दशमः खण्डः सर्वसाधारणक्रमः
परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे
अथातः सर्वेषां मन्त्राणां सामान्यपद्धतिं व्याख्यास्यामः ॥१॥
श्यामावत् सन्ध्याऽऽद्यर्घ्यशोधनपर्यन्तं न्यासवर्जम् ॥२॥
अनुक्तषडङ्गस्य षड्जातियुक्तमायया षडङ्गम् ॥३॥
बिन्दुत्रिषडरनागदलचतुष्पत्रचतुरस्रमयं
चक्रम् ॥४॥
बिन्दौ मुख्यदेवतेच्छाज्ञानक्रियाशक्तयस्त्र्यस्रे
षडरे तत्तत्षडङ्गान्यष्टदले ब्राह्म्याद्याः चतुर्दले
गणपतिदुर्गाबटुकक्षेत्रेशाश्चतुरस्रे दिक्पालाः ॥५॥
त्रितारीकुमारीभ्यां सर्वे क्रममन्त्राः प्रयोक्तव्याः ॥६॥
तत्तन्मूलेनावाहनं कलामनुना बलिरनेन क्रमेणाहुतिः ॥७॥
अथ रश्मिमाला ॥८॥
सुप्तोत्थितेनैषा मनसैकवारमावर्त्या ॥९॥
गायत्र्यादि प्रथमं रश्मिपञ्चकम्
(१) प्रणवो भूर्भुवस्सुवः -
तत्सवितुर्वरेणियं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥
इति त्रिंशद्वर्णा गायत्री ॥
(२) यत इन्द्र भयामहे ततो नो अभयं कुरु ।
मघवञ्छग्धि तव तन् न ऊतये विद्विषो विमृधो जहि ॥
स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी ।
वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः ॥
इत्यैन्द्री सप्तषष्ट्यर्णा सङ्कटे भयनाशिनी ॥
(३) प्रणवो घृणिस्सूर्य आदित्य इत्यष्टार्णा सौरी तेजोदा ॥
(४) प्रणवः केवलो ब्रह्मविद्या मुक्तिदा ॥
(५) तारः परोरजसे सावदोम् इति नवार्णा तुर्यगायत्री
स्वैक्यविमर्शिनी ॥
रश्मिपञ्चकमेतन्मूलहृत्फालविधिबिलद्वादशान्तबीजतया विमृष्टव्यम् ॥१०॥
चाक्षुष्मतीविद्याऽदि द्वितीयं रश्मिपञ्चकम्
(१) सूर्याक्षितेजसे नमः । (२) खेचराय नमः । (३) असतो मा सद्
गमय । (४) तमसो मा ज्योतिर्गमय । (५) मृत्योर्माऽमृतं गमय ।
(६) उष्णो भगवान् शुचिरूपः । (७) हंसो भगवान् शुचिरप्रतिरूपः ॥
(८) विश्वरूपं घृणिनं जातवेदसं
हिरण्मयं ज्योतिरेकं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः
प्राणः प्रजानामुदयत्येष सूर्यः ॥
(९) ॐ नमो भगवते सूर्याय अहो वाहिनि वाहिन्यहो वाहिनि वाहिनि
स्वाहा ॥
(१०) वयस्सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाथमानाः ।
अपध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥
(११) पुण्डरीकाक्षाय नमः । (१२) पुष्करेक्षणाय नमः । (१३)
अमलेक्षणाय नमः । (१४) कमलेक्षणाय नमः । (१५) विश्वरूपाय
नमः । (१६) श्रीमहाविष्णवे नमः ॥
इति षोडशमन्त्रसमष्टिरूपिणी दूरदृष्टिप्रदा चाक्षुष्मती
विद्या ॥११॥
प्रणवो गन्धर्वराज विश्वावसो मम अभिलषितामुकां कन्यां
प्रयच्छ ततोऽग्निवल्लभेत्युत्तमकन्याविवाहदायिनी विद्या ॥१२॥
तारो नमो रुद्राय पथिषदे स्वस्ति मा सम्पारय - इति
मार्गसङ्कटहारिणी विद्या ॥१३॥
तारस्तारे पदमुक्त्वा तुत्तारे तुरे शब्दं च दहनदयितेति
जलापच्छमनी विद्या ॥१४॥
अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः - इति
महाव्याधिविनाशिनी नामत्रयी विद्या ॥१५॥
पञ्चेमा रश्मयो मूलादिपरिकरतया प्रपञ्च्याः ॥१६॥
प्रणवः कमला भुवना मदनो ग्लाच्चतुर्दशपञ्चदशौ
गं गणपतये वरयुगलं द सर्वजनं मे शब्दो
वशमानयाग्निवामलोचनेति महागणपतिविद्या प्रत्यूह शमनी ॥१७॥
प्रणवो नमः शिवायै प्रणवो नमः शिवायेति द्वादशार्णा
शिवतत्त्वविमर्शिनी विद्या ॥१८॥
प्रणवः काष्टम दक्षश्रुतिबिन्दुपिण्डो भृगुषोडशो मां
पालयद्वन्द्वमिति दशार्णा मृत्योरपि मृत्युरेषा विद्या ॥१९॥
तारः नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं
कर्णयोः श्रुतं माच्योढ्वं ममामुष्य ॐ - इति श्रुतधारिणी विद्या ॥२०॥
श्रीकण्ठादिक्षान्ताः सर्वे वर्णाः बिन्दुसहिताः मातृका
सर्वज्ञताकरी विद्या ॥२१॥
रश्मयः पञ्च मूलादिरक्षाऽऽत्मकतया यष्टव्याः ॥२२॥
शिवशक्तिकामक्षितिमायारवीन्दुस्मरहंस
पुरन्दरभुवनापरामन्मथवासवभौवनाश्च शिवादिविद्या
स्वस्वरूपविमर्शिनी ॥२३॥
क्लशब्दाद्वामेक्षणबिन्दुरेकोऽनन्तयोनिबिन्दवोऽन्यः
शङ्करपरात्रिशूलविसृष्टयोऽपरश्चैत एव खण्डाः
प्रतिलोमाः षट्कूटा सम्पत्करी विद्या ॥२४॥
समुच्चार्य सृष्टिनित्ये स्वाहेति हमित्युक्त्वा स्थितिपूर्णे नमः -
इत्यनलबिन्दुमहासंहारिणी कृशे पदाच्चण्डशब्दः कालि फट्
- इत्यग्निबिन्दुसप्तममुद्राबीजं महानाख्ये अनन्तभास्करि
महाचण्डपदात् कालि फट् - इति सृष्टिस्थितिसंहाराख्यानां
प्रातिलोम्यं खेचरीबीजं महाचण्डवाणी च योगीश्वरीति
विद्यापञ्चकरूपिणी कालसङ्कर्षिणी परमायुः प्रदायिनी ॥२५॥
त्रितारी सप्तममुद्रा शिवयुक्शक्तिरहंयुगलमेतत्पञ्चैव
लोम्यमिति शुद्धज्ञानमयी शाम्भवी विद्या ॥२६॥
भृगुत्रिशूलविसृष्टयः पराविद्या ॥२७॥
पञ्चेमा रश्मयो मूलाद्यधिष्ठानतया परिकल्पनीयाः ॥२८॥
वाक्कामशक्तयोऽनुलोमविलोमाः पुनरनुलोमाः - इति श्रियो
ऽङ्गबाला ॥२९॥
भुवना कमला सुभगा तारो नमो भगवति पूर्णे शेखरमन्न
ममाभिलषितमुक्त्वाऽन्नं देहि दहनजायेति श्रिय
उपाङ्गमन्नपूर्णा ॥३०॥
प्रणवः पाशादित्र्यर्णा एहि परमेश्वरीत्युक्त्वा
वह्निवामाक्ष्युक्तिरिति श्रीप्रत्यङ्गमश्वारूढा ॥३१॥
तारित्रिकं सप्तममुद्रा
शिवशक्तिसंवर्तपुपञ्चमपुरन्दरवरयूं
शक्तिशिवक्षमान्ते वादिवरयीं
शिवभृगुत्रिशूलबिन्दुभृगुशिवत्रिशूलविसृष्टयः
श्रीपूर्वं स्वगुरुनामतोऽष्टाक्षरी चेति श्रीपादुका च ॥३२॥
एताभिश्चतसृभिर्युक्ता मूलविद्या साम्राज्ञी मूलाधारे विलोचनीया ॥३३॥
मादनशक्तिबिन्दुमालिनीवासवमायाघोषदोषाकर
कन्दर्पगगनमघवद्भुवनभृगुपुष्पबाणभूमायेति
सेयं तस्या महाविद्या ॥३४॥
वाङ्नतिरुच्छिष्टचाण्डलि मातमुक्त्वा गि सर्वपदाद्वशङ्करि
वह्निवामलोचनेति श्यामाऽङ्गं लघुश्यामा ॥३५॥
कुमारीमुच्चार्य वदद्वन्द्वं वाक्पदं वादिनि वह्निप्रियेति
श्यामोपाङ्गं वाग्वादिनी ॥३६॥
प्रणव ओपिनाकुदम्पवृपसस्यैचशाचामाहदशब्दाः
ष्ठाधानलीतैःरिताविःर्ववाईनारुमिहवायेच्छेखरा
नकुली श्यामाप्रत्यङ्गम् ॥३७॥
ललितापादुकादित्रिकस्थाने कुमारी योज्या शिष्टं तद्वत् - इति
श्यामापादुका च ॥३८॥
चतसृभिर्युक्ता हृच्चक्रे श्यामा यष्टव्या ॥३९॥
तद्विद्या तु त्रितारी कुमारी नभवश्रीतंश्वसजम
हासमुरंनिमायासरावकसस्त्रीरुवकस
दुमृवकससवकसलोवकाकंवमायहावर्णा
ओंमोगतिमागीरिर्वननोरिर्वख
जिमदनश्रींर्वजशंरिर्वपुषशंरिर्व
ष्टगशंरिर्वत्वशंरिर्वकशंरिमुमेशनस्वाऽन्त
मन्त्रादि बीजषट्कं प्रातिलोम्यमिति अष्टनवतिवर्णाः ॥४०॥
हरः सबिन्दुर्वापूर्वराहि स्थाणुः सबिन्दुरुन्मत्तपदं
भैशब्दो रविपादुकाभ्यां नम - इति वार्ताल्यङ्गं लघुवार्ताली ॥४१॥
वेदादिभुवनं नमो वाराहि घोरे स्वप्नं ठद्वितयं अग्निदारा -
इति वार्ताल्युपाङ्गं स्वप्नवार्ताली स्वप्ने शुभाशुभफलवक्त्री ॥४२॥
वाग्घृदयं भगवति तिरस्करिणि महामाये
पशुपदाज्जनमनश्चक्षुस्तिरस्करणं कुरु द्वितयं वर्म फट्
पावकपरिग्रह इति वार्तालीप्रत्यङ्गं तिरस्करिणी ॥४३॥
श्यामापादुकामन्त्रादित्रिबीजमपहाय वाग्ग्लौम् - इति योज्यम् ।
एषा वार्तालीपादुका ॥४४॥
विद्याभिरेताभिर्युक्ता फालचक्रे परिपूज्या भगवतीयं
भूदारमुखी ॥४५॥
मनुरिदमीयोऽयं वाक्पुटितं ग्लौं
न भववालिर्तावाहिरावहखिरामुअंअंनिमः-
धेधिनजञ्जंनिमः हेहिन स्तंस्तंनिमःर्वष्ट
दुनांर्वेसवाक्त्तक्षुखतिह्वाभकुकुशीवशब्दा
यथाक्रमं मोगतिर्तावालिरावाहिरामुवहखि
धेधिनरुंरुंनिमः भेभिनमोमोनिमः भेभि
नसदुप्रष्टासषांर्वचिचर्मुगजिस्तंनं
रुरुघ्रंश्यंशब्दोपेता वाक् ग्लौं विसृष्ट्यन्ताश्च
सप्तमाश्चत्वारो वर्मास्त्राय फडिति द्वादशोत्तरशताक्षरा ॥४६॥
पञ्चमैकादशबीजवर्जा श्रीरेव श्रीपूर्तिविद्या ब्रह्मकोटरे
यष्टव्या ॥४७॥
श्यामापादुकाप्रथमत्रिकस्थाने तारत्रयं कुमारी वाक् ग्लौं
इति योज्यम् । ततः परस्ताच्छेषं समानम् ॥४८॥
इयं महापादुका सर्वमन्त्रसमष्टिरूपिणी स्वैक्यविमर्शिनी
महासिद्धिप्रदायिनी द्वादशान्ते यष्टव्या ॥४९॥
एवं रश्मिमाला सम्पूर्णा । सर्वगात्रः शुद्धविद्यामयतनुः
स एव परमशिवः ॥५०॥
अथ विघ्न-देवताः । इरिमिलिकिरिकिलिपदात् परिमिरोमित्येकः
। प्रणवो माया नमो भगवति महात्रिपुराद्भैवर्णाद्रविपदमनु
मम त्रैपुररक्षां कुरु कुरु - इति द्वितीयः । संहर संहर
विघ्नरक्षोविभीषकान् कालय हुं फट् स्वाहा - इति तृतीयः । ब्लूं
रक्ताभ्यो योगिनीभ्यो नमः - इति चतुर्थः । सां सारसाय बह्वाशनाय
नमः - इति पञ्चमः । दुमुलुषुमुलुषु माया चामुण्डायै नमः -
इति षष्ठः । एते मनवो ललिताजपविघ्नदेवताः ॥५१॥
हसन्ति हसितालापे पदं मातमुक्त्वा गीपरिचारिके मम
भयविघ्ननाशं कुरुद्वितयं सविसर्गठत्रितयमिति
श्यामाविघ्नदेवी ॥५२॥
स्तं स्तम्भिन्यै नमः - इति कोलमुखीविघ्नदेवी ॥५३॥
एते तत्तज्जपारम्भे जप्तव्याः ॥५४॥
ललिता प्राह्णे । अपराह्णे श्यामा । वार्ताली रात्रौ । ब्राह्मे मुहूर्ते परा ॥५५॥
व्यवहारदेशस्वात्म्यप्राणोद्वेगसहायामयवयांसि प्रविचार्यैव
तदनुकूलः पञ्चमादिपरामर्शः ॥५६॥
सर्वभूतैरविरोधः ॥५७॥
परिपन्थिषु निग्रहः ॥५८॥
अनुग्रहः संश्रितेषु ॥५९॥
गुरुवत् गुरुपुत्रकलत्रादिषु वृत्तिः ॥६०॥
आदिमस्य स्वयं सेवनमागमदृष्ट्या दोषदं त्याज्यम् ॥६१॥
सानन्दस्य रुचिरस्यामोदिनो लघुनो वार्क्षस्य गौडस्य
पिष्टप्रकृतिनः अन्धसो वाल्कलस्य कौसुमस्य वा
यथादेशसिद्धस्य वा तस्य परिग्रहः ॥६२॥
तदनन्तरं मध्यमयोरस्वयमसुविमोचनम् । उपादिमे नायं
नियमः । मध्यमे तु स्वयं संज्ञपने तत्रायं मन्त्रः -
उद्बुध्यस्व पशो त्वं हि नाशिवस्त्वं शिवो ह्यसि ।
शिवोत्कृत्तमिदं पिण्डं मत्तस्त्वं शिवतां व्रज ॥
इति ॥६३॥
सर्वत्र वचनपूर्वं प्रवृत्तिः ॥६४॥
दशकुलवृक्षानुपप्लवः ॥६५॥
स्त्रीवृन्दादिमकलशसिद्धलिङ्गिक्रीडाऽऽकुलकुमारीकुल
सहकाराशोकैकतरुपरेतावनिमत्तवेश्याश्यामारक्त
वसनामत्तेभानां दर्शने वन्दनम् ॥६६॥
पञ्चपर्वसु विशेषार्चा ॥६७॥
आरम्भतरुणयौवनप्रौढतदन्तोन्मनानवस्थोल्लासेषु
प्रौढान्ताः समयाचाराः । ततः परं यथाकामी । स्वैरव्यवहारेषु
वीरावीरेष्वयथामननादधःपातः ॥६८॥
रक्तात्यागविरक्ताऽऽक्रमणोदासीनाप्रलोभनवर्जनम् ॥६९॥
घृणाशङ्काभयलज्जाजुगुप्साकुलजातिशीलानां
क्रमेणावसादनम् ॥७०॥
गुरुप्रगुरुसन्निपाते प्रगुरोः प्रथमं प्रणतिः तदग्रे
तदनुरोधेन तन्नतिवर्जनम् ॥७१॥
अभ्यर्हितेष्वपराङ्मुख्यम् ॥७२॥
मुख्यतया प्रकाशविभावना ॥७३॥
अधिजिगमिषा शरीरार्थासूनां गुरवे धारणम् ॥७४॥
एतदुक्तकरणम् ॥७५॥
अपरीक्षणं तद्वचने व्यवस्था ॥७६॥
सर्वथा सत्यवचनम् ॥७७॥
परदारधनेष्वनासक्तिः ॥७८॥
स्वस्तुतिपरनिन्दामर्मविरुद्धवचनपरिहास
धिक्काराक्रोशत्रासनवर्जनम् ॥७९॥
प्रयत्नेन विद्याऽऽराधनद्वारा पूर्णख्यातिसमावेशनेच्छा
चेत्येते सामायिकाचाराः ॥८०॥
परे च शास्त्रानुशिष्टाः ॥८१॥
इत्थं विदित्वा विधिवदनुष्ठितवतः कुलनिष्ठस्य सर्वतः
कृतकृत्यता शरीरत्यागे श्वपचगृहकाश्योर्नान्तरं
जीवन्मुक्तः ॥८२॥
य इमां दशखण्डीं महोपनिषदं
महात्रैपुरसिद्धान्तसर्वस्वभूतामधीते सः - सर्वेषु
यज्ञेषु यष्टा भवति यं यं क्रतुमधीते तेन तेनास्येष्टं भवति
इति हि श्रूयते इत्युपनिषत् - इति शिवम् ॥८३॥
अथातः सर्वेषां मन्त्राणां अथ स्वेष्टमन्त्रस्य इति विधिवत्,
इत्थं साङ्गां, इयमेव महती विद्या, अथ प्राथमिके चतुरस्रे,
अथ हृच्चक्रस्थितां, एवं गणपतिमिष्ट्वा, इत्थं सद्गुरोः,
अथातो दीक्षां व्याख्यास्यामः । अथ एवं, अथ इत्थं, अथ स्वेष्टेति
पञ्च ॥८४॥
इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-
श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-
महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे
सर्वसाधारणक्रम नाम दशमः खण्डः समाप्तः ॥ १०॥
इति श्रीपरशुरामकल्पसूत्रं प्रथमोभागः सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : February 05, 2026

TOP