संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|परशुराम कल्पसूत्र|परशुरामकल्पसूत्र प्रथम भाग| प्रथमः खण्डः दीक्षाविधिः परशुरामकल्पसूत्र प्रथम भाग अनुक्रमणिका प्रथमः खण्डः दीक्षाविधिः द्वितीयः खण्डः श्रीगणनायकपद्धतिः तृतीयः खण्डः श्रीक्रमः ललिताऽधिकारः चतुर्थः खण्डः ललिताक्रमः श्रीचक्रे परचित्यावाहनम् पञ्चमः खण्डः ललितानवावरणपूजा षष्ठः खण्डः श्यामाक्रमः सप्तमः खण्डः वाराहीक्रमः अष्टमः खण्डः पराक्रमः नवमः खण्डः होमविधिः दशमः खण्डः सर्वसाधारणक्रमः प्रथमः खण्डः दीक्षाविधिः परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे Tags : kalpaparashuramsotraकल्पसूत्रपरशुराम प्रथमः खण्डः दीक्षाविधिः Translation - भाषांतर अथातो दीक्षां व्याख्यास्यामः ॥१॥भगवान् परमशिवभट्टारकः श्रुत्याद्यष्टादशविद्याः सर्वाणिदर्शनानि लीलया तत्तदवस्थाऽऽपन्नः प्रणीय संविन्मय्या भगवत्याभैरव्या स्वात्माभिन्नया पृष्टः पञ्चभिः मुखैः पञ्चाम्नायान्परमार्थसारभूतान् प्रणिनाय ॥२॥तत्रायं सिद्धान्तः ॥३॥षट्त्रिंशत्तत्त्वानि विश्वम् ॥४॥शरीरकञ्चुकितः शिवो जीवो निष्कञ्चुकः परशिवः ॥५॥स्वविमर्शः पुरुषार्थः ॥६॥वर्णात्मका नित्याः शब्दाः ॥७॥मन्त्राणामचिन्त्यशक्तिता ॥८॥सम्प्रदायविश्वासाभ्यां सर्वसिद्धिः ॥९॥विश्वासभूयिष्ठं प्रामाण्यम् ॥१०॥गुरुमन्त्रदेवताऽऽत्ममनःपवनानाम्ऐक्यनिष्फालनादन्तरात्मवित्तिः ॥११॥आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितं तस्याभिव्यञ्जकाःपञ्चमकाराः तैरर्चनं गुप्त्या प्राकट्यान्निरयः ॥१२॥भावनादार्ढ्यादाज्ञासिद्धिः ॥१३॥सर्वदर्शनानिन्दा ॥१४॥अगणनं कस्यापि ॥१५॥सच्छिष्ये रहस्यकथनम् ॥१६॥सदा विद्याऽनुसंहतिः ॥१७॥सततं शिवतासमावेशः ॥१८॥कामक्रोधलोभमोहमदमात्सर्याविहितहिंसास्तेयलोकविद्विष्टवर्जनम् ॥१९॥एकगुरूपास्तिरसंशयः ॥२०॥सर्वत्र निष्परिग्रहता ॥२१॥फलं त्यक्त्वा कर्मकरणम् ॥२२॥अनित्यकर्मलोपः ॥२३॥मपञ्चकालाभेऽपि नित्यक्रमप्रत्यवमृष्टिः ॥२४॥निर्भयता सर्वत्र ॥२५॥सर्वं वेद्यं हव्यमिन्द्रियाणि स्रुचः शक्तयोज्वालाःस्वात्मा शिवः पावकः स्वयमेव होता ॥२६॥निर्विषयचिद्विमृष्टिः फलम् ॥२७॥आत्मलाभान्न परं विद्यते ॥२८॥सैषा शास्त्रशैली ॥२९॥वेश्या इव प्रकटा वेदादिविद्याः ।सर्वेषु दर्शनेषु गुप्तेयं विद्या ॥३०॥तत्र सर्वथा मतिमान् दीक्षेत ॥३१॥दीक्षास्तिस्रः शाक्ती शाम्भवी मान्त्री चेति ।तत्र शाक्ती शक्तिप्रवेशनात् शाम्भवी चरणविन्यासात्मान्त्री मन्त्रोपदिष्टया सर्वाश्च कुर्यात् ॥३२॥एकैकां वेत्येके ॥३३॥सद्गुरुः क्रमं प्रवर्त्य साङ्गं हुत्वा तरुणोल्लासवान् शिष्यमाहूय वाससामुखं बद्ध्वा गणपतिललिताश्यामावार्तालीपरापात्रबिन्दुभिस्तमवोक्ष्य सिद्धान्तं श्रावयित्वा ॥३४॥तच्छिरसि रक्तशुक्लचरणं भावयित्वा तदमृतक्षालितंसर्वशरीरमलङ्कुर्यात् ॥३५॥तस्यामूलमाब्रह्मबिलं प्रज्वलन्तीं प्रकाशलहरीं ज्वलदनलनिभांध्यात्वा तद्रश्मिभिस्तस्य पापपाशान् दग्ध्वा ॥३६॥त्रिकटुत्रिफलाचतुर्जाततक्कोलमदयन्तीसहदेवीदूर्वाभस्ममृत्तिकाचन्दनकुङ्कुमरोचनाकर्पूरवासितजलपूर्णंवस्त्रयुगवेष्टितं नूतनकलशं बालाषडङ्गेनाभ्यर्च्यश्रीश्यामावार्तालीचक्राणि निक्षिप्य तिसृणामावरणमन्त्रैरभ्यर्च्य संरक्ष्यास्त्रेण प्रदर्श्य धेनुयोनी ॥३७॥शिवयुक्सौवर्णकर्णिके स्वरद्वन्द्वजुष्टकिञ्जल्काष्टके ।क च ट त प य श ळाक्षरवर्गाष्टयुक्ताष्टदले ॥दिगष्टकस्थित ठं वं चतुरश्रे मातृकायन्त्रे शिष्यं निवेश्य ।तेन कुम्भाम्भसा तिसृभिः विद्याभिः स्नपयेत् ॥३८॥सदुकूलं सालेपं साभरणं समालं सुप्रसन्नं शिष्यं पार्श्वेनिवेश्य मातृकां तदङ्गे विन्यस्य विमुक्तमुखकर्पटस्य तस्यहस्ते त्रीन् प्रथमसिक्तान् चन्दनोक्षितान् द्वितीयखण्डान्पुष्पखण्डान्निक्षिप्य तत्त्वमन्त्रैर्ग्रासयित्वादक्षिणकर्णे बालमुपदिश्य पश्चादिष्टमनुं वदेत् ॥३९॥ततस्तस्य शिरसि स्वचरणं निक्षिप्य सर्वान् मन्त्रान् सकृद् वाक्रमेण वा यथाऽधिकारमुपदिश्य स्वाङ्गेषु किमप्यङ्गं शिष्यंस्पर्शयित्वा तदङ्गमातृकावर्णादि द्वयक्षरं त्र्यक्षरंचतुरक्षरं वा आनन्दनाथशब्दान्तं तस्य नाम दिशेत् ॥४०॥बालोपदिष्टेः पूर्वमात्मनः पादुकां षट्तारयुक्तां दद्यात् ॥४१॥आचाराननुशिष्य हार्दचैतन्यमामृश्य विद्यात्रयेणतदङ्गं त्रिः परिमृज्य परिरभ्य मूर्धन्यवघ्राय स्वात्मरूपंकुर्यात् ॥४२॥शिष्योऽपि पूर्णतां भावयित्वा कृतार्थस्तं गुरुं यथाशक्तिवित्तैरुपचर्य विदितवेदितव्योऽशेषमन्त्राधिकारी भवेदितिशिवम् ॥४३॥इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रेदीक्षाविधिर् नाम प्रथमः खण्डः समाप्तः ॥ १॥ N/A References : N/A Last Updated : February 05, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP