संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा| स्वरभक्तिलक्षण शिक्षा शिक्षा चारायणीयशिक्षा जटा शिक्षा नारदीया शिक्षा व्यास शिक्षा शम्भु शिक्षा व्यालि शिक्षा शैशिरीय शिक्षा शौनक शिक्षा आत्रेय शिक्षा आरण्यकशिक्षा केशवीपद्यात्मिका शिक्षा केशवीयशिक्षा श्रीकौण्डिन्यशिक्षा कौंडिन्य शीक्षा कौहलीयशिक्षा क्रमकारिका शिक्षा क्रमसंधान शिक्षा पाराशरीशिक्षा प्रातिशाख्यप्रदीप शिक्षा प्लुत शिक्षा भारद्वाजशिक्षा मनःस्वारशिक्षा माण्डूकीशिक्षा माध्यन्दिनीयशिक्षा योहिप्राप्तिशिक्षा लक्ष्मीकान्तशिक्षा लक्ष्मीकान्त शिक्षा लघुमाध्यन्दिनीयशिक्षा लघ्वमोघानन्दिनीशिक्षा लघ्वमोघानन्दिनीशिक्षा वररुचिशिक्षा वर्ण शिक्षा वेदपरिभाषाकारिका शिक्षा व्याळशिक्षा शमानशिक्षा षोडशश्लोकी शिक्षा सिद्धान्तशिक्षा स्वरभक्तिलक्षण शिक्षा स्वरशिक्षा स्वराङ्कुशशिक्षा हयग्रीवी शिक्षा स्वरभक्तिलक्षण शिक्षा शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे. Tags : sanskritshikshaशिक्षासंस्कृत स्वरभक्तिलक्षणपरिशिष्टा शिक्षा Translation - भाषांतर अथातः सम्प्रवक्ष्यामि सर्वलक्षणलक्षिताम्शिक्षां समासतस्तत्र स्वरांस्त्वष्टौ प्रकीर्त्तिताः तैरोविरामः क्षैप्रश्च तैरोव्यञ्जकस्तथाभाव्योऽभिनिहितो जात्यः पादवृत्तश्च सप्तमः प्रश्लिष्ट इति विज्ञेयाः प्रोच्यन्ते लक्षणान्यथअवग्रह उदात्तश्चेत्स्वरितः स्यात्ततः परम् अवग्रहात्पदं यस्तु तं विद्यात्प्रथमं स्वरम्लक्ष्यमस्य तु विज्ञेयं गोपताविति गो । पतौ इकारोकारयोः स्थाने यवौ स्यातामुदात्तयोःअनुदात्ते पदे नित्यं स क्षिप्र इति कीर्त्तितः त्र्यम्बकं द्व्रन्न इत्यादि लक्ष्यं ज्ञेयं विचक्षणैःस्वरितं छन्दसि पदं यत्किञ्चिदपि दृश्यते उदात्तपूर्वं तत्सर्व्वन्तैरोव्यञ्जन उच्यतेइडेरन्ते तथा हव्ये काम्ये इत्यादि दर्शनम् अकार एकोदात्तेन रेफेणापहृतो भवेत्तञ्चा भिनिहितं प्राहुः कुक्कुटोऽसि निदर्शनम् विवृत्त्या दृश्यते यत्र स्वरं च स्वरितं पदेस स्वरः पादवृत्तः स्यात्पुत्र ईधे निदर्शनम् यत्रोदात्त इकारो हि निपातैकारसँय्युतःस प्रश्लिष्ट इति ज्ञेयोऽभीममित्यादि दर्शनम् सादौ पदे परे पूर्वं ककारान्ते पदे स्थितेकसवर्णं तु विज्ञेयं भिषक्सीसेन दर्शनम् चकारान्ते पदे तान्ते पूर्वं च समवस्थितेप्रत्यारम्भो न तत्र स्याद्यच्चाहमिति दर्शनम् सादौ पदे परे पूर्वं ङकारान्ते पदे सतिकसवर्णद्वयं तत्र प्राङ्क्सोम इति दर्शनम् सादौ पदे परे नान्ते पूर्वे च समविस्थितेतसवर्णं विजानीयात्त्रीन्त्समुद्द्रान्निदर्शनम् मादौ पदे परे मान्ते पूर्वमुच्चारिते सतिमसवर्णन्तु तत्र स्यादिमम्म इति दर्शनम् पदमध्ये पदाद्यन्त ऋहरेफैश्च संयुतेयकारे जं विजानीयाद्युञ्जानेत्यादिकं यथा टवर्गमन्तरा षस्य खोच्चारम्छन्दसीरितःप्रत्युदाहरणं पृष्टो दिवीषे त्त्वा निदर्शनम् ऊष्मोर्ध्वरेफस्योच्चारः सैकारो हल्युतो न चेत्पितॄणामिह पित्रेणामित्यादि च निदर्शनम् अं कारः स्यादनुस्वारस्थाने शलि च रे परेह्रस्वाद्दीर्घो भवेद्दीर्घाद्ध्रस्वो गुरुरथो मतः सँय्योगे परतो हंस इत्यादि निदर्शनम्ताँ सवितुरित्यादि दँष्ट्रेत्यादिकं तथा ह्रस्वदीर्घगुरूच्चारः कर्त्तव्योऽत्र यथाक्रमम्शल् रेफयोरभावेन सिंही प्रत्युदाहृतिः शरेः परे या नु दिती द्विर्भवेद्रेफभागिनाम्विसर्गाच्च परे यां ऋकारहीनां निदर्शनम् अस्कन्नमद्य कस्याश्चित्कृष्णोऽस्या इति च क्रमात्सूर्यस्त्वाद्यौष्पिता चाथ दधात्वस्मानिति क्रमात् बृहन्तः प्रस्तरेष्ट्ठेति पुनः क्क्रत्वे निदर्शनम्पाणिनीयस्य सूत्राभ्यां द्वित्त्वं सर्वत्र कीर्त्तितम् यवयोः परयोः सस्य द्वित्त्वं न स्यात्तु छन्दसिव्वसवस्त्वा धूपयन्तु तस्य योनिं यथायथम् हल्युक्त ऋकारस्तु रेकारश्छन्दसि स्मृतःपितणामिति पित्रेणामित्यादि च निदर्शनम् ह्रस्वं दीर्घं भवेत्किञ्चित्संहिताविषये स्वकेहल्विसर्गयुते वर्णा हल्युतायुतके च न सपक्त्नान्यद्ध्वमग्घ्न्येति किञ्चिद्दीर्घो भवेदिहभागम्प्रजावतीत्यादौ ह्रस्वता न तु दीर्घता हल्युताकारसँय्योगादिति ज्ञेयं विचक्षणैःइति कात्यायनपरिशिष्टे वर्णोच्चारप्रकारःसन्ध्यश्चतुर्धा विज्ञेया लोपागमविकारतः प्रकृत्त्या च तथा तत्र प्रथमं हि निदर्शनम्विकारतो यथा चेदं प्रेषितेत्यादिकं भवेत् देवो वः सवितेत्यादौ प्रकृत्त्यादिप्रदर्शनम्उभौ स्वरौ तयोरन्तः सन्धिर्यत्र न दृश्यते सा विवृत्तिर्बुधैर्ज्ञेया स एवेति च पश्यतिएषा चतुर्धा विज्ञेया प्रथमा तु पिपीलिका परा पाकवती चैव तथा वत्सानुसारिणीवत्सानुत्सृजिता चैव चतस्रस्ता विवृत्तयः पिपीलिकाद्यन्तदीर्घा नाब्भ्यासीन्निदर्शनम्द्वितीया तूभया ह्रस्वा व्विन इन्द्रेति दर्शनम् तृतीया चोदिता दीर्घा तास्येति निदर्शनम्अन्ते चतुर्थी दीर्घा स्यात्तानावोढमश्विना स्वरभक्तिः पञ्चधा स्यात्तत्राद्या करिणी स्मृतालकारेण हकारेण सँय्योगो यत्र दृश्यते करिणी सा तु विज्ञेया वर्हिरसीति दर्शनम्लकारेण हकारेण सँय्योगो यत्र दृश्यते कुर्विणी सा हि विज्ञेया उपवल्हेति पश्यतिरकारस्य शकारेण सँय्योगो यत्र दृश्यते हरिणी सा तु विज्ञेयार्शस इत्यादि दर्शनम्लकारेण शकारेण सँय्योगो यत्र जायते तां हरिणीं विजानीयाच्छतवल्शेति दर्शनम्रेफस्याथ षकारेण सँय्योगो यत्र दृश्यते हंसपादेति विज्ञेया वर्षो वर्षीयसीति चएतल्लक्षणमाख्यातं स्वरभक्तेर्विचक्षणैः ज्ञात्वैतन्मनुजो याति ब्रह्मलोकं सनातनम्इति कात्त्यायनेनैव परिशिष्टं कृतं मुदा इति कात्यायनोक्ता स्वरभक्तिलक्षणपरिशिष्टशिक्षा समप्ता N/A References : N/A Last Updated : September 20, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP