संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा| पाराशरीशिक्षा शिक्षा चारायणीयशिक्षा जटा शिक्षा नारदीया शिक्षा व्यास शिक्षा शम्भु शिक्षा व्यालि शिक्षा शैशिरीय शिक्षा शौनक शिक्षा आत्रेय शिक्षा आरण्यकशिक्षा केशवीपद्यात्मिका शिक्षा केशवीयशिक्षा श्रीकौण्डिन्यशिक्षा कौंडिन्य शीक्षा कौहलीयशिक्षा क्रमकारिका शिक्षा क्रमसंधान शिक्षा पाराशरीशिक्षा प्रातिशाख्यप्रदीप शिक्षा प्लुत शिक्षा भारद्वाजशिक्षा मनःस्वारशिक्षा माण्डूकीशिक्षा माध्यन्दिनीयशिक्षा योहिप्राप्तिशिक्षा लक्ष्मीकान्तशिक्षा लक्ष्मीकान्त शिक्षा लघुमाध्यन्दिनीयशिक्षा लघ्वमोघानन्दिनीशिक्षा लघ्वमोघानन्दिनीशिक्षा वररुचिशिक्षा वर्ण शिक्षा वेदपरिभाषाकारिका शिक्षा व्याळशिक्षा शमानशिक्षा षोडशश्लोकी शिक्षा सिद्धान्तशिक्षा स्वरभक्तिलक्षण शिक्षा स्वरशिक्षा स्वराङ्कुशशिक्षा हयग्रीवी शिक्षा पाराशरीशिक्षा शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे. Tags : sanskritshikshaशिक्षासंस्कृत पाराशरीशिक्षा Translation - भाषांतर अथ शिक्षां प्रवक्ष्यामि पाराशरमतं यथायथा देवेषु विश्वात्मा यथा तीर्थेषु पुष्करम् तथा पाराशरी शिक्षा सर्वशास्त्रेषु गीयतेप्रणवं तु प्रवक्ष्यामि तिस्रो मात्रास्त्रिदैवतम् त्रिरूपं च त्रिवर्णं च त्रिस्थानं त्रिगुणं तथाअक्षराशीतिरेकश्च प्रथमा कण्डिका स्मृता लक्षणोक्तप्रकारैस्तु इषे त्त्वेति निदर्शनम्त्रीणि त्रीणि च चत्वारि दश पञ्चाष्टमं स्मृतम् एकादशाक्षरं तद्वदुभयोरपि दृश्यतेसप्तमं पञ्चमं चैव पुनश्चैकादशाक्षरम् नवाक्षरं विजानीयाद्वाक्यं चैकादशाक्षरम्अन्त्यावसानाः षट् चैव पञ्चैतास्त्रिभिरर्द्धकाः एका चतुर्थता ज्ञेया शेषा युग्मार्द्धकाः स्मृताःउच्चादुच्चतरं नास्ति नीचान्नीचतरं तथा एवं वर्णाः प्रयोक्तव्याः इषेत्वेति निदर्शनम्सप्त त्रीणि चतुष्कं च वसुवर्णाः प्रकीर्त्तिताः षट्द्वयष्टौ च प्रपद्यन्ते द्वितीया कण्डिका स्मृताप्रथमं रुद्रसङ्ख्या वै सप्त सङ्ख्या द्वितीयकम् निधिसङ्ख्या तृतीयं स्याद्वसुसंख्या चतुर्थकम्पञ्चम वेदसंख्या च तृतीया कण्डका स्मृता अष्टौ वाक्यं तथा पञ्च द्वितीया च तृतीयकाचत्वारिंशत्तथा सप्त चत्वारिंशत्तथा नव अक्षराणां प्रमाण च व्वसोर्द्धौ च विभाषयाचतुस्त्रिंशच्च नवतिरक्षराणां प्रमाणतः चतुर्थी कण्डिका प्रोक्ता मुनिः पाराशरोऽब्रवीत्सप्तमं नवमं चैव अष्टमं तु तथैव च एवं वर्णाः प्रयोक्तव्याः व्वीतिहोत्रं निदर्शनम्उभयोः कण्डिकामध्ये न चोष्ठयं विद्यते क्वचित् अग्निश्चैव यजुश्चैव अर्द्धा त्रीणि चतुष्टयम्दशाक्षराणि पञ्चैव अग्निर्ज्योतिर्निदर्शनम् सप्ताक्षराणि चत्वारि यमदग्नेरितिस्मृतःदशाक्षरं च चत्वारि दशाक्षरं द्वादशाक्षरम् अन्ते युग्माक्षरं वाक्यमाकूत्त्यै च निदर्शनम्नवाक्षरम् त्रयश्चैव त्रयश्चैव षडक्षरम् इति वाक्यानि विद्यन्ते सिँह्यसीति निदर्शनम्यम्परिधिमत्र पितरो अयं ते च इडे तथा सकारेण विना चैव यो देवेभ्यः पञ्चकण्डिकाअकाराद्या हकारान्ताश्चतुर्विंशतिरक्षराः गायत्रीसदृशी प्रोक्ता पवित्रा यज्ञमध्यगाअग्निन्दूतं व्वसन्ताय कपिञ्जलानां प्रजापतये च द्वये ऊष्मान्ता प्रथमा शेषा स्वरान्ता वर्तिका पराशुद्धा च प्रथमाध्यक्षा पीडयाध्यक्षा द्वितीयया चिदसि प्रथमा ज्ञेया अर्म्मेभ्योऽथ पराभवेत्ध्यक्षा ध्यक्षान्तयोः सम्यगुभयोः कण्डिकाद्वयी वकारे केवलो यत्र तत्र रेफोऽप्यधः स्थितःदन्त्यञ्चोपरि विज्ञेयं यूपव्व्रस्केति निदर्शनम् नानुस्वारं न संयोगं विसर्गं नैव दीर्घताकेवलस्तत्र विज्ञेय एकारात्परतो हि यः मात्रा सह भवेद्दीर्घं ह्रस्वं मात्रा विना भवेत्इत्यक्षर विजानीयात्क्षिप्रं दीर्घं भवेदिति क्षिप्रं दीर्घं समाख्यातं अङ्गल्यामेकमन्तरम्दीर्घस्यार्द्धं भवेत्क्षिप्रं नास्ति दीर्घस्य दीर्घता यथा सङ्ख्या तु दीर्घस्य तथा चोष्मा प्रकीर्त्तिताऊष्मा दीर्घं समत्वं च क्षिप्रं कुर्यात्तदर्धकम् अनुस्वारस्योपरिष्टात्संय्योगो दृश्यते यदिह्रस्वत्वं विजानीयात्सँस्रवभागास्थेति निदर्शनम् अनुस्वारस्यो॒परिष्टात्संवृतं तत्र दृश्यतेदीर्घं तं तु विजानीयाच्छ्रोता ग्रावाणेति निदर्शनम् अनुस्वारस्तु यो दीर्घादक्षराच्च भवेत्ततःस तु ह्रस्व इति प्रोक्तो मन्त्रेष्वेव विभाषया अनुस्वारो द्विमात्रः स्याद्वर्णव्यञ्जनादिषुदीर्घं तं तु विजानीयाद्देवानां हृदयेभ्य इति निदर्शनम् अनुस्वाराच्च संयोगः परतो दृश्यते यदिह्रस्वं तं तु विजानीयान्मन्त्रेषु ब्राह्मणेषु च ह्रस्वादग्रे भवेद्दीर्घो दीर्घादग्रे भवेल्लघुः अदीर्घो दीर्घतां याति नास्ति दीर्घस्य दीर्घतासंय्योगादिपरो नास्ति ह्रस्वो दीर्घस्य दीर्घता संय्योगादिपरो यत्र तत्र ह्रस्वं भवेद्ध्रुवम्अभिनीतं निपातं वा जात्यं वा स्वरितं विदुः वाक्यकाले भवत्येव पाठकाले यथाक्रमम्षडङ्गुलं तु जात्यस्य हस्तस्यानुपथस्य च चतुर्थभागमात्रं स्याद्भूयस्तेनैव वर्त्तयेत्निपातं चाभिनीतं च शेषं नीचतरं क्रमात् त्रिस्वरं तं विजानीयादाज्येनेति निदर्शनम्नीचान्नीचतरं चैव पुनर्नीचं प्रयोजयेत् एवं वर्णाः प्रयोक्तव्या ओजोनेति निदर्शनम्नादसंज्ञा भवन्तीमे ङञणनमाश्चानुनासिकाः भवन्ति प्रत्यये येषामन्तस्थाः संयुतास्तथाहकारं चैव वर्गाणां तृतीयं च चतुर्थकम् अथ दीर्घविसर्गान्ता अष्टौ ते नादसञ्ज्ञकाःनमौ गुरू नादसञ्ज्ञौ लघू चैवानुनासिकौ संय्योगौ च विसर्गौ च नादावेतौ प्रकीर्त्तितौपञ्चमा यत्र दृश्यन्ते पञ्चमे परतः स्थिते नासिक तत्र कुर्वीत मात्रैकत्वे न संशयःसंय्युक्ताग्रे विरामस्तु विवृत्तिस्तु विशेषतः संय्युक्ताग्रे ह्यघोषस्तु नासिकं तु विधीयतेप्रत्यये च स्थिता ये च अघोषाः पञ्चमाः स्वराः पदान्ते संय्युता ह्रस्वाः पञ्चैवेतेऽनुनासिकाःविवृतौ चावसाने च ऋगर्द्धे च तथापरे पदे च पादसंस्थाने नासिकं तु विधीयतेहकारो रेफसंयुक्तो नादो भवति नित्यशः द्वितयेन पदाक्रान्तो न तु नादः कदा चनआद्यन्तस्थौ सकारौ द्वौ हकारो यत्र मध्यगः उभौ नादौ प्रयुज्येताम् अग्ने व्व्रतपते निदर्शनम्नकारस्य मकारस्य अनुस्वारो यदा भवेत् तदानुनासिके विद्यादुभयोर्ह्रस्वदीर्घयोःनकारस्य मकारस्य अन्तःस्थाश्च समीपगाः नासिको नावमन्तव्यस्तत्र नादः प्रकीर्त्तितःतवर्गान्ते पवर्गान्ते व्यञ्जनान्ते पदे परे तत्र नादं प्रकर्त्तव्यं नान्तिमं क्षिप्रकीर्त्तितम्पूर्वतः परतो वापि हकारो यत्र दृश्यते तत्र नादो भवत्येव न विकल्पः कदा चननकारात्परतो यत्र मकारात्परतस्तथा हकारो यत्र दृश्येत तत्र नादो भवेद् ध्रुवम्नमौ गुरु यत्र दृश्येते अघोषाः परतः स्थिताः नादं कुर्वीत यत्नेन तत्र घोषबलं न हिएकाक्षरं नकारस्य चोभयोः स्वरयोर्द्वयोः अर्द्धचन्द्रं तदुपरि ह्यघोषाः पुरतः स्थिताःपञ्चमं चार्द्धचन्द्रं च ऊष्मान्तस्वरयोर्द्वयोः नासिकं तु भवत्येव नॄः पाहीति निदर्शनम्विंशतिर्घोषास्ते गजडदबा ङञणनमा यरलवहाश्चेति त्रयोदशाघोषास्ते कचटतपाश्च खछठथफाः शषसाश्चेतिमुखनासिकाभ्यामुच्चार्यमाणोऽनुनासिकः जकारौ द्वौ मकारश्च रेफस्तदुपरिस्थितःअशरीरं यमं विद्यात्सम्मार्ज्ज्मीति निदर्शनम् शून्यालये पिशाचोऽपि गर्ज्जते न च दृश्यतेएव वर्णाः प्रयोक्तव्याः उपज्ज्मन्निति निदर्शनम् एकाक्षरं वकारस्य निपातस्थो यदा भवेत्संहितायां लघुर्ज्जातः पदकाले गुरुर्भवेत् वकारस्त्रिविधः प्रोक्तो गुरुर्लघुर्लघूतरःआदौ गुरुर्लघुर्मध्ये पदान्ते तु लघूतरः पदान्ते पदमध्ये च वकारो दृश्यते यदालघुरेव स मन्यव्यो ह्यन्यत्रापि लघूतरः औकारान्ते पदे पूर्वे अकारे परतः स्थितेलघूतरः विजानीयादग्नावग्निश्चेति निदर्शनम् यथा पुत्रवती स्नेहाच्चुम्बतीति पुनः पुनःएवं वर्णाः प्रयोक्तव्या युञ्जान इति निदर्शनम् मूत्रं कुर्वीत वडवा योनिं करोति यादृशीम्तन्मुखं कुरुते प्राज्ञः स दुन्दुभे निदर्शनम् उकारान्ते उकारे च दृश्यते चोभयोर्यदिद्विरौष्ठ्यं तु विजानीयाद्भूर्ब्भुवः स्वर्न्निदर्शनम् एकपद्ये भवेद्यस्तु सकृदौष्ठ्यं तदुच्यतेद्वित्रिभिश्च चतुष्कं चतुरौष्ठ्यं ततः परम् यथा मर्कटयोर्युर्द्धंठ कुर्व्वन्मुखेन धावतिएवं वर्णाः प्रयोक्तव्याः किकिदीवेति निदर्शनम् कुक्कुटः कामलुब्धोऽपि ककारद्वयमुच्चरेत्एवं वर्णाः प्रयोक्तव्याः कुक्कुटोऽसि निदर्शनम् चतुर्दशाक्षरं वाक्यं पुनश्चैकादशाक्षरम्पुनर्दशाक्षरं वाक्यमष्टाक्षरमतः परम् लक्षणैर्वा विहीनं तु भुक्तमव्यञ्जनं तथातच्छब्दं कुरुते प्राज्ञः सिँह्यसि निदर्शनम् हस्तहीनं तु योऽधीते वेदं वेदविदो विदुःतल्लक्षणविहीनस्तु भुक्तमव्यञ्जनं यथा एवं चतुष्टयं वाक्यं श्रीश्च्च तेतिनिदर्शनम्वसुसंख्याक्षरं वाक्यं त्रिपदा वा चतुष्पदा सप्ताक्षरं तु गायत्री अग्निन्दूतं निदर्शनम्उभौ सप्ताक्षरं वाक्यं पुनश्चैव नवाक्षरम् अष्टाक्षरं विजानीयाद्यत्पुरुषेणेति निदर्शनम्अष्टाक्षरं चतुष्पादं तदेवादि ऋचं त्रयम् अन्ते पूर्व्वा ऋचः सम्यक्स्वाहाकारं पृथक् पृथक्तदेव लक्षणं सम्यक् पाराशरमतं यथा याज्ञवल्की तु वासिष्ठी शिक्षा कात्यायनी तथापाराशरी गौतमी तु माण्डव्यामोघनन्दिनी पाणिन्या सर्ववेदेषु सर्वशास्त्रेषु गीयतेवाजसनेयशाखायां तत्र माध्यन्दिनी स्मृता एकादशाक्षरं वाक्यं द्वितीयं च नवाक्षरम्रुद्रसङ्ख्यं तृतीयं स्यान्निधिसंख्यं चतुर्थकम् चत्वारिंशच्चाक्षराणां वाक्यं स्यात्तु चतुष्टयम्एवं वर्णाः प्रयोक्तव्याः एष वस्तोमेति निदर्शनम् आद्यन्तह्रस्वयोर्म्मन्त्रे वकारो यत्र दृश्यतेस तु ह्रस्व इति प्रोक्तोऽभियुध्येति निदर्शनम् अकारात्परतो यश्च नैव दीर्घं प्रयुज्यतेअभिविध्येति विज्ञेयो मन्त्रब्राह्मणयोर्द्वयोः व्वनेषु व्व्यन्तरिक्षं च ह्यष्टौ व्व्यख्यत्तथैव चनामग्रहणकालेषु गुरुरेव न संशयः पूर्वा तु कण्डिका दृष्टा अपराभिस्तु संय्युतातदेव नामग्रहणं न विकल्पः कदा चन पूर्व्वा विद्धा परा चाथ कण्डिका यत्र दृश्यतेचापलानीति सा ज्ञेया आच्छच्छन्दो निदर्शनम् यथा भारभराक्रान्तो निश्श्वसेल्लघुचेतसःएवं वर्णाः प्रयोक्तव्या होता यक्षन्निदर्शनम् वाक्यौ द्वौ च समुद्भूतौ अक्षरा ऊनविंशतिःत्रयोविंशतिश्चाक्षराणाँ होता मित्रा पृथिव्यया हंसः शुचिषच्चैतद्द्वादशाक्षरसञ्ज्ञकःऊनाशीतिश्चाक्षराणाम् अथैताँश्च प्रकीर्तिताः अकारादीनि वाक्यानि द्वादशैतानि सङ्ख्ययाद्वादशाक्षरं प्रथमं पञ्चमं चेति सप्त वै षडक्षरं ततो वाक्यं पुनर्द्वादशकं स्मृतम्एकादशाक्षरं चैव अन्ते च द्वादशाक्षरम् एवं वर्णाः प्रयोक्तव्या अथैतानि निदर्शनम्तिस्रोऽर्द्धा अभित्यञ्च तिस्रो अर्द्धा प्रजापतिः पुनन्तु मेति चत्वारि व्वायुः पञ्च ततः परम्अनाधृष्टात्र पञ्चैव एधोऽस्यर्द्धचतुष्टयम् सव्वत्सरोऽसि चत्वारि द्यौः शान्तिश्चार्द्धयोर्द्वयोःक्वचित्स्वाहा पृथक्कुर्यात् क्वचिद्युक्तं तु कारयेत् क्वचिच्चादौ विजानीयात्क्वचिच्चान्ते विधीयतेपुनन्तु मा पितरो व्वायुरनिलं प्रजापतये त्वा वाक्यकालेऽवसाने च स्वाहान्ते चाहुतिं क्षिपेत्मन्त्रभागं पृथक्कुर्यात्स्वाहाकारं पृथक् पृथक् स्वाहादौ च भवेद् वाक्यं अग्निन्दूतं मनस्तथाअन्ते चादौ पुनश्चान्ते काय स्वाहेति दर्शनम् मकारादौ भवेद् वाक्यं ऊर्णाम्रदसं प्रकाश्यतेआविर्म्मर्त्या अकारादौ स्वरान्तं प्रथमान्तरम् रससंख्या भवेद् वाक्यं वेदवाणौ पुनः पुनःयुग्मवाणान्तयोः सप्त अन्ते चैव चतुर्दश पञ्चाशतं च वर्णानाम् अक्षराणां प्रमाणतःइदमित्येव विज्ञेयं वाक्यं तस्माद् भवेन्न च अब्भ्रिरसि । अग्ने तमद्य । सहस्रस्य प्प्रमा । अग्निर्देवता । इयमुपरि मरव-स्यशिरः अश्श्वस्य त्वा । प्रथमा वाम् । अन्तरामित्रा-वरुणा ।होता यक्ष-दग्निँस्वाहा । स्वाहा यज्ञम्-बर्हिरूर्णम्म्रदाः । एकाक्षरं पदं वाक्यं नचार्द्धा-युग्मयोरपि । मध्ये चैकाक्षरं वाक्यं द्वे द्वे चार्द्धावसानयोः एवं वर्णाः प्रयोक्तव्या लोकतश्च प्रकीर्त्तिताःविभक्त्यन्तं विजानीयाद् गुरुतः शास्त्रतोऽपि वा लोपागमविकाराभ्यां वाक्यानामेष निर्णयःद्वादशैतानि वाक्यानि द्वादशैतानि शान्तिके देवादीनां भवन्त्येते द्वादशैतानि संख्ययाछाया छिद्द्रा तथा छन्दश्छकारा लघुसङ्ख्यया ह्रस्वो वा यदि वा दीर्घः शेषा द्वित्वे प्रतिष्ठिताःदीर्घादग्रे छकारोऽपि ह्रस्वादग्रे तथैव च द्वित्वाक्षरं विजानीयादिति शास्त्रविधानतःदीर्घादग्रे तु यो दीर्घो गिरिशा व्वर्म्मणा तथा द्वित्वाक्षरं विजानीयाच्छादयामि निदर्शनम्वकारस्य भकाराभ्यां छकारस्य चकारयोः धकारस्य दकाराभ्यां थकारस्य मकारयोःकवर्गस्य चवर्गस्य खवर्गस्य पवर्गयोः द्वित्वं चैव यमं चैव भवत्येव न संशयःओष्ठ्यं चैव वकारस्य मकारेण सहायवान् तम्बधान तथा चाम्बे संयोगोऽप्यतिदुर्लभःतँव्वश्चैव शतँव्वश्च सँय्योगोऽत्यन्तदुर्लभः अनुस्वारं पृथक्कुर्यादसंप्राहुर्विचक्षणाःवकारस्य यकारस्य मध्ये बिन्दुः प्रतिष्ठितः अन्त्यबिन्दुं विना ये च शेषान्तस्थाः प्रकीर्त्तिताःशृङ्गवद् बालवत्सस्य कुमार्य्यास्तनयुग्मवत् नेत्रवत्कृष्णसर्पस्य स विसर्ग इति स्मृतःविस्फुलिङ्गा इव स्फोटा वेदस्याङ्गानि सन्ति हि अशुद्धपठनाच्चैव नैव मोक्षं प्रपेदिरेतस्मात्सर्वप्रयत्नेन शुद्धपाठी भवेद्द्विजः अन्यथा निरय यान्ति कुम्भीपाकं च दारुणम्सप्ताक्षरं च चत्वारि पुनरष्टाक्षरं तथा ऋचँ व्वाचमिति ज्ञेया अन्ते चैव चतुष्टयम्एकादशाक्षरं वाक्यं पुनरेव चतुष्टयम् त्रयोदशं द्वादशं च यन्न्मे इति निदर्शनम्व्याहृत्या सह गायत्री तिस्र अर्द्धा भवेदिह प्रणवाश्चैव चत्वारो भवन्त्येव न संशयःऋचँव्वाचं त्रयश्चैव प्रारम्भे च चतुष्टयम् इति पाराशरेणोक्तं प्रमाणं वेदसम्मितम्पूर्वा चतुर्दशास्तिस्रो ह्यर्द्धायुग्मार्द्धषड्दश एवं वर्णाः प्रयोक्तव्या अग्निश्चेति निदर्शनम्पूर्वमष्टाक्षरं वाक्यं परतो द्वादशाक्षरम् द्विपादान् वा विनिश्चित्य इन्द्रो व्विश्वस्य राजतिअहानि शं त्रयश्चैव त्रयश्चैव यथापरे अन्त्यावसाना दुर्मित्त्रा शेषा द्वे द्वे प्रकीर्त्तिताःकण्डकापञ्चयुग्मार्द्धं चतुःपञ्च नवं नवम् पुनश्चतुस्त्रयश्चैव त्रयश्चैव पुनः पुनःशेषा युग्मार्द्धकं विद्याद्देवस्य निदर्शनम् एवं ज्ञात्वा पठेद्यस्तु स गच्छेद्वैष्णवं पदम्त्रयश्चैव त्रयश्चैव त्रयश्चैव चतुर्ष्टयम् षडर्द्धं च त्रयश्चैव द्विपञ्चान्त्यावसानयोःशेषाश्च कण्डिकाः सर्वा द्वे द्वे अर्द्धे प्रकीर्तिताः न मे प्रियो द्विजः कश्चिच्छ्रद्धावानतिथिप्रियःइति पाराशरेणोक्तं विप्राणां हितकाम्यया शिष्याणामुपकाराय परलोकहिताय वैस्वाहा प्राणेभ्यस्त्रयश्च लोमभ्यश्च त्रयस्तथा शेषाश्च कण्डिकाः सर्वा द्वे द्वे अद्धे प्रकीर्त्तिताःअष्टौ वाक्यं तयोः सप्त पञ्च द्वादश वै पुनः चतुर्थं दश एका च अष्टादश ततः परम्नवमं चाष्टमं चैव सप्तमं च ततः परम् इति वाक्यविधिं सम्यक् प्राणेभ्यश्च निदर्शनम्व्वायुः पञ्च भवेदर्द्धा अर्द्धे द्वे च हिरण्मये ईशाव्वास्यं तु मन्त्रस्य शेषा द्वे द्वे प्रकीर्त्तिताःअष्टादशाक्षरं वाक्यं नाकपृष्ठे तु पञ्च वै सप्तदशाक्षरं चैतद् वैश्वदेवं विनिर्दिशेत्सप्तदशाक्षरं वाक्यं पुनरष्टादशाक्षरम्एवं वर्णाः प्रयोक्तव्या ग्रामण्यौ तु सुपञ्चयोः उभौ सप्ताक्षरं वाक्यमष्टाक्षरमतः परम्नवाक्षरं विजानीयाद्यार्मिषुं चेति निदर्शनम् एकैकस्य नमस्काराः शङ्कराय महात्मनेश्वब्म्यश्चादौ च वर्णान्ते वाक्यकाले भवेदिति नमकं चमकं चैव पुरुषसूक्तं तु नित्यशःप्रविश्यते महादेवो गृहे गृहपतिर्य्यथा रुद्राध्यायः स्वरेणैव कण्डिकादशकेन तुततो वाक्यं प्रकुर्वीत ऋचान्ते षोडशाक्षरम् अष्टादशाक्षरं वाक्यं पुनः षोडशकैः शुभैःएवं वर्णाः प्रयोक्तव्या अश्मर्न्न्ज्जं विनिर्दिशेत् पुँश्चलूँ पुँश्चली चेति संख्या यत्र यत्र चदङ्क्ष्णवश्च विज्ञेया अर्द्धचन्द्रस्तु षटसु च मकाराग्रे छकारादावनुस्वारेण सँय्युतौतन्द्रञ्छन्दो विजानीयादग्निः पशुर्न्निदर्शनम् तकारान्ते पदे पूर्वे शकारे परतः स्थितेक्षणिकं तं विजानीयात्तच्छकेयं निदर्शनम् पाठकाले भवेध्रस्वो वाक्यकाले तु दीर्घताएवं वर्णाः प्रयोक्तव्या नक्षत्रेब्भ्यः स्वार्हेति निदर्शनम् शर्म्म च स्त्थ स्तथो पप्प्रागात्समुद्रस्य त्वेति चस्वरितो वाक्यकालेऽपि उदात्तं नोपपद्यते एह्यूषु ऋजीते अभित्त्वा गोमदूषुणा सत्यास्वरितो वाक्यकाले तु न चोर्द्ध्वं नीयते करम् सद्यो जातः समुद्रोऽसि प्रथमार्च्यस्य तु द्वयाएवं वर्णाः प्रयोक्तव्या गुरुरेव न संशयः अन्तस्थैः सह सँय्योगे स्पर्शो वा दृश्यते क्वचित्ऋवर्णेन तदा ग्रस्तो न लघुर्न्न लघूतरः ऋकारो गुरुतां यातः संयुक्तो हरयैः सहऋवर्णेन परस्यैव व्यृद्ध्या इति निदर्शनम् क्रतून् जहि शत्रून् व्वन स्प्पतीन् परिधींश्चेतिचतुर्वेदोऽपि यो विप्रो यावद्ब्रह्म न विन्दति तावद्भ्रमति संसारे ह्यसारे दुरतिक्रमेपठित्वा चतुरो वेदान्त्सर्वशास्त्रमनेकधा यो हि ब्रह्म न जानाति मूर्खः पाठे शठो यथाज्ञात्वैव ब्रह्मसायुज्यं लभते नात्र संशयः यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्यतथाहि विप्राः स्मृतिवेदपूर्णा ज्ञानेन हीनाः खरवद्वहन्ति आहारनिद्राभयमैथुनं च समानमेतत्पशुभिर्नराणाम्ज्ञानं हि तेषामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः प्रातर्मूत्रपुरीषाभ्यां मध्याह्ने क्षुत्पिपासयातृप्ताः कामेन बध्यन्ते जन्तवो निशि तद्वशाः नादबिन्दुसहस्राणि तथा कोटिशतानि चसवाता रश्मयो यान्ति यत्र वेदो निरामयः गवामनेकवर्णानां क्षीरं स्यादेकवर्णकम्क्षीरं यथा तथा ज्ञानं लिङ्गनस्य गवां यथा द्वे पदे चैव मोक्षाय न ममेति ममेति चस ममेति क्षिणन्ती च शत्रूँ रनपव्ययन्तः अरञ्जनाः पञ्च अर्द्धा अर्द्ध मात्रा भवन्ति चपूषा मित्रो वसुश्चैव अञ्जनाश्व प्रकीर्त्तिताः पूषा मित्रो वसून्पञ्चानुरञ्जनाःप्रकीर्तिताःएकार्द्धमात्रिकाश्चैव पञ्चैते चानुरञ्जनाः वक्ष्ययक्ष्यकक्ष्यभक्ष्यमाणा इत्येवमादयःइमे वर्णास्तु तालव्याः परा मूर्धन्यजाः स्मृताः एवं ज्ञात्वा पठेद्यस्तु स गच्छेद् वैष्णवं पदम्न मे प्रियो द्विजः कश्चिच्छुद्धपाठी त्वतिप्रियः इति पाराशरेणोक्तं विप्राणां हितकाम्ययाशिष्याणामुपकाराय परलोकहिताय च इति पाराशरीशिक्षा समाप्ता N/A References : N/A Last Updated : September 20, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP