संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|व्यास शिक्षा| उच्चारणफलप्रकरणम् व्यास शिक्षा संज्ञाप्रकरणम् प्रग्रहप्रकरणम् परिभाषाप्रकरणम् दीर्घप्रकरणम् आगमप्रकरणम् लोपप्रकरणम् वैकृतप्रकरणम् षत्वप्रकरणम् णत्वप्रकरणम् रेफप्रकरणम् विसर्जनीयसन्धिप्रकरणम् यत्वप्रकरणम् अच्सन्धिप्रकरणम् अनैक्यप्रकरणम् ऐक्यप्रकरणम् स्वरधर्मस्वरूपप्रकरणम् स्वरसन्धिप्रकरणम् हस्तस्वरविन्यासप्रकरणम् द्वित्वप्रकरणम् पूर्वागमप्रकरणम् द्वित्वनिषेधप्रकरणम् अङ्गसंहिताप्रकरणम् स्वरभक्तिप्रकरणम् स्थानकरणप्रयत्नप्रकरणम् प्लुतप्रकरणम् ओष्ठ्यप्रकरणम् कालनिर्णयप्रकरणम् उच्चारणफलप्रकरणम् उच्चारणफलप्रकरणम् शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे. Tags : sanskritshikshaशिक्षासंस्कृत उच्चारणफलप्रकरणम् Translation - भाषांतर N/Aन विश्रमश्चैकपदे प्रोन्न्यानिस्सुविसम्परम् च न ह्युवा स्म ह त्वीं वैन्वेतेभ्योऽधश्च कूटतः व श्रीर्देघधया उच्चास्स्थापितव्यास्स्वरं गताः नैवं तृतीयसम्बन्धाः प्रयोगान्तर इत्यपि युक्तोर्ध्वं व्यञ्जनान्तञ्च दीर्घं गुर्वितरल्लघु तत्त्रिस्त्रिरक्षराश्चैव गणा इति बुधैस्स्मृताः त्रिलो नः स्वस्त्रिगुरुर्मो भूरादौ केन्द्रू यभौ शुभम् द्यौस्तोऽन्ते सोऽनिलस्तापं मध्येऽग्न्यर्कौ रजौ क्रमात् अदादेत्प्रथमयषा ऌनासिक्याः क्षशोत्तराः अनिलाग्निमहीन्द्वर्काः पञ्चानां त्वधिदेवताः ब्रह्मजातिर्भवेदुच्चः क्षत्रजातिस्तु नीचकः वैश्यजातिर्भवेत्स्वारश्शूद्रस्तु प्रचयस्स्मृतः उदात्तस्सात्विकः प्रोक्तस्स्वरितो राजसस्स्मृतः निहतप्रचयावेतौ तामसौ तु विदुर्बुधाः स्वराश्च प्रथमाश्चैव द्वितीया ब्रह्मजातयः तृतीयाश्च चतुर्थाश्च क्षत्रजातय ईरिताः उत्तमाश्चैव मन्तस्था वैश्या हि परिकीर्तिताः अनुस्वारो विसर्गश्च ह्यूष्माणोऽवरजास्स्मृताः यदन्यजातिरुच्यते तत्तत्संहारको भवेत् यज्जात्युच्चारणे तेषां तज्जातिपरिरक्षणम् वर्णोच्चारण इत्यत्र समग्रं लक्षणं स्मृतम् न्यूनातिरेकराहित्यं ब्रह्म भक्तिर्यथोच्चरेत् सुव्यक्तस्सुस्वरो धैर्यं तच्चित्तत्वं चतुर्गुणाः एतद्युक्तः पठेद्वेदं स वेदफलमश्नुते अध्यायस्य मुखे चान्ते भूत्वा विद्वानतन्द्रितः संरक्षणाय वेदानामोङ्कारं तूच्चरेत्सदा स्रवत्यादावनुक्ते च तस्यान्ते तु विशीर्यते आद्यन्तप्रणवौ तस्य स्यातामङ्गानि वै ततः संहितापदसन्धीनां वर्णानां लक्षणन्त्वपि छन्द आदीनि शास्त्राणि ह्युपाङ्गानि विदुर्बुधाः ध्वनिः स्थानञ्च करणं प्रयत्नः कालता स्वरः देवता जातिरेतैश्च वर्णा ज्ञेया विचक्षणैः यजुर्वेदः पिङ्गलाक्षः कृशमध्यो बृहद्गलः बृहत्कपोलः कृष्णाङ्घ्रिस्ताम्रः काश्यपगोत्रजः लक्षणेन विनाध्यायं यः पठेदपि सर्वदा नैव तत्फलमाप्नोति स विप्रस्सुजनोऽपि हि संहितापदवर्णानां कालादीनाञ्च लक्षणम् हल् विसर्गाच्स्वराणाञ्च सन्धेर्लक्षणमेव च एतानि सम्यगष्टौ च विदित्वा लक्षणानि यः अध्यायं स पठत्येव द्वितीयं ब्रह्म कथ्यते संहिताञ्च पदं वापि क्रमञ्चैव जटां पठन् लक्षणज्ञस्तदाप्नोति ब्रह्मज्ञानं हि शाश्वतम् वेदामृतं पिबेद्यस्तु स तस्माद्भूसुरो भवेत् एवञ्च व्यासशिक्षाविद्भूसुरेन्द्रस्स कथ्यते श्रीमत्परब्रह्मसुपूर्णचित्तश्रीव्यासकण्ठप्रसृताञ्च शिक्षाम्एतामभिज्ञः प्रयतः पठेद्यस्सर्वानभीष्टांश्च समश्नुते वै इति उच्चारणफलप्रकरणम् समाप्तोऽयं ग्रन्थः इति समाप्तोऽयं ग्रन्थः N/A References : N/A Last Updated : August 17, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP