संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|व्यास शिक्षा|

परिभाषाप्रकरणम्

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


अथेयात्संहितायां यत्कार्यञ्चेत्सनिमित्तकम्

विकृतञ्च पदेऽदाद्यनाद्यनुस्वारयुक्पदम्

ह्रस्वस्यानित्यदीर्घं स्यात्तद्वास्याप्युपलक्षणम्

पूर्वं पूर्वन्तु तत्रैव कर्तव्यं प्रथमं यथा

सामान्योक्तस्तु सर्वत्र विशेषो नैव दृश्यते

तयोरेकत्र चाल्पस्थो विशेषो बलवान् स्मृतः

पुनरुक्तं यतः पञ्चपदमित्युत्तरञ्च वा

पूर्ववद्भवति ज्ञेयं सर्वत्रापि विचक्षणैः

परि त्वा पुनरूर्जा यन्नोऽस्यारातीयतोऽपि च

सप्त तेऽपो अनु त्वग्ने त्वङ्गेमांश्चाधि रोचने

चित्रं च भवतं द्रप्सस्सहस्व पुनरैक्यतः

आयुर्यज्ञेन वाजश्च प्राणम्म आयुरेव च

पवस्व व्रतपास्सूर्ये परोऽग्न आदयः पुनः

येनाग्नेऽस्मिन् सधस्थे च वाज्यध्वनस्त्वनैक्यतः

एदोद्भ्यां वक्ष्यतेऽतश्च यदनेकपदे पुनः

जटोच्यतेऽन्यशब्देन तत्रानैक्यं न विद्यते

ग्रहणन्त्वेकमुद्दिश्य पदं वै क्रियते यतः

तदन्यत्र तु न ग्राह्यं यज्जटाभिमतैरिति

संहितावत्क्रमो ज्ञेयो जटा च विकृतादिषु

आर्षे तूक्तं मुखेऽन्ते चान्यत्स्यादुभयत्र हि

इति परिभाषाप्रकरणम्

N/A

References : N/A
Last Updated : August 17, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP