अष्टमः खण्डः पराक्रमः

परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे


इति विधिवत्कृतवार्तालीवरिवस्यः सिंहासनविद्याहृदयमुनुत्तरं
पराबीजरूपं धाम तत्क्रमपूर्वं विमृशेत् ॥१॥
प्रभुहृदयज्ञातुः पदे पदे सुखानि भवन्ति ॥२॥
अथोऽनुत्तरपद्धतिं व्याख्यास्यामः ॥३॥
कल्ये समुत्थाय ब्रह्मकोटरवर्तिनि
सहस्रदलकमले सन्निविष्टायाः सौवर्णरूपायाः
परायाश्चरणयुगलविगलदमृतरसविसरपरिप्लुतं
वपुः ध्यात्वा ॥४॥
स्नातः शुचिवासोवसानः सौः वर्णेन त्रिराचम्य द्विः
परिमृज्य सकृद् उपस्पृश्य चक्षुषी नासिके श्रोत्रे अंसे
नाभिं हृदयं शिरश्चावमृश्य एवं त्रिराचम्य ॥५॥
ऊर्णामृदुशुचितममासनं सौवर्णसूर्यजपाभिमन्त्रितं
मूलमन्त्रोक्षितमधिष्ठाय ॥६॥
उदग्वदनो मौनी भूषितविग्रहो मूलपूर्वेण देशिकमनुना
मस्तके देशिकमिष्ट्वा ॥७॥
वामपार्ष्णिघातैः छोटिकात्रयेण पातालादिगतान् भेदावभासिनः
विघ्नानुत्सार्य ॥८॥
शिरोमुखहृन्मूलसर्वाङ्गेषु मूलं विन्यस्य ॥९॥
काकचञ्चूपुटाकृतिना मुखेन सञ्चोष्यानिलं सप्तविंशतिशो मूलं
जप्त्वा वेद्यं नाभौ संमुद्र्य पुनः सप्तविंशतिशो जप्त्वा अङ्गुष्ठेन
शिखां बध्वा पुनरनिलमापूर्य तेन मूले चिदग्निमुत्थाप्य तत्र
वेद्यस्य विलयं विभाव्य ॥१०॥
गोमयेनोपलिप्तचतुरस्रभूतले
प्रवहत्पार्श्वकरकृतया मत्स्यमुद्रया दिव्यगन्धाम्बुयुतया
भूव्योमवायुवह्निमण्डलानि कृत्वा ॥११॥
श्यामावत् सामान्यविशेषार्घ्ये सादयेत् ॥१२॥
सर्वेऽपि पराक्रममनवः सौः वर्णपूर्वाः कार्याः ॥१३॥
भृगुचतुर्दशषोडशद्विरावृत्या वर्णषडङ्गं
सर्वमूलषडावृत्या मन्त्रषडङ्गं च कृत्वा ॥१४॥
उभाभ्यामर्चयित्वा ॥१५॥
मूलमुच्चार्य तां चिन्मयीमानन्दलक्षणाम्
अमृतकलशपिशितहस्तद्वयां प्रसन्नां देवीं पूजयामि नमः
स्वाहा - इति सुधादेवीमभ्यर्च्य तया सम्प्रोक्ष्य वरिवस्यावस्तूनि ॥१६॥
पूर्वं नाभौ सम्मुद्रितं चिदग्निविलीनं तप्तायोद्रववत्
षट्त्रिंशत्तत्त्वकदम्बकं हृत्सरोजे समानीय ॥१७॥
मूलजप्तैः कुसुमक्षेपैः वक्ष्यमाणैश्च मन्त्रैरासनकॢप्तिं
कुर्यात् - मूलादि-योग-पीठाय नमः - इत्यन्तानि तानि च
पृथिव्यप्तेजोवाय्वाकाशगन्धरसरूपस्पर्श
शब्दोपस्थपायुपादपाणिवाग्घ्राणजिह्वाचक्षुस्त्वक्श्रोत्रा
हङ्कारबुद्धिमनःप्रकृतिपुरुषनियतिकाल
रागकलाविद्यामायाशुद्धविद्येश्वरसदाशिवशक्तिशिवाः।
एवं पराचक्रं कृत्वा ॥१८॥
तत्रैतदैक्यविमर्शरूपिणीं षोडशकलां परां देवीमावाह्य ॥१९॥
अकलङ्कशशाङ्काभा त्र्यक्षा चन्द्रकलावती ।
मुद्रापुस्तलसद्बाहुः पातु मां परमा कला ॥
इति ध्यात्वा ॥२०॥
मूलादिमुच्चार्य प्रकाशरूपिणी पराभट्टारिका
मूलमध्यमुच्चार्य विमर्शरूपिणी पराभट्टारिका
मूलान्त्यमुच्चार्य प्रकाशविमर्शरूपिणी पराभट्टारिकेति
त्रिभिः देव्या मूलहृन्मुखेष्वभ्यर्च्य समस्तमुच्चार्य
महाप्रकाशविमर्शरूपिणी पराभट्टारिकेति दशवारमवमृश्य
तामेव देवीं कालाग्निकोटिदीप्तां ध्यात्वा ॥२१॥
तस्यां क्रियासमभिव्याहारेण वेद्यमखिलं हुत्वा ॥२२॥
मूलमुच्चार्य सामान्यपादुकया स्वमस्तकस्थाय गुरवे अर्घ्यं
निवेद्य ॥२३॥
पुनश्चिदग्निमुद्दीप्तं विभाव्य ॥२४॥
दिव्यौघं तिस्रः पादुकाः सिद्धौघं तिस्रः मानवौघमष्टावभ्यर्च्य ॥२५॥
पराभट्टारिकाऽघोरश्रीकण्ठशक्तिधरक्रोधत्र्यम्बकानन्द
प्रतिभादेव्यम्बा वीरसंविदानन्दमधुरादेव्यम्बा
ज्ञानश्रीरामयोगाः - इति पराक्रमपादुकाः ॥२६॥
ततः कलामनुना बलिं निवेद्य ॥२७॥
हविश्शेषमात्मसात्कुर्यात् । इति शिवम् ॥२८॥
इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-
श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-
महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे
पराक्रमो नामाष्टमः खण्डः समाप्तः ॥ ८॥

N/A

References : N/A
Last Updated : February 05, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP