संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा| शम्भु शिक्षा शिक्षा चारायणीयशिक्षा जटा शिक्षा नारदीया शिक्षा व्यास शिक्षा शम्भु शिक्षा व्यालि शिक्षा शैशिरीय शिक्षा शौनक शिक्षा आत्रेय शिक्षा आरण्यकशिक्षा केशवीपद्यात्मिका शिक्षा केशवीयशिक्षा श्रीकौण्डिन्यशिक्षा कौंडिन्य शीक्षा कौहलीयशिक्षा क्रमकारिका शिक्षा क्रमसंधान शिक्षा पाराशरीशिक्षा प्रातिशाख्यप्रदीप शिक्षा प्लुत शिक्षा भारद्वाजशिक्षा मनःस्वारशिक्षा माण्डूकीशिक्षा माध्यन्दिनीयशिक्षा योहिप्राप्तिशिक्षा लक्ष्मीकान्तशिक्षा लक्ष्मीकान्त शिक्षा लघुमाध्यन्दिनीयशिक्षा लघ्वमोघानन्दिनीशिक्षा लघ्वमोघानन्दिनीशिक्षा वररुचिशिक्षा वर्ण शिक्षा वेदपरिभाषाकारिका शिक्षा व्याळशिक्षा शमानशिक्षा षोडशश्लोकी शिक्षा सिद्धान्तशिक्षा स्वरभक्तिलक्षण शिक्षा स्वरशिक्षा स्वराङ्कुशशिक्षा हयग्रीवी शिक्षा शम्भु शिक्षा शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे. Tags : sanskritshambhushikshaशम्भुशिक्षासंस्कृत शम्भुशिक्षा Translation - भाषांतर शम्भु शिक्षाप्रणम्य शिरसा लक्ष्मीं कालकां च सरस्वतीम्गणेशं च तथा शम्भुं शिक्षां वक्ष्यामि शाङ्करीम्काण्डोऽग्निसंज्ञो विज्ञेयश्चतुर्थस्तैत्तिरीयकेग्रह इत्याददे प्रश्नः सजोणान्तो विधीयतेउख्यमित्यग्निकाण्डस्य प्रश्नद्वितयमादिकम्अन्त्यानुवाकसहितं वेदविद्भिरुदाहृतम्इषे प्रभृत्यपामन्तं प्रश्नानां युक्ष्वसंयुतम्अन्त्यानुवाका याज्याख्यास्त्रयोविंशतिरीरिताःदेवसवितरारभ्य उपयामान्तसंज्ञिकम्वाजपेयाभिधानं षडनुवाकं विपश्चितःसमिद्दिशां समिद्धोऽग्नेर्मन्वे स्यात्प्रष्ठ्यसंज्ञिकम्जीमूतादि चतुष्कं च गायत्री द्वितयं तथायत्तत्पञ्चमकाण्डे चानुवाकत्रितयं विनाप्रष्ट्यमेव महाप्रष्ठ्यमिति वेदविदो विदुःपञ्चानुवाकमाश्मन्नित्यस्य प्रश्नस्य चादिकम्विकर्षसंज्ञमित्याहुऋर्षयो वेदवादिनःविहव्यसंज्ञा वाजोनः प्रभृतीनां विधीयतेत्रयाणामनुवाकानां वेदलक्षणवेदिभिःदशमादि त्रयः प्रश्नाः इष्टयोनाम उच्यतेग्रहणं त्वेकमुद्दिश्य पदं वै क्रियते यतःतदन्यत्र तु न ग्राह्यं यज्जटाभिमत्तैरितिवतरतित्रिपदप्रभृतिष्वेव वक्तीयस्त्वन्ययोगतःअलोप एव कर्णोक्ते रन्ययोगेऽपि सर्वदाअवर्णान्तोपसर्गाश्च आरमापद्यते क्वचित्ओष्ठशब्दादि परश्चेदवर्णा लुप्यते नुदाऋकारोत्तररेफं च पूर्वतः स्वरभाक् स्थितःस्वर्यतेऽस्मात्परो रेफो दीर्घात्परो भवेद्यदिरेफः करेणुश्च हकार ऊर्ध्वेलःकर्विणीति स्वरभक्तिरुक्तालोहारिता शेहरिणी हहस्तिनीहंस पदापिषोर्ध्वेटवर्गे वक्रमध्ये ळे जिह्वाग्रेण तथा स्पृशेत्उदात्तादनुदात्तस्य स्वरितो यत्र दृश्यतेपिपीलिकेति विज्ञेया सवर्णत्वं यदा भवेत्दीर्घात् पिपीलिकादीर्घा मध्यमा च सवर्णयोःपदैक्ये पाकवत्युक्ता प्यन्यावत्सानुसारिणीद्वन्द्वे होरात्रयोरोत्वं यातिरोर्ध्वे सुवस्त्वपियस्तामविद्वानित्यत्र नानुस्वारगमो भवेत्अनार्षे नैव विज्ञेयो ह्यप्यकारादि संग्रहःस्वरान्यौ तु व्यानौदान शब्दयोश्च सुबन्तयोःनित्यादिना यमात्पूर्वं इदुत्पूर्वात्त एतिरम्सवर्णा यत्र दृश्यन्ते विसर्गो चैव दृश्यतेपिपीलिकेति विज्ञेया तदन्यो दीर्घ उच्यतेपृक्तादपृक्ते दीर्घश्च गुणो वर्णाद्भवेद्यतःउभावादेश ऊभावस्तत्तस्मात्सांहितादपिअनुशब्दो ह्युकारस्य वकारे वैकृते स्थितेजटायां नैव लोपः स्यादकारस्येति निर्णयःकाण्डानुक्रमतो ह्यादौ जटायां दृश्यते यथाअलोपलोपकार्याणि त्रिपदादौ तथोत्तरम्उक्तः प्रथमतो मन्त्रः पुनर्यदि स उच्यतेतत्तत्कार्यं यथापूर्वं कर्तव्यं वेदवित्तमैःषत्वणत्वस्वभावेषु पदुक्तमुपदेशतःग्रहणं तत्करोत्येतत् कार्यं सर्वत्र नान्यथातथेयातां ब्राह्मणायेत्योपेत्याक्षरसंहितातत्रापि पूर्व प्राधान्यादैकारोऽत्र न संभवेत्यथा पुनस्कृधि बलाद्विलोमे सत्यमिष्यतेप्राधान्यात्पुनरित्यस्य निमित्तत्वात्कृधेरितिअङ्गुलीस्वरनिर्देशे व्यङ्गमङ्गो न निर्दिशेत्अङ्गे त्वन्यांशं नादानुस्वारजं स्वरितं न्यसेत्स्वरोदयेत्वनुस्वारो भवेदध्यणुमात्रिकःविरामश्च तयोर्मध्ये वैशेषिकाविदीर्घयोःउदात्तात्परतो नास्ति प्रचयः पूर्वतोऽपि वास्वरितः प्रचयादूर्ध्वं निहतात् प्रचयः परम्दीर्घात्पूर्वो विसर्गो यो दीर्घान्तो यत्र दृश्यतेमध्यमेति विजानीयादेकमात्रं प्रयुज्यतेवैशेषिकाख्या च विदीर्घयोश्चेत्पिपीलिका दीर्घयुगे च मध्यमादृष्टा च वत्सानुसृति स्त्वसाम्येमध्येणुमुख्यं तु विरामकालःकनिष्ठिकानामिकाभ्यां च मध्यमा च प्रदेशिनीनीच स्वारधृतोदात्तान् अङ्गुष्ठाग्रेण निर्दिशेत्अनुदात्तः कनिष्ठादौ नाम्यन्ते स्वरितः स्मृतःप्रचयो मध्यमा मध्ये तर्जन्यादावुदात्तकःअनुदात्तो हृदिज्ञेयो मूर्ध्न्युदात्त उदाहृतःस्वरितः कर्णमूलीयः सर्वांस्येति प्रचयः स्मृतःन रेफे वा हकारे वा द्विर्भावो जायते क्वचित्न च वर्ग द्वितीयस्य न चतुर्थेव कथंचननङौ यत्र पदान्ते तु यवहेषु परेषु चद्वित्वं नैवाभिगच्छेतां नङौ व्यद्रपरौ विनाये च स्वारात्परो रेफो ह्रस्वस्वारात्परस्थितःउच्चाच्च ऋपरो रेफः स्वरितः प्रचयोच्चकाःपदादौ प्रचयो नास्ति स्वरादेकपदे ततःनास्त्युदात्तोऽपि विज्ञेयो हस्तविन्यासकर्मणिपदकाले पदान्मान्तात् पवर्गे परतः स्थितेपुनः प्रयत्नमित्याहुः ऋषयो वेदवादिनःएवं क्रमे जटायां च ऋषिवाक्येऽपि विश्रुतःओमः पवर्ग संयोगे प्रयत्नो नेष्यते पृथक्मकाराच्च पवर्गोर्ध्वे वेष्टने नान्पुयात्तथामनः कायाग्निमाहन्ति स प्रेरयति मारुतम्मारुतस्तुरसि चरन्मन्द्रं जनयति स्वरम्प्रश्नानुवाकाद्यारम्भे सविसर्गोच्चरो हरिःससन्धिः प्रणवस्यादि विरामे स्वरितो भवेत्विधेर्मध्यस्थनासिक्यो न विरोधो भवेत्स्मृतःतस्मात्करोति कार्याणि वर्णानां धर्म एव तुइन्द्रिया विषयो योऽसावणुरित्युच्यते बुधैःचतुर्भिरणुभिर्मात्रा परिमाणमिति स्मृतम्रङ्गप्लुतश्चतुर्मात्रः शुद्धप्लुतस्त्रिमात्रिकःदीर्घ उच्चद्विमात्रः स्याद्ध्रस्वः स्यादेकमात्रिकःपरस्परस्य संयोगः स्पर्शानां संभवेद्यदितयोरादि श्रुतिर्नास्ति विरामव्यञ्जनस्य चअनन्त्यं च भवेत्पूर्वमन्त्यं च परतो यदितयोर्मध्ये यमस्तिष्ठन्नासिकास्थानमुच्यतेनासिक्यत्वमुरस्यत्वं पञ्चमैर्हस्य योगतःअन्तस्थाभिरुरस्यत्वं कण्ठ्यत्वं केवलस्य तुपदादौ पदमध्ये वा स्थितस्योष्म परस्य वैप्रथमस्य द्वितीयत्वं पूर्वं कुर्वीत पण्डितःधूङ्क्ष्णा दङ्क्ष्णव इत्यत्राप्यनुस्वारो विधर्मतः शम्भुशिक्षासमाप्ता N/A References : N/A Last Updated : September 20, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP