प्लुतप्रकरणम्
शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.
अकारान्तः प्लुतो यश्चेदनुनासिक उच्यते
अमत्रध्वनितुल्यश्च रङ्गसंज्ञ इतीर्यते
श्लोकाँ गलाँ ममाँ हूताँ यद्घ्राँ एवेति च प्लुताः
दीर्घा देवाँ उ ताँ इम्यमृवाँ अ स्वाँ अहं कठे
पत्नीवाश्चेतव्याः कार्याश्चित्यारभ्याः प ता उ च
होतव्यां सत्यराजांश्च सृज्यां प्राश्यांश्च मीयताम्
कर्तव्या सहस्रामद्राक्सोमाः क्रामाश्च हा इति
ब्रह्मान् त्वं द्विपदां हौषां स्थेया अग्ना इवत्यगान्
हावरत्नीश्छिनत्ती च जुहवानी च गच्छती
एती लाजीञ्छाचीन् सर्वे त्वन्तोदात्ता प्लुता इमे
पत्या इति गृहा इ त्वी उत्ताना इत्यवेरपाः
सोमपा असोमपा द्वावश्नुता उवतिष्ठिपाय्
सावित्रान्न वेत्थाद्वौ व्यमग्निहोत्रान्न चेति च
अवेत्योवभृथा ना द्वौ रभ्यः पशूश्शृतं हवीः
स्थेयोऽग्नीर्धस्विदासीद्द्वावस्तु ही इव विन्दती
नकं त्रिपञ्चाशदूर्ध्वं चतुर्णां दशमाः प्लुताः
नवदशाज्झलो ळश्चाप्यनुस्वारौ विसर्गजौ
चतुर्भक्तियमाश्चेति वर्णाष्षट्षष्टिरीरिताः
इति प्लुतप्रकरणम्
N/A
References : N/A
Last Updated : August 17, 2026

TOP