संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|व्यास शिक्षा|

स्थानकरणप्रयत्नप्रकरणम्

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


वायौ चरत्युरस्यन्तर्मन्द्र उद्भवति ध्वनिः

कण्ठे च मध्यमो ज्ञेयः शीर्षे तारः स्वशक्तितः

उच्चार्यते त्रिभिस्तैस्तु यावदध्ययनं क्रमात्

नादः श्वासो हकारार्कौ कण्ठेऽल्पे विवृतेऽधिके

अज्घोषा नादतो जाता हचतुर्था हकारजाः

प्रथमाः श्वासतोऽन्येऽर्कादघोषाश्च ततो यमाः

कण्ठो वक्त्रादिमध्यान्तं दन्तमूलान्तनासिकम्

ताल्वोष्ठमुरः स्थानानि वर्णानां करणान्यधः

उवर्णप्रकृतेरोष्ठौ दीर्घौ स्त औत्परस्य

अव्यञ्जनस्वराणाञ्चादौ कण्ठ इतीरितः

ओष्ठताल्ववर्णेवर्णे व्यस्तसंवृतमैत्यपि

औति चोष्ठौ स्त ओत्यल्पाधिकावेत्योष्ठतालु च

कवर्गादिषु जिह्वादिमध्यान्तोष्ठेन चोपरि

टवर्गे वक्त्रमध्ये ळे जिह्वाग्रेणोपरि स्पृशेत्

मध्यान्ताभ्याञ्च तालौ ये रेफे जिह्वाग्रमध्यतः

लकारे दन्तमूलेषु जिह्वाग्रेणोपरि स्पृशेत्

वे चोष्ठान्तेन दन्तेषु स्पर्शस्थाना य ऊष्मकाः

हकारश्च विसर्गश्च कण्ठस्थानावितीरितौ

प्रयत्नश्चोष्मणां व्यस्त इणोऽन्येषामचां भवेत्

केवलानाञ्च सर्वेषामत्यल्पस्पृष्टता स्मृता

स्पृष्टत्वं स्पर्शसंज्ञानां परेषां किञ्चिदुच्यते

अतिस्पृष्टो द्वितीयेषु चतुर्थेषु च तत्समः

हकारं तत्र नासिक्यमुत्तमोत्तरमेव च

अन्तस्यापरमित्यत्र उरस्यञ्च विदुर्बुधाः

विज्ञेया नित्यनासिक्या यमानुस्वारपञ्चमाः

अजन्तस्था हकारश्च निमित्तेन तु कीर्तिताः

इति स्थानकरणप्रयत्नप्रकरणम्

N/A

References : N/A
Last Updated : August 17, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP