नवमः खण्डः होमविधिः

परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे


अथ स्वेष्टमन्त्रस्य होमविधानं व्याख्यास्यामः ॥१॥
चतुरस्रं कुण्डमथवा हस्तायाममङ्गुष्ठोन्नतं स्थण्डिलं
कृत्वा ॥२॥
सामान्यार्घ्यमुपशोध्य तेनावोक्ष्य ॥३॥
प्राचीरुदीचीस्तिस्रस्तिस्रो रेखा लिखित्वा ॥४॥
तासु रेखासु ब्रह्मयमसोमरुद्रविष्ण्विन्द्रान्
षट्तारीनमस्सम्पुटितानभ्यर्च्य ॥५॥
सहस्रार्चिषे हृदयाय नमः स्वस्तिपूर्णाय शिरसे स्वाहा उत्तिष्ठ
पुरुषाय शिखायै वषट् धूमव्यापिने कवचाय हुं सप्तजिह्वाय
नेत्रत्रयाय वौषट् धनुर्धराय अस्त्राय फट् - इति षडङ्गं
विधाय तेन षडङ्गेन कुण्डमभ्यर्च्य ॥६॥
तत्राष्टकोणषट्कोणत्रिकोणात्मकं अग्निचक्रं
विलिख्य पीतायै श्वेतायै अरुणायै कृष्णायै धूम्रायै तीव्रायै
स्फुलिङ्गिन्यै रुचिरायै ज्वालिन्यै नम - इति त्रिकोणमध्ये वह्नेः
पीठशक्तीः सम्पूज्य - तं तमसे रं रजसे सं सत्त्वाय आम्
आत्मने अम् अन्तरात्मने पं परमात्मने ह्रीं ज्ञानात्मने नमः -
इति तत्रैवाभ्यर्चयेत् ॥७॥
ततो जनिष्यमाणवह्नेः पितरौ वागीश्वरीवगीश्वरौ
पीठेऽभ्यर्च्य तयोर्मिथुनीभावं भावयित्वा ह्रीं
वागीश्वरीवागीश्वराभ्यां नमः - इति ध्यात्वा ॥८॥
अरणेः सूर्यकान्तात् द्विजगृहाद्वा वह्निमुत्पाद्य
मृत्पात्रे ताम्रपात्रे वा आग्नेय्यामैशान्यां नैरृत्यां
वा निधाय अग्निशकलं क्राव्यादांशं नैरृत्यां विसार्य
निरीक्षणप्रोक्षणताडनावकुण्ठनादिभिः विशोध्य ॐ
वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा
- इति मूलाधारोद्गतसंविदं ललाटनेत्रद्वारा निर्गमय्य तं
बाह्याग्नियुक्तं पातयेत् ॥९॥
कवचमन्त्रेण इन्धनैराच्छाद्य ॥१०॥
अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णमनलं समिद्धं विश्वतोमुखम् ॥
इत्युपस्थाय ॥११॥
उत्तिष्ठ हरितपिङ्गल लोहिताक्ष सर्वकर्माणि साधय मे देहि
दापय स्वाहा - इति वह्निमुत्थाप्य ॥१२॥
चित्पिङ्गल हन हन दह दह पच पच सर्वज्ञाज्ञापय स्वाहा
इति प्रज्वाल्य ॥१३॥
षट्तारवाचो नमोमन्त्रेण पुंसवनसीमन्तजातकर्म
नामकरणान्नप्राशनचौलोपनयनगोदानविवाह
कर्माण्यमुकाग्नेरमुकं कर्म कल्पयामि नमः - इति विधाय ॥१४॥
परिषिच्य परिस्तीर्य परिधाय ॥१५॥
त्रिणयनमरुणाभं बद्धमौलिं सुशुक्लां-
शुकमरुणमनेकाकल्पमम्भोजसंस्थम् ।
अभिमतवरशक्तिस्वस्तिकाभीतिहस्तं
नमत कनकमालालङ्कृतांसं कृशानुम् ॥
इति ध्यात्वा ॥१६॥
(१) अष्टकोणे जातवेदसे सप्तजिह्वाय हव्यवाहाय अश्वोदराय
वैश्वानराय कौमारतेजसे विश्वमुखाय देवमुखाय नमः - इति
(२) षट्कोणे षडङ्गं (३) त्रिकोणे अग्निमन्त्रेण अग्निं पूजयित्वा ॥१७॥
हिरण्यायै कनकायै रक्तायै कृष्णायै सुप्रभायै अतिरक्तायै
बहुरूपायै नमः - इत्यग्नेः सप्तजिह्वासु मूलशुद्धेनाज्येन
सप्ताहुतीः कुर्यात् ॥१८॥
वैश्वानरोत्तिष्ठ चित्पिङ्गलैरग्नेस्त्रिधाऽऽहुतिं विधाय ॥१९॥
बहुरूपजिह्वायामिष्टां देवतामावाह्य पञ्चोपचारैरुपचर्य ॥२०॥
सर्वासां चक्रदेवीनामेकाहुतिं हुत्वा नमोऽन्तान् पादुकाऽन्तान्
शेषान् मन्त्रान् स्वाहाऽन्तान् विधाय जुहुयात् ॥२१॥
अथ प्रधानदेवतायै दशाहुतीर्जुहुयात् ॥२२॥
यदि काम्यमीप्सेदभीष्टदेवतायै विज्ञाप्य सङ्कल्पं
कृत्वैतावत्कर्मसिद्ध्यर्थमेतावदाहुतीः करिष्यामीति ॥२३॥
तिलाज्यैः शान्त्या, अन्नेनान्नायामृताय, समिच्चूत
पल्लवैर्ज्वरशमाय, दूर्वाभिरायुषे,
कृतमालैर्धनाय, उत्पलैर्भागाय, बिल्वदलै
राज्याय, पद्मैः साम्राज्याय,
शुद्धलाजैः कन्यायै, नन्द्यावर्तैः कवित्वाय,
वञ्जुलैः पुष्टयै, मल्लिकाजातीपुन्नागैर्भाग्याय,
बन्धूकजपाकिंशुकबकुलमधुकरैरैश्वर्याय,
लवणैराकर्षणाय, कदम्बैः सर्ववश्याय, शालितण्डुलैर्धान्याय,
कुङ्कुमरोचनादिसुगन्धैः सौभाग्याय, पलाशपुष्पैः
कपिलाघृतैर्वा तेजसे, धत्तूरकुसुमैरुन्मादाय,
विषवृक्षैः निम्बश्लेष्मातकविभीतकसमिद्भिः
शत्रु-नाशाय, निम्बतैलाक्तलवणैर्मारणाय,
काकोलूकपक्षैर्विद्वेषणाय, तिलतैलाक्तमरीचैः
कासश्वासनाशाय जुहुयात् ॥२४॥
बलिं प्रदाय ॥२५॥
ॐ भूरग्नये च पृथिव्यै च महते च स्वाहा ।
ॐ भुवो वायवे चान्तरिक्षाय च महते च स्वाहा ।
ॐ सुवरादित्याय च दिवे च महते च स्वाहा ।
ॐ भूर्भुवस्सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च
महते च स्वाहा । इति चतुर्भिर्मन्त्रैः महाव्याहृतिहोमं
कृत्वा ॥२६॥
इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतो
जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां
पद्भ्यामुदरेण शिश्ना यत् स्मृतं यदुक्तं यत् कृतं तत्
सर्वं ब्रह्मार्पणं भवतु स्वाहा, इति ब्रह्मार्पणाहुतिं कृत्वा ॥२७॥
चिदग्निं देवतां चात्मन्युद्वासयामि नमः - इत्युद्वास्य ॥२८॥
तद्भस्मतिलकधरो लोकसम्मोहनकारः सुखी विहरेत् । इति शिवम् ॥२९॥
इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-
श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-
महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे
होमविधिर् नाम नवमः खण्डः समाप्तः ॥ ९॥

N/A

References : N/A
Last Updated : February 05, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP