संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|व्यास शिक्षा|

षत्वप्रकरणम्

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


अथेतस्सविसर्गौ षं पदि मह्योहि मो द्यवि

सोदिव्ययं कमूप्रोत्री पूर्वोऽवग्रहपूर्वकः

असिञ्चन्नसदामापि ह्यनयोरादिपूर्वके

परि वि प्रति निर्ण्यध्यभि पूर्वो निहते पदे

तोर्ध्वो वेस्सुमतिर्माकिरीयुरायुर्नकिर्विदुः

प्तेसोऽग्निरविदुर्मीढुर्निराभिः पायुभिस्सधिः

नावर्ण हल्लिमौ मृत्युस्पति कुन्यृतु पत्न्यधः

ध्यन्यपूर्वस्सवस्थानमृद्रवत्यप्यवग्रहः

सन्तानेभ्यः स्पशस्सीतं सप्ताभिस्संमितां स्तनाम्

सभेयस्सत्वा सस्यायै सक्सनिश्च सनीस्सनि

न स्तुप् स्तरीस्वरस्पर्धास्फुरं साहस्रसारथिः

ज्योतिरायुश्चतुः पूर्वः स्तो प्रतिप्रसवस्त्विति

टन्तो वाघाषपूर्वष्षात्थाकारश्चैव ठं भजेत्

विद्वांस्तांस्त्रीनृतून् लोकांस्तर्हांस्तस्मिन् पितॄननान्

युष्मानूर्ध्वानश्मन् कृण्वन् कपालानम्बकानपि

तिष्ठन्नाद्युच्चके नेमिर्देवांश्चेत्सवने पशून्

नकारः प्राकृतश्चैषु नित्यतोर्ध्वस्समाप्नुयात्

इति षत्वप्रकरणम्

N/A

References : N/A
Last Updated : August 17, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP