संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|व्यास शिक्षा|

अनैक्यप्रकरणम्

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


एदोत्पूर्वेऽयकारोर्द्ध्व एकं पूर्वसमन्वितः

अथ प्राकृत उख्येयुर्याज्या द्रापे हिरण्यव

धाता जुष्टो विकर्षोऽग्निर्मूर्धाविहव्येयमे नमः

वाजपेय महापृष्ठ्येश्योनायोप ध्रुवक्षितिः

तेष्वहन्यनिष्ट्रवद्यादवन्त्वसंहसोंऽहतिः

अन्वापस्त्वो वातोऽर्मासो मर्तो दत्ते रथस्त्वधः

वातः पूर्वोऽभिवापश्च अपः पूर्वोऽगमत्त्वनु

आपः पूर्वोऽद्भिरस्मांश्चेदपान्न पात्तथैव च

अदूर्द्ध्वोऽस्मान् स इन्द्रोऽधस्तेऽधोऽग्नेऽन्धोंऽशुरद्य च

ग्न्यूर्द्ध्व आविन्नस्सोमोऽधोमेऽधोऽग्नेऽस्याश्विनापरा

नः पूर्वोऽघाद्यपथ्यस्मिन्नसदभ्यग्निरन्तमः

नमः पूर्वोऽग्रियाग्रे त्वश्वेभ्यश्चेतरत्र तु

धीरासोऽदब्धासोऽषाढ एकादशास एव च

ऋषीणां पुत्रश्शार्याते पृथिवी यज्ञ एव च

पितार आसते ये गो समिद्ध ऋषभः पुवः

युवयोर्यो गृह्णाम्यग्रे जज्ञे वानेष एव च

पतिर्वः पृष्ठे संस्फानश्शुष्मो वृष्णो वचस्तथा

वर्षिष्ठे जुषाणः पाथो यो रुद्रः पूर्व इत्यपि

अरतिमस्य यज्ञस्य त्वतिद्रुतोऽतियन्ति च

अविष्यन्ननमीवश्च अन्नेष्वर्चिस्तथानृणः

अप्सु योऽज्यानिमर्वन्तमजीतानन्हियास्तथा

अम्बाल्यस्त्वङ्गिरोऽङ्गे च अस्कभायत्तथा कृणोत्

अश्वसनिरशिश्रेच्च अच्युतोऽस्थभिरघ्निय

अध्वर स्वर ऊर्द्ध्वे चेदेष्वकरस्स्वभावतः

इति अनैक्यप्रकरणम्

N/A

References : N/A
Last Updated : August 17, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP