संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|परशुराम कल्पसूत्र|परशुरामकल्पसूत्र प्रथम भाग| चतुर्थः खण्डः ललिताक्रमः श्रीचक्रे परचित्यावाहनम् परशुरामकल्पसूत्र प्रथम भाग अनुक्रमणिका प्रथमः खण्डः दीक्षाविधिः द्वितीयः खण्डः श्रीगणनायकपद्धतिः तृतीयः खण्डः श्रीक्रमः ललिताऽधिकारः चतुर्थः खण्डः ललिताक्रमः श्रीचक्रे परचित्यावाहनम् पञ्चमः खण्डः ललितानवावरणपूजा षष्ठः खण्डः श्यामाक्रमः सप्तमः खण्डः वाराहीक्रमः अष्टमः खण्डः पराक्रमः नवमः खण्डः होमविधिः दशमः खण्डः सर्वसाधारणक्रमः चतुर्थः खण्डः ललिताक्रमः श्रीचक्रे परचित्यावाहनम् परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे Tags : kalpaparashuramsotraकल्पसूत्रपरशुराम चतुर्थः खण्डः ललिताक्रमः श्रीचक्रे परचित्यावाहनम् Translation - भाषांतर अथ हृच्चक्रस्थिताम्अन्तस्सुषुम्णापद्माटवीनिर्भेदनकुशलां निरस्तमोहतिमिरांशिवदीपदीप्तिमाद्यां संविदं वहन्नासपुटेन निर्गमय्यलीलाऽऽकलितवपुषं तां त्रिखण्डमुद्राशिखण्डे कुसुमाञ्जलौहस्ते समानीय ॥१॥मायालक्ष्मी परा उच्चार्य देवीनाम चामृतचैतन्यमूर्तिंकल्पयामि नमः - इति कल्पयित्वा ॥२॥हसरयुजं वाचं हसयुक्तां कलरींहसरचतुर्दशषोडशानप्युच्चार्यमहापद्मवनान्तःस्थे कारणानन्दविग्रहे ।सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥इति बैन्दवचक्रे परचितिमावाह्य ॥३॥चतुष्षष्ट्युपचारान् कुर्यात् । सर्वे उपचारमन्त्राः त्रितारीपूर्वाःकल्पयामि नमः - इत्यन्ताः कर्तव्याः ॥४॥त्रितारीमुच्चार्य पाद्यं कल्पयामि नमः इति क्रमेणआभरणावरोपणं सुगन्धितैलाभ्यङ्गं मज्जनशालाप्रवेशनंमज्जनमण्डपमणिपीठोपवेशनं दिव्यस्नानीयोद्वर्तनम्उष्णोदकस्नानम् कनककलशच्युतसकलतीर्थाभिषेकंधौतवस्त्रपरिमार्जनम्अरुणदुकूलपरिधानम् अरुणकुचोत्तरीयम्आलेपमण्डपप्रवेशनमालेपमण्डपमणिपीठोपवेशनंचन्दनागरुकुङ्कुम सङ्कुमृगमदकर्पूरकस्तूरीगोरोचनादिदिव्यगन्धसर्वाङ्गीणविलेपनं केशभरस्य कालागरुधूपंमल्लिकामालतीजातीचम्पकाशोकशतपत्रपूगकुड्मलीपुन्नागकल्हार-मुख्यसर्वर्तुकुसुममालांभूषणमण्डपप्रवेशनं भूषणमण्डपमणिपीठोपवेशनंनवमणिमकुटं चन्द्रशकलं सीमन्तसिन्दूरं तिलकरत्नंकालाञ्जनं पालीयुगलं मणिकुण्डलयुगलं नासाभरणम्अधरयावकं प्रथमभूषणं कनकचिन्ताकं पदकं महापदकंमुक्तावलिमेकावलिं छन्नवीरं केयूरयुगलचतुष्टयंवलयावलिमूर्मिकावलिं काञ्चीदाम कटिसूत्रं सौभाग्याभरणंपादकटकं रत्ननूपुरं पादाङ्गुलीयकमेककरे पाशमन्यकरेअङ्कुशमितरकरे पुण्ड्रेक्षुचापमपरकरे पुष्पबाणान्श्रीमन्माणिक्यपादुके स्वसमानवेषाभिरावरणदेवताभिःसह महाचक्राधिरोहणं कामेश्वराङ्कपर्यङ्कोपवेशनम्अमृतासवचषकमाचमनीयं कर्पूरवीटिकाम्आनन्दोल्लासविलास-हासं मङ्गलारार्तिकं छत्रं चामरयुगलंदर्पणं तालवृन्तं गन्धं पुष्पं धूपं दीपं नैवेद्यं कल्पयामिनमः - इति चतुष्षष्ट्युपचारान् विधाय ॥५॥नवमुद्राश्च प्रदर्श्य ॥६॥मूलेन त्रिधा सन्तर्प्य ॥७॥देव्या अग्नीशासुरवायुषु मध्ये दिक्षु च षडङ्गानि पूजयित्वा ॥८॥वाक्सकलह्रीं नित्यक्लिन्ने मदद्रवे सौः - इति कामेश्वरी ।सर्वत्र नित्याश्रीपादुकेति योज्यम् । वाग्भगभुगे भगिनिभगोदरि भगमाले भगावहे भगगुह्ये भगयोनि भगनिपातिनिसर्वभगवशङ्करि भगरूपे नित्यक्लिन्ने भगस्वरूपे सर्वाणिभगानि मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने क्लिन्नद्रवेक्लेदय द्रावय अमोघे भगविच्चे क्षुभ क्षोभय सर्वसत्त्वान्भगेश्वरि ऐं ब्लूं जें ब्लूं भें ब्लूं हें ब्लूं हेंक्लिन्ने सर्वाणि भगानि मे वशमानय स्त्रीं हर ब्लें ह्रींभग-मालिनी । तारो माया नित्य-क्लिन्ने मद-द्रवे स्वाहा - इतिनित्यक्लिन्ना । प्रणवः क्रों भ्रों क्रौं झ्रौं छ्रौं ज्रौं स्वाहा -इति भेरुण्डा । प्रणवो माया वह्निवासिन्यै नमः - इति वह्निवासिनी ।मायाक्लिन्ने वाक् क्रों नित्यमदद्रवे ह्रीं - इति महावज्रेश्वरी ।माया शिवदूत्यै नमः - इति शिवदूती । प्रणवो माया हुं खे च छेक्षः स्त्रीं हुं क्षें ह्रीं फट् - इति त्वरिता । कुमारी कुलसुन्दरी ।हसकलरडवाग्भवहसकलरडबिन्दुमालिनीहसकलरडचतुर्दशषोडशा- इति नित्या । माया फ्रें स्रूंअङ्कुशपाशस्मरवाग्भवब्लूम्पदनित्यमदद्रवे वर्मफ्रें मायेति नीलपताका । भमरयऊमिति विजया । स्वौमिति सर्वमङ्गला ।तारो नमो भगवति ज्वालामालिनि देवदेविसर्वभूतसंहारकारिके जातवेदसि ज्वलन्ति ज्वल ज्वल प्रज्वलप्रज्वल त्रिजातियुक्तमायारेफसप्तकज्वालामालिनिवर्मफडग्निजायेति ज्वालामालिनी ।(अं) च्कौं - इति चित्रेति पञ्चदश नित्याःप्रथमत्र्यस्ररेखास्थितपञ्चदशस्वरेषु पूज्यः ।विसृष्टौ षोडशीं मूलविद्यया चाभ्यर्च्य ॥९॥मध्ये प्राक्त्र्यस्रमध्यान्तः मुनिवेदनागसङ्ख्यान्यथासम्प्रदायं पादुकान् दिव्यसिद्धमानवौघसिद्धानिष्ट्वापश्चात् स्वशिरसि नाथं यजेत् । एतल्लयाङ्गपूजनम् - इतिशिवम् ॥१०॥इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रेललिताक्रमो नाम चतुर्थः खण्डः समाप्तः ॥ ४॥ N/A References : N/A Last Updated : February 05, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP