संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|परशुराम कल्पसूत्र|परशुरामकल्पसूत्र प्रथम भाग| षष्ठः खण्डः श्यामाक्रमः परशुरामकल्पसूत्र प्रथम भाग अनुक्रमणिका प्रथमः खण्डः दीक्षाविधिः द्वितीयः खण्डः श्रीगणनायकपद्धतिः तृतीयः खण्डः श्रीक्रमः ललिताऽधिकारः चतुर्थः खण्डः ललिताक्रमः श्रीचक्रे परचित्यावाहनम् पञ्चमः खण्डः ललितानवावरणपूजा षष्ठः खण्डः श्यामाक्रमः सप्तमः खण्डः वाराहीक्रमः अष्टमः खण्डः पराक्रमः नवमः खण्डः होमविधिः दशमः खण्डः सर्वसाधारणक्रमः षष्ठः खण्डः श्यामाक्रमः परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे Tags : kalpaparashuramsotraकल्पसूत्रपरशुराम षष्ठः खण्डः श्यामाक्रमः Translation - भाषांतर इयमेव महती विद्या सिंहासनेश्वरी साम्राज्ञी तस्याःप्रधानसचिवपदं श्यामा तत्क्रमविमृष्टिः सदा कार्या ॥१॥प्रधानद्वारा राजप्रसादनं हि न्याय्यम् ॥२॥ब्राह्मे मुहूर्ते चोत्थाय शयने स्थित्वैव श्रीपादुकां प्रणम्यप्राणान् आयम्य मूलादिद्वादशान्तपर्यन्तं ज्वलन्तीं परसंविदंविचिन्त्य मनसा मूलं त्रिशो जप्त्वा बहिर्निर्गत्य विमुक्तमलमूत्रोदन्तधावनजिह्वाघर्षणकफविमोचननासशोधन-विंशतिगण्डूषान् विधाय ॥३॥मन्त्रभस्मजलस्नानेष्विष्टं विधाय वस्त्रं परिधाय ॥४॥सन्ध्यामुपास्य सवितृमण्डले देवीं सावरणां विचिन्त्य मूलेनत्रिरर्घ्यं दत्त्वा यथाशक्ति सन्तर्प्य ॥५॥यागगृहं प्रविश्यासने आधारशक्तिकमलासनायनम इत्युपविश्य ॥६॥समस्तप्रकटगुप्तसिद्धयोगिनीचक्रश्रीपादुकाभ्यो नमइति शिरस्यञ्जलिमाधाय स्वगुरुपादुकापूजां च विधाय ॥७॥ऐं ह्रः अस्त्राय फट् इत्यस्त्रमन्त्रेण अङ्गुष्ठादिकनिष्ठान्तंकरतलयोः कूर्परयोः देहे च व्यापकत्वेन विन्यस्य ॥८॥यं - इति वायुं पिङ्गलयाऽऽकृष्य देहमुपविशोष्य रं -इति वायुमाकृष्य देहं दग्ध्वा वं - इति वायुमाकृष्यामृतेनदग्धदेहभस्म सिक्त्वा लं - इति वायुमाकृष्य दृढं विधायहंस - इति वायुमाकृष्य शिवचैतन्यमुत्पाद्य ॥९॥मूलमेकश उच्चार्य वायुमाकृष्य त्रिशः उच्चार्य कुम्भयित्वासकृद् उच्चार्य रेचयेत् । एवं रेचकपूरककुम्भकं त्रिधासप्तधा दशधा षोडशधा वा विरच्य तेजोमयतनुः ॥१०॥षडङ्गं बालासहितां मातृकां मूलहृन्मुखेषुरतिप्रीतिमनोभवान् विन्यस्य ॥११॥मूलं सप्तदशधा खण्डयित्वा षट् ब्रह्मबिले त्रीणि ललाटेचत्वारि भ्रूमध्ये दक्षवामेक्षणयोः षट् चाष्टौ सप्तास्येदक्षवामश्रुतिकण्ठेष्वेकैकं दक्षवामांसयोरष्टौ चदश हृदि दश दक्षवामस्तनयोरष्टावष्टौ नव नाभौ द्विःस्वाधिष्ठाने षड् आधार एवं विन्यस्य ॥१२॥पुनराधारादिब्रह्मबिलपर्यन्तंसप्तदशखण्डानुक्तस्थानेषु विन्यस्य ॥१३॥अमृतोदधिमध्यरत्नद्वीपे मुक्तामालाद्यलङ्कृतंचतुर्द्वारसहितं मण्डपं विचिन्त्य तस्यप्रागादिचतुर्द्वारेषु -सां सरस्वत्यै लां लक्ष्म्यै शं शङ्खनिधये पं पद्मनिधये नमः ।लां इन्द्राय वज्रहस्ताय सुराधिपतये ऐरावतवाहनाय सपरिवाराय नमः ।रां अग्नये शक्तिहस्ताय तेजोऽधिपतये अजवाहनाय सपरिवाराय नमः ।टां यमाय दण्डहस्ताय प्रेताधिपतये महिषवाहनाय सपरिवाराय नमः ।क्षां निरृतये खड्गहस्ताय रक्षोऽधिपतये नरवाहनायसपरिवाराय नमः ।वां वरुणाय पाशहस्ताय जलाधिपतये मकरवाहनाय सपरिवाराय नमः ।यां वायवे ध्वजहस्ताय प्राणाधिपतये रुरुवाहनाय सपरिवाराय नमः ।सां सोमाय शङ्खहस्ताय नक्षत्राधिपतये अश्ववाहनाय सपरिवाराय नमः ।हां ईशानाय त्रिशूलहस्ताय विद्याऽधिपतये वृषभवाहनायसपरिवाराय नमः ।ॐ ब्रह्मणे पद्महस्ताय सत्यलोकाधिपतये हंसवाहनाय सपरिवाराय नमः ।श्रीं विष्णवे चक्रहस्ताय नागाधिपतये गरुडवाहनाय सपरिवाराय नमः ।ॐ वास्तुपतये ब्रह्मणे नमः ।इत्येकादशदिक्षु एकादशदेवानर्चयेत् ॥१४॥श्यामाक्रममन्त्राणामादौ त्रितारीकुमारीयोगः कुमारीयोगो वात्रितारी पूर्वोक्ता कुमारी बाला शेषमुत्तानम् ॥१५॥गन्धद्रव्येण लिप्ताङ्गस्ताम्बूलामोदितवदनः प्रसन्नमना भूत्वा ॥१६॥सुवर्णरजतताम्रचन्दनमण्डलेषु बिन्दुत्रिकोणपञ्चकोणाष्टदलषोडशदलाष्टदलचतुर्दलचतुरस्रात्मकं चक्रराजं विलिख्य ॥१७॥मूलेन त्रिवारजप्तेन शुद्धजलेनचतुरस्रवृत्तषट्कोणत्रिकोणबिन्दून् प्रवेशेनमत्स्यमुद्रया विधाय - अं आत्मतत्त्वाय आधारशक्तये वौषट्इत्याधारं प्रतिष्ठाप्य धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनीसुश्रीः सुरूपा कपिला हव्यवाहा कव्यवाहेत्यग्निकला अभ्यर्च्य- उं विद्यातत्त्वाय पद्माननाय वौषट् - इति पात्रं प्रतिष्ठाप्य- तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः सुषुम्ना भोगदाविश्वा बोधिनी धारिणी क्षमा - इति पात्रे सूर्यकला अभ्यर्च्य -मं शिवतत्त्वाय सोममण्डलाय नमः - इति शुद्धजलमापूर्य- अमृता मानदा पूषा तुष्टिः पुष्टी रतिः धृतिः शशिनीचन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा पूर्णा पूर्णामृता -चेति चन्द्रकला अभ्यर्च्य अग्नीशासुरवायुषु मध्ये दिक्षु चषडङ्गानि विन्यस्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य धेनुयोनीप्रदर्श्य - मूलमन्त्रेण सप्तशोऽभिमन्त्र्य तज्जलविप्रुड्भिःयागगृहं पूजोपकरणानि चावोक्ष्य ॥१८॥ताभिरीकाराङ्कितत्रिकोणवृत्तचतुरस्रं मण्डलं विधायतस्मिन् पुष्पाणि विकीर्य पूर्ववदाधारं प्रतिष्ठाप्य अग्निकलाअभ्यर्च्य पात्रं प्रतिष्ठाप्य तस्मिन् पात्रे ह्रीं ऐं महालक्ष्मीश्वरिपरमस्वामिनि ऊर्ध्व शून्यप्रवाहिनि सोमसूर्याग्निभक्षिणिपरमाकाशभासुरे आगच्छागच्छ विश विश पात्रं प्रतिगृह्णप्रतिगृह्ण हुं फट् स्वाहेति पुष्पाञ्जलिं विकीर्य सूर्यकला अभ्यर्च्यब्रह्माण्डाखण्डसम्भूतमशेषरससम्भृतम् ।आपूरितं महापात्रं पीयूषरसमावह ॥इत्यादिममापूर्य द्वितीयं निक्षिप्य अकथादित्रिरेखाऽङ्कितकोणत्रयेहलक्षान् मध्ये हंसं च विलिख्य - मूलेन दशधा अभिमन्त्र्य- चन्द्रकलाः अभ्यर्च्य - अग्नीशासुरवायुषु मध्ये दिक्षुषडङ्गानि विन्यस्य -अस्त्रेण संरक्ष्य - कवचेनावकुण्ठ्यधेनुयोनी प्रदर्शयेत् ॥१९॥चक्रमध्ये श्रीमातमुक्त्वा गीश्वरीमूर्तयेनमः - इति मूर्तिं कल्पयित्वा भूयः श्रीमातमुक्त्वागीश्वर्यमृतचैतन्यमावाहयामि - इत्यावाह्य षोडशभिरुपचर्यआशुशुक्षणित्र्यक्षरक्षःप्रभञ्जनदिषु देव्यामौलौ परितश्च पूज्या अङ्गदेव्यः । तन्मन्त्राः सर्वजनादयःअष्टौ सप्तैकादश दश पुनर्दशाष्टाविंशतिखण्डाःत्रितारीकुमारीवागादयः सजातयः सामान्यमनुयुक्ताः ॥२०॥पश्चादावरणपूजां कुर्यात् ॥२१॥सर्वचक्रदेवताऽर्चनानि वामकराङ्गुष्ठानामिकासन्दष्टद्वितीयशकलगृहीतश्रीपात्रप्रथमबिन्दुसहपतितैःदक्षकराक्षतपुष्पक्षेपैः कुर्यात् ॥२२॥त्रिकोणे रतिप्रीतिमनोभवान् ॥२३॥पञ्चारमूले पुर आदिक्रमेण द्रां द्रावणबाणाय - द्रींशोषणबाणाय - क्लीं बन्धनबाणाय - ब्लूं मोहनबाणाय -सः उन्मादनबाणाय नमः - इति तदग्रे मायाकामवाग्ब्लूं स्त्रीमुपजुष्टाःकाममन्मथकन्दर्पमकरकेतनमनोभवाः ॥२४॥अष्टदलमूले ब्राह्मी-महेश्वरी-कौमारी-वैष्णवी-वाराही-माहेन्द्री-चामुण्डा-चण्डिकाः,सेन्दुस्वरयुग्मान्त्यादयः पूज्याः । तदग्रेलक्ष्मीसरस्वती-रति-प्रीति-कीर्ति-शान्ति-पुष्टि-तुष्टयः ॥२५॥षोडशदले वामा-ज्येष्ठा-रौद्री-शान्ति-श्रद्धा-सरस्वती-क्रियाशक्ति-लक्ष्मी-सृष्टि-मोहिनी-प्रमथिनी-आश्वासिनी-वीची-विद्युन्मालिनी-सुरानन्दा-नागबुद्धिकाः ॥२६॥अष्टदले असिताङ्ग-रुरु-चण्ड-क्रोधन-उन्मत्त-कपाल-भीषण-संहाराः सदण्डिस्वरयुग्मादिसंयुक्ता भैरवान्ताश्च भावनीयाः ॥२७॥चतुर्दलं मायुक्ततङ्गी सिद्धलक्ष्मीश्चमहामायुक्ततङ्गी महासिद्धलक्ष्मीश्च ॥२८॥गं गणपति - दुं दुर्गा - बं बटुक - क्षं क्षेत्रपालाःचतुरस्रे सम्पूज्याः ॥२९॥सां सरस्वत्यै नमः इतिप्रभृति वास्तुपतये ब्रह्मणे नमःइतिपर्यन्तं पुनस्तत्रैवाभ्यर्च्य ॥३०॥हंसमूर्तिपरप्रकाशपूर्णनित्यकरुणसम्प्रदायगुरूंश्चतुरस्रपूर्वरेखायामभ्यर्च्य ॥३१॥स्वशिरसि सामान्यविशेषपादुके अभ्यर्चयेत् ॥३२॥पुनर्देवीमभ्यर्च्य बालया षोडशोपचारान् विधाय ॥३३॥शुद्धजलेन त्रिकोणवृत्तचतुरस्रंविधायार्धान्नपूर्णसलिलं सादिमोपादिममध्यमंसु[स]गन्धपुष्पं साधारं पात्रं निधाय ॥३४॥श्रीमातमुक्त्वा गीश्वरीमं बलिं गृह्ण गृह्णहुं फट् स्वाहा श्रीमातमुक्त्वा गीश्वरि शरणागतंमां त्राहि त्राहि हुं फट् स्वाहा क्षेत्रपालनाथेमंबलिं गृह्ण गृह्ण फट् स्वाहा - इति मन्त्रत्रयेणवामपार्ष्णिघातकरास्फोटसमुदञ्चितवक्त्रनाराचमुद्राभिःबलिं प्रदाय ॥३५॥श्यामलां शक्तिमाहूय बालया तामभ्यर्च्य तस्या हस्त आदिमोपादिमौदत्त्वा तत्त्वं शोधयित्वा तच्छेषमुररीकृत्य योग्यैः सहहविश्शेषं स्वीकुर्यात् ॥३६॥एवं नित्यसपर्यां कुर्वन् लक्षजपं जप्त्वा तद्दशांशक्रमेणच होमतर्पणब्राह्मणभोजनानि विदध्यात् ॥३७॥एतन्मनुजापी न कदम्बं छिन्द्यात् गिरा कालीति न वदेत्वीणावेणुनर्तनगायनगाथागोष्ठीषु न पराङ्मुखो गच्छेत्गायकं न निन्द्यात् ॥३८॥ललितोपासको नेक्षुखण्डं भक्षयेत्न दिवा स्मरेद् वार्तालीं - न जुगुप्सेत सिद्धद्रव्याणि -न कुर्यात् स्त्रीषु निष्ठुरतां - वीरस्त्रियं न गच्छेत् -न तं हन्यात् - न तद्द्रव्यमपहरेत् -नात्मेच्छयामपञ्चकमुररी कुर्यात् कुलभ्रष्टैः सह नासीत्- न बहु प्रलपेत् - योषितं सम्भाषमाणामप्रतिसम्भाषमाणो नगच्छेत् - कुलपुस्तकानि गोपायेत् - इति शिवम् ॥३९॥॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रेश्यामाक्रमोप नाम षष्ठः खण्डः समाप्तः ॥ ६॥ N/A References : N/A Last Updated : February 05, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP