्णौ तथा ज्ञेयौ स्वरभक्तीति संस्थितौ तां ह्रस्वां प्रतिजानीयाद्यथा मात्रा भवेद्यदिसम्यगेनां विजानीयाद् द्वौ दौषो परिवर्जयेत् सम्यगेनां यदा पश्येच्छतवलिशेति निदर्शनम्अकारं चाप्युकारं च विच्छिन्नं विवृतं तथा करिणीं कुर्विणीं चैव हारिणीं लहकारयोःहरिणीं ऋषयोर्वद्याद्धारितां लशकारयोः या तु हंसपदा नाम सा तु रेफसकारयोःया तु रेफशकारौ स्यात् काकिनीं तां विनिर्दिशेत् ऋकारप्रत्यये रेफः संयुक्तः शषसैः सहआद्यस्तत्र क्रमो ज्ञेयो न परो वोधितो बुधैः रेफोष्मणां संयोगे स्वरभक्तिरक्रमश्चैवतत्रोदाहरणानां प्रदर्शनम् वर्षो बर्हिश्च रेफं स्वरोदये विद्यादृकारं व्यञ्जनोदयेस्वरव्यञ्जनयोर्मध्ये रेफमेव विनिर्द्दिशेत् ओभावश्च विवृतिश्च शषसा रेफ एव वजिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः षत्वणत्त्वमुपाचारो दीर्घीभावस्तथैव चयस्मिन् पदे निपद्यन्ते तत्समासाद्य लक्षणम् यद्योभावप्रसन्धानमुकारादिपरं पदम्स्वरान्तं तादृशं विद्याद्यदन्यद्व्यक्तमूष्मणः दारुसंघातवत्श्लिष्टं संयोगवशवर्त्तिनाम्वर्णानां युगसम्पन्नमेकं वर्णमिवोत्सृजेत् वर्णा विंशनकारान्ते पदे पूर्वे स्वरे च परसंस्थितेरक्तं वर्ण विजानीयान्न ग्रसेत्पूर्वमक्षरम् रक्तं वर्णं यदा पश्पेद्विवृत्त्या सह संस्थितम्व्यञ्जनान्तं विजानीयाद् गोमाँ इति निदर्शनम् यथा सौराष्ट्रिका नारी अराँ इत्यभिभाषतेएवं रङ्गाः प्रयोक्तव्याङकारपरिवर्जिताः नासादुत्पद्यते रङ्गः कंसेन समनिस्वनःमृदुं चैव द्विमात्रं स्याद्वृष्टिमाँ इति निदर्शनम् संयुक्तस्य तु यत्पूर्वं तद्ध्रस्वं लघु विजानीयात्तत्संयोगोत्तरं विद्यात् कुर्वन्त्यत्र नियोगतः मात्रैकं लघु विज्ञेयं तत्संयोगपरं गुरुम्स परं व्यञ्जनान्तं च दीर्घस्तु प्लुत एव च स्पर्शानामुत्तमैः स्पर्शैःसंयोगाच्चेदनुक्रमात्आनुपूर्व्या यमांस्तत्र जानीयाच्चतुरस्तथा रुक्वमेति प्रथमं विद्यान्नृचक्षेत्यपरं विदुःतृतीयं पद्ममित्याहुः शङ्खघ्नमिति चोत्तमम् वर्गान्ता यत्र दृश्यन्ते शषसैः सह संयुताःयमास्तत्र निवर्त्तन्ते श्मशानादिव बान्धवाः संयोगस्य परं स्वार्थं परं संयोगनायकम्संयुक्तस्य तु वर्णस्य न स्वरं पूर्वमिष्यते स्वरणं पतनं चैव वोत्त्थानेषु समेषु चएकमेव पदे दृष्टं न पूर्वाङ्के क्वचिद् भवेत् वर्णा विंशतिरेकश्च येषां द्विर्भाव इष्यतेप्रथमा मध्यमा चान्त्या यलवाः शषसास्तथा न रेफे वा हकारे वा द्विर्भावो ज्ञायते क्वचित्न च वर्गद्वितीयेषु न चतुर्थे कदा चन चतुर्थं तु तृतीयेन द्वितीयं प्रथमेन न तुआद्यमन्त्यं तृतीयं च स्वाक्षरेणैव पीडयेत् दृप्सौऽप्सरायामशब्दे विश्वप्स्यनात्र विरपशिनेकाश्यपोऽभिनिघातानामागमं प्रतिषेधनात् यत्र चोभयतः स्पर्शाः संयुक्ताः शषसैः सहआद्यस्तत्र क्रमो ज्ञेयो न परो बोधितो बुधैः ऋवर्णरेफसंयुक्तं स्वरितं स्यादनन्तरम्ऋकाररेफसंयुक्तं यत्पूर्वं व्यञ्जनोदयेत् ऋकारे लघु तद्विद्याद्रेफे तद्गुरुसञ्ज्ञकम्ऋकाररेफसंयुक्तं पत्पूर्वं व्यञ्जनोदयेत् शृकारे लघु तद्विद्याद्रेफे तद्गुरुसञ्ज्ञकम्न क्रमते स्वरयमयोर्न च वर्गसवर्णयोर्न च विरामे न च रेफानुस्वारे विसर्जनीये तु सर्वत्रब्रुवन् भ्रुवौ कर्णललाटनासिका न कम्पयेदोष्ठचलुर्ननिर्भुजेत्मुखं न विक्लिश्य न नग्नवत्क्रमो न चापि सन्दृष्टिहनुर्न वाह्यवाक् न रूक्षवाक्स्यान्न च उत्स्वरं वदेन्न चानिमेषो न च गर्वमाचरेत्गजव्यवेषी बलवानतन्द्रितो व्यपेत रोषश्रमशोकहर्षभीः न चानुक्रूजत्पदमादितो बुवन्न नासिका नित्यमनुष्ठितं वदेत्न चापदान्ते श्रमपीडितः श्वसेन्नचोच्छवसेदुक्तपदोप्यभीक्ष्णशः नातिनिष्पीडयेद्वर्णान् न चाव्यक्तानुदाहरेत्समान् श्लक्ष्णानसन्दिग्धान्वर्णानुच्चारयेद् बुधः प्रथमानुत्पतन्मन्त्रान्द्वितीयानिव दर्शयेत्तथैतान्प्रतिजानीयाद्यथा मत्यानक्षरोऽप्पसरान् तथैव पञ्चमानाहुरागमो यत्र दृश्यतेद्वितीयानेव तान्कुर्याद्यस्मिन्सीतेति निदर्शनम् अक्ष्णोर्निमेषमात्रेण यो वर्णः समुदीर्यतेस एकमात्रो द्विस्तावान्दीर्घस्तु प्लुत उच्यते अवग्रहेऽर्द्धमात्रं स्मात् कालो मात्रा पदान्तरेअर्द्धर्चे द्वे तथा पादे त्रिमात्रं स्यादृगन्तरम् चाषस्तु वदते मात्रं द्विमात्रं वायसोऽब्रवीत्शिखी त्रिमात्रं विज्ञेय एष मात्रापरिग्रिहः क्वचित्पादविभागेन क्वचिदर्द्धं क्वचित्पदेक्वचिदर्थे क्वचिच्छब्दे विरामः पञ्चधा स्मृतः छन्दस्येते प्रयुज्यन्ते क्रमेण क्षेपसञ्ज्ञकाःसविरामं प्रयोक्तव्या येन वृत्तिर्न विद्यते मञ्ज्ञाने भूयसीं दोषान्प्रवक्ष्यामि निबोधतस्वरस्य सन्दर्शनञ्च ह्यनुस्वारयमावपि विच्छिन्नत्त्वं विक्षणत्त्वं सुशीमं सोममल्पकईकारेणावगृह्णीयात् प्रतिशुक्लेति पञ्चमम् विश्वानामुपसन्देहे अर्द्धर्चं स्यान्नपुंसकम्पुरस्तादुपरिष्टाद्वा सर्वे विश्वा निरूष्मकाः नकारान्ते पदे पूर्वं स्वरे च परसंस्थितेह्रस्वो मात्रः प्रयोक्तव्यः शषसप्रत्ययेषु च द्वौ तकारौ थकारौ च यमो नेति च पञ्चमःकृत्स्ना इति च संयोगमाहुरक्षरचिन्तकाः ककारान्ते पदे पूर्वे ङकारे प्रत्यये परेङकारस्यागमं कुर्याद्वाङ्क्म इति निदर्शनम् टकारान्ते पदे पूर्वे णकारे प्रत्यये परेणकारस्यागमं कुर्याद्वण्महाँ इति निदर्शनम् तकारान्ते पदे पूर्वे नकारे प्रत्यये परेनकारस्यागमं कुर्याद् यन्न इति निदर्शनम् मकारान्ते पदे पूर्वे मकारे प्रत्यये परेमकारस्यागमं कुर्यात्तन्नष्टुम्प इति निदर्शनम् अन्त्यं कटतपं दृष्ट्वा परं ङमणनमं तथाआत्मपञ्चमसंयोगमाहुरक्षरचिन्तकाः आम्नायात् प्रपदो भवति प्रपदो भवति निर्भयःनिर्भयो मधुरो भवति माधुर्यात्सिद्धिमाप्नुयात् आम्नायकरणं श्रेष्ठं वर्णानां चावधारणम्अप्रमत्तश्च स्वार्येत एतदाचार्यशासनम् आम्नायशास्त्रसम्पन्नं शास्त्रमाम्नायसारवित्पयः शङ्खे यथा तद्विच्छिरश्छन्दसिसारिथः दन्त्योष्ठ्यकरणं सूक्ष्मम् माधुर्यं तरूणं वचःस्वभावं शिक्षकस्याहुरन्यद्गुरुकृतं भवेत् तरुणं शिक्षकं प्राहुर्वृद्धमक्षरचिन्तकम्नैयायिकं परश्रुतं बहुधा भवन्ति याचकम् न करालो न लम्बोष्ठो न च सर्वानुनासिकःगद्गदो बद्धजिह्वश्चप्रयोगान्वक्तुमर्हति प्रकृतिर्यस्य कल्याणी दन्तोष्ठौ यस्य शौभनौअधीतं येन तत्त्वेन स शिक्षां पारयिष्यति आगमैरधिकाः केचिद्विज्ञानैरपरेऽधिकाःप्रयोगसौष्ठवादन्ये नाहमस्मीति विस्मयः सुतीर्थादागतं जग्धं स्वाम्नातं सुव्यवस्थितम्सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्म राजते कुतीर्थादागतं दग्धमपवर्णेश्च भक्षितम्न तस्य परिमोक्षोऽस्ति पापाहेरिव किल्विषात् येषां तीर्थागता विद्या नित्यमभ्यासवर्जिताते भवन्ति दुराधर्षाः संसिद्धा इव पर्वताः न भोजनविलम्बी स्यान्न च स्यात् स्त्रीनिबन्धनःस इरमपिविद्यार्थी व्रजेद् गरुङहंसवत् हयानामिव ज्यात्यानामहोरात्रार्द्धशायिनाम्न विशेषार्थिनां निद्रा चिरं नेत्रेषु तिष्ठति अहेरिव जनाद्भीतः स्त्रीभ्यश्च नरकादिवमिष्टाच्च विषवद्भीतः स विद्यां पारयिष्यति सहस्रगुणिता विद्या शतशः परिवर्जिताआगमिष्यति जिह्वाग्रे स्थलान्निम्नमिवोदकम् शतेन गुणिता भवति सहस्रेण तु धारिताशतानां तु सहस्रेण प्रेत्य चेह च तिष्ठति उपांशु त्वरितं चैव योऽधीतेऽत्रसन्निवअपि रूपसहस्रेषु संशयेष्वेव वर्तते येषां च न ग्रहणशक्तिरतिप्रचण्डालब्ध्वा च ये न शतशः परिवर्त्तयन्तिनिद्रां च ये प्रियसखीमिव न त्वजन्तिते तादृशा गुरुकुलेषु जरां व्रजन्ति पञ्च विद्यां न गृह्णन्ति लुब्धाश्चण्डाश्च ये नराःअलसाश्चामरोगाश्च येषां च विकृतं मनः ऊर्द्ध्वं सहस्रादाम्नातं सततं चान्ववेक्षणम्आप्तैस्तु सह मम्पाठस्त्रिविधा धारणा स्मृता यथा खनन् खनित्रेण भूतले वारि विन्दतिएवं गुरुगतां विद्यां शुश्रूषुरधिगच्छति योजनानां सहस्रं तु शनैर्याति पिपीलिकाअगच्छन्वैनतेयोऽपि पदमेकं न गच्छति पदेनैकेन मेधावी पदानां विन्दते शतम्मूर्खः पदसहस्रेण पदमेकं न विन्दति पदं पादं तथार्द्धर्चं सेवितव्यं प्रयत्नतःअप्राज्ञः प्राज्ञतां याति सरिद्भिः सागरो यथा अनिर्वेदी श्रियोमूलं लोहबद्धं कमण्डलुम्अहोरात्राणि दीर्घाणि कः समुद्रं न शोषयेत् जलमभ्यासयोगेन शैलानां कुरुते क्षयम्कर्कशानां मुदुस्पर्शं किमभ्यासो न साधयेत् आचार्याः सममिच्छन्ति पदच्छेदन्तु पण्डिताःस्त्रियो मधुरमिच्छन्ति विक्रुष्टमितरे जनाः आचार्योपासनाद्योगात् तपसा प्राज्ञसेवनात्विगृह्य कथनात्कामाद् षड्भिर्विद्या प्रपद्यते आलस्यान्मूर्खसंयोगाद् भयाद्रोगनिपीडनात्अत्याशक्त्या च मानाच्च षड्भिर्विद्या विनश्यति मण्डूकेन कृतां शिक्षां विदुषां बुद्धिदीपिनीम्यो हि तत्त्वेन जानाति ब्रह्मलोकं स गच्छति इत्यथर्वणवेदीया माण्डूकीशिक्षा समाप्ता N/A References : N/A Last Updated : September 20, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP