संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|व्यास शिक्षा|

कालनिर्णयप्रकरणम्

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


चाषोक्त एकमात्रस्स्याद्वायसेन द्विमात्रिकः

मयूरेण त्रिमात्रश्च जानीयात्काललक्षणम्

कालोऽतिसूक्ष्मकोऽणुः स्यान्मात्रार्द्धं व्यक्तमात्रिकम्

अङ्गुलिस्फोटनं यावान् तावान् कालस्तु मात्रिकः

हल्युक्तं हलुत्तरं तदणुमात्रं प्रकीर्तितम्

विरामे वर्णयोर्मध्ये ह्यणुकालोऽप्यसंयुते

हलो भक्तिर्विसर्गोऽन्तो ह्रस्वान्नो यवहोत्तरः

स्पर्शोर्द्ध्वो वोऽर्धमात्रास्तेऽवसाने लस्त्रिपादता

विसर्गान्तेऽर्धमात्रस्स्याद्विरामः क्षपरेऽपि च

संयुतोर्द्ध्वे च पूर्वत्र द्विरोष्ठ्येऽप्यौवयोस्तथा

पिपीलिका दीर्घसमे च मध्यमा सवर्णता पाकवती पदैक्ये

दृष्टाचिवत्सानुसृतिस्त्वसाम्येऽप्यधोऽणुमुख्यास्तु विरामकालाः

स्वरोदये त्वनुस्वारो भवेदध्यणुमात्रिकः

विरामश्च तयोर्मध्ये वैशेषिका विदीर्घयोः

प्रणवान्ते पवर्गोर्द्ध्वेऽवग्रहस्यान्त एव च

वाक्यान्ते तु विरामश्च सार्धमात्रः प्रकीर्तितः

पदप्रणवयोर्नित्यं विरामस्स्याद्द्विमात्रिकः

द्रताद्धल् स्वरसम्बन्धे तयोस्तत्स्वरकालवत्

अनुस्वारो द्विमात्रस्स्याद्रेफोष्मसु परेषु च

संयुतोत्तर इत्येष एकमात्रः प्रकीर्तितः

स्यातां सोर्ध्व खथोर्ध्वे च ङनौ ह्रस्वाद्द्विमात्रिकौ

षपरा नित्यखथोर्ध्वे हकारे हल्परे तथा

असंयुतश्च नो दीर्घान्मात्रिको यवहोत्तरे

ह्रस्वान्नादो द्विमात्रस्स्यादन्यत्राप्येकमात्रिकः

केवलप्रणवे तु स्यात्स्वरस्सार्द्धद्विमात्रिकः

मकारान्तो यजुष्युच्चस्स्वरिता ओन्तदादिषट्

अजेकद्वित्रिमात्रास्त्रिरेको द्विश्चैकगो द्विगाः

त्रिमात्रत्वं विरामस्य ऋगन्तेऽर्धान्त एव च

होता यक्षदिति त्वन्ते देवं बर्हिश्च पञ्चमे

सहाम्भसि पितृप्रश्न ऋक्स्याद्वाङ् निधनेन चेत्

काण्डप्रश्नानुवाकान्ते दशाष्टपञ्च मात्रिकाः

ग्रन्थानां परिपूर्णे तु त्रिगुणः काल उच्यते

ह्रस्वस्स्यादेकमात्रस्य द्विमात्रस्य तु दीर्घता

त्रिमात्रस्य प्लुतोऽचां हि पादो मात्राचतुर्थकः

शीघ्रं विलम्बितं मध्यं तिस्रो वाक्यस्य वृत्तयः

कालान्यता च यद्वृत्तौ तदा कर्मान्यता भवेत्

प्रयत्नात्कालतश्चोक्तास्तद्वर्णा उद्भवन्ति हि

तदभावे वर्णाभावस्सम्यग्ज्ञेयं द्वयं ततः

मध्यमां वृत्तिमाश्रित्य चैवं कालास्सुनिश्रिताः

प्रातिशाख्यादिषु ह्यत्र वृत्तिस्सैव समाश्रिता

इति कालनिर्णयप्रकरणम्

N/A

References : N/A
Last Updated : August 17, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP