संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|परशुराम कल्पसूत्र|परशुरामकल्पसूत्र प्रथम भाग| अष्टमः खण्डः पराक्रमः परशुरामकल्पसूत्र प्रथम भाग अनुक्रमणिका प्रथमः खण्डः दीक्षाविधिः द्वितीयः खण्डः श्रीगणनायकपद्धतिः तृतीयः खण्डः श्रीक्रमः ललिताऽधिकारः चतुर्थः खण्डः ललिताक्रमः श्रीचक्रे परचित्यावाहनम् पञ्चमः खण्डः ललितानवावरणपूजा षष्ठः खण्डः श्यामाक्रमः सप्तमः खण्डः वाराहीक्रमः अष्टमः खण्डः पराक्रमः नवमः खण्डः होमविधिः दशमः खण्डः सर्वसाधारणक्रमः अष्टमः खण्डः पराक्रमः परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे Tags : kalpaparashuramsotraकल्पसूत्रपरशुराम अष्टमः खण्डः पराक्रमः Translation - भाषांतर इति विधिवत्कृतवार्तालीवरिवस्यः सिंहासनविद्याहृदयमुनुत्तरंपराबीजरूपं धाम तत्क्रमपूर्वं विमृशेत् ॥१॥प्रभुहृदयज्ञातुः पदे पदे सुखानि भवन्ति ॥२॥अथोऽनुत्तरपद्धतिं व्याख्यास्यामः ॥३॥कल्ये समुत्थाय ब्रह्मकोटरवर्तिनिसहस्रदलकमले सन्निविष्टायाः सौवर्णरूपायाःपरायाश्चरणयुगलविगलदमृतरसविसरपरिप्लुतंवपुः ध्यात्वा ॥४॥स्नातः शुचिवासोवसानः सौः वर्णेन त्रिराचम्य द्विःपरिमृज्य सकृद् उपस्पृश्य चक्षुषी नासिके श्रोत्रे अंसेनाभिं हृदयं शिरश्चावमृश्य एवं त्रिराचम्य ॥५॥ऊर्णामृदुशुचितममासनं सौवर्णसूर्यजपाभिमन्त्रितंमूलमन्त्रोक्षितमधिष्ठाय ॥६॥उदग्वदनो मौनी भूषितविग्रहो मूलपूर्वेण देशिकमनुनामस्तके देशिकमिष्ट्वा ॥७॥वामपार्ष्णिघातैः छोटिकात्रयेण पातालादिगतान् भेदावभासिनःविघ्नानुत्सार्य ॥८॥शिरोमुखहृन्मूलसर्वाङ्गेषु मूलं विन्यस्य ॥९॥काकचञ्चूपुटाकृतिना मुखेन सञ्चोष्यानिलं सप्तविंशतिशो मूलंजप्त्वा वेद्यं नाभौ संमुद्र्य पुनः सप्तविंशतिशो जप्त्वा अङ्गुष्ठेनशिखां बध्वा पुनरनिलमापूर्य तेन मूले चिदग्निमुत्थाप्य तत्रवेद्यस्य विलयं विभाव्य ॥१०॥गोमयेनोपलिप्तचतुरस्रभूतलेप्रवहत्पार्श्वकरकृतया मत्स्यमुद्रया दिव्यगन्धाम्बुयुतयाभूव्योमवायुवह्निमण्डलानि कृत्वा ॥११॥श्यामावत् सामान्यविशेषार्घ्ये सादयेत् ॥१२॥सर्वेऽपि पराक्रममनवः सौः वर्णपूर्वाः कार्याः ॥१३॥भृगुचतुर्दशषोडशद्विरावृत्या वर्णषडङ्गंसर्वमूलषडावृत्या मन्त्रषडङ्गं च कृत्वा ॥१४॥उभाभ्यामर्चयित्वा ॥१५॥मूलमुच्चार्य तां चिन्मयीमानन्दलक्षणाम्अमृतकलशपिशितहस्तद्वयां प्रसन्नां देवीं पूजयामि नमःस्वाहा - इति सुधादेवीमभ्यर्च्य तया सम्प्रोक्ष्य वरिवस्यावस्तूनि ॥१६॥पूर्वं नाभौ सम्मुद्रितं चिदग्निविलीनं तप्तायोद्रववत्षट्त्रिंशत्तत्त्वकदम्बकं हृत्सरोजे समानीय ॥१७॥मूलजप्तैः कुसुमक्षेपैः वक्ष्यमाणैश्च मन्त्रैरासनकॢप्तिंकुर्यात् - मूलादि-योग-पीठाय नमः - इत्यन्तानि तानि चपृथिव्यप्तेजोवाय्वाकाशगन्धरसरूपस्पर्शशब्दोपस्थपायुपादपाणिवाग्घ्राणजिह्वाचक्षुस्त्वक्श्रोत्राहङ्कारबुद्धिमनःप्रकृतिपुरुषनियतिकालरागकलाविद्यामायाशुद्धविद्येश्वरसदाशिवशक्तिशिवाः।एवं पराचक्रं कृत्वा ॥१८॥तत्रैतदैक्यविमर्शरूपिणीं षोडशकलां परां देवीमावाह्य ॥१९॥अकलङ्कशशाङ्काभा त्र्यक्षा चन्द्रकलावती ।मुद्रापुस्तलसद्बाहुः पातु मां परमा कला ॥इति ध्यात्वा ॥२०॥मूलादिमुच्चार्य प्रकाशरूपिणी पराभट्टारिकामूलमध्यमुच्चार्य विमर्शरूपिणी पराभट्टारिकामूलान्त्यमुच्चार्य प्रकाशविमर्शरूपिणी पराभट्टारिकेतित्रिभिः देव्या मूलहृन्मुखेष्वभ्यर्च्य समस्तमुच्चार्यमहाप्रकाशविमर्शरूपिणी पराभट्टारिकेति दशवारमवमृश्यतामेव देवीं कालाग्निकोटिदीप्तां ध्यात्वा ॥२१॥तस्यां क्रियासमभिव्याहारेण वेद्यमखिलं हुत्वा ॥२२॥मूलमुच्चार्य सामान्यपादुकया स्वमस्तकस्थाय गुरवे अर्घ्यंनिवेद्य ॥२३॥पुनश्चिदग्निमुद्दीप्तं विभाव्य ॥२४॥दिव्यौघं तिस्रः पादुकाः सिद्धौघं तिस्रः मानवौघमष्टावभ्यर्च्य ॥२५॥पराभट्टारिकाऽघोरश्रीकण्ठशक्तिधरक्रोधत्र्यम्बकानन्दप्रतिभादेव्यम्बा वीरसंविदानन्दमधुरादेव्यम्बाज्ञानश्रीरामयोगाः - इति पराक्रमपादुकाः ॥२६॥ततः कलामनुना बलिं निवेद्य ॥२७॥हविश्शेषमात्मसात्कुर्यात् । इति शिवम् ॥२८॥इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रेपराक्रमो नामाष्टमः खण्डः समाप्तः ॥ ८॥ N/A References : N/A Last Updated : February 05, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP