संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|परशुराम कल्पसूत्र|परशुरामकल्पसूत्र प्रथम भाग| द्वितीयः खण्डः श्रीगणनायकपद्धतिः परशुरामकल्पसूत्र प्रथम भाग अनुक्रमणिका प्रथमः खण्डः दीक्षाविधिः द्वितीयः खण्डः श्रीगणनायकपद्धतिः तृतीयः खण्डः श्रीक्रमः ललिताऽधिकारः चतुर्थः खण्डः ललिताक्रमः श्रीचक्रे परचित्यावाहनम् पञ्चमः खण्डः ललितानवावरणपूजा षष्ठः खण्डः श्यामाक्रमः सप्तमः खण्डः वाराहीक्रमः अष्टमः खण्डः पराक्रमः नवमः खण्डः होमविधिः दशमः खण्डः सर्वसाधारणक्रमः द्वितीयः खण्डः श्रीगणनायकपद्धतिः परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे Tags : kalpaparashuramsotraकल्पसूत्रपरशुराम द्वितीयः खण्डः श्रीगणनायकपद्धतिः Translation - भाषांतर इत्थं सद्गुरोराहितदीक्षः महाविद्याऽऽराधनप्रत्यूहापोहायगाणनायकीं पद्धतिमामृशेत् ॥१॥ब्राह्मे मुहूर्ते उत्थाय द्वादशान्तेसहस्रदलकमलकर्णिकामध्यनिविष्टगुरुचरणयुगलविगलदमृतरसविसरपरिप्लुताखिलाङ्गोहृदयकमलमध्ये ज्वलन्तंउद्यदरुणकोटिपाटलमशेषदोषनिर्वेषभूतंअनेकपाननं नियमितपवनमनोगतिर्ध्यात्वातत्प्रभापटलपाटलीकृततनुः बहिर्निर्गत्य मुक्तमलमूत्रोदन्तधावनस्नान-वस्त्रपरिधानसूर्यार्घ्यदानानि विधायउद्यदादित्यवर्तिने महागणपतये तत्पुरुषाय विद्महेवक्रतुण्डाय धीमहि ॥ तन्नो दन्ती प्रचोदयात् इत्यर्घ्यं दत्वानित्यकृत्यं विधाय चतुरावृत्तितर्पणं कुर्यात् ।आयुरारोग्यमैश्वर्यं बलं पुष्टिर्महद्यशः ।कवित्वं भुक्तिमुक्ती च चतुरावृत्तितर्पणात् ॥२॥प्रथमं द्वादशवारं मूलमन्त्रेण तर्पयित्वा मन्त्राष्टाविंशतिवर्णान्स्वाहाऽन्तानेकैकं चतुर्वारं मूलं च चतुर्वारं तर्पयित्वा पुनःश्रीश्रीपतिगिरिजागिरिजापतिरतिरतिपतिमहीमहीपतिमहालक्ष्मीमहालक्ष्मीपति ऋद्ध्यामोदसमृद्धिप्रमोदकान्तिसुमुखमदनावतीदुर्मुखमदद्रवाऽविघ्नद्राविणीविघ्नकर्तृवसुधाराशङ्खनिधिवसुमतीपद्मनिधित्रयोदशमिथुनेष्वेकैकां देवतां चतुर्वारं मूलं चतुर्वारं च तर्पयेतेवंचतुश्चत्वारिंशदधिकचतुश्शततर्पणानि भवन्ति ॥३॥अथ यागविधिः - गृहमागत्य स्थण्डिलमुपलिप्य द्वारदेशउभयपार्श्वयोर्भद्रकाल्यै भैरवाय-द्वारोर्ध्वे लम्बोदरायनमः इति अन्तःप्रविश्य आसनमन्त्रेण आसने स्थित्वा प्राणान्आयम्य षडङ्गानि विन्यस्य मूलेन व्यापकं कृत्वा स्वात्मनि देवंसिद्धलक्ष्मीसमाश्लिष्टपार्श्वमर्धेन्दुशेखरमारक्तवर्णंमातुलुङ्गगदापुण्ड्रेक्षुकार्मुकशूलसुदर्शनशङ्ख-पाशोत्पलधान्य-मञ्जरीनिजदन्ताञ्चलरत्नकलशपरिष्कृतपाण्येकादशकंप्रभिन्नकटमानन्दपूर्णमशेषविघ्नध्वंसनिघ्नंविघ्नेश्वरं ध्यात्वा ॥४॥पुरतो मूलसप्ताभिमन्त्रितेन गन्धाक्षतपुष्पपूजितेन शुद्धेनवारिणा त्रिकोणषट्कोणवृत्तचतुरश्राणि विधाय तस्मिन्पुष्पाणि विकीर्य वह्नीशासुरवायुषु मध्ये दिक्षु च षडङ्गानिविन्यस्य अग्निमण्डलाय दशकलाऽऽत्मने अर्घ्यपात्राधारायनमः सूर्यमण्डलाय द्वादशकलाऽऽत्मने अर्घ्यपात्रायनमः सोममण्डलाय षोडशकलाऽऽत्मने अर्घ्यामृताय नमःइति शुद्धजलमापूर्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्यधेनुयोनिमुद्रां प्रदर्शयेत् ॥५॥सप्तवारमभिमन्त्र्य तज्जलविप्रुड्भिरात्मानं पूजोपकरणानिच सम्प्रोक्ष्य तज्जलेन पूर्वोक्तं मण्डलं परिकल्प्य तद्वद्आदिमं संयोज्य तत्रोपादिमं मध्यमं च निक्षिप्यवह्न्यर्केन्दुकलाः अभ्यर्च्य वक्रतुण्डगायत्र्या गणानांत्वेत्यनया ऋचा चाभिमन्त्र्य अस्त्रादिरक्षणं कृत्वातद्बिन्दुभिस्त्रिशः शिरसि गुरुपादुकामाराधयेत् ॥६॥पुरतो रक्तचन्दननिर्मिते पीठे महागणपतिप्रतिमायांवा चतुरस्राष्टदलषट्कोणत्रिकोणमये चक्रेवा तीव्रायै ज्वालिन्यै नन्दायै भोगदायै कामरूपिण्यै उग्रायैतेजोवत्यै सत्यायै विघ्ननाशिन्यै ऋं धर्माय ॠं ज्ञानायऌं वैराग्याय ॡं ऐश्वर्याय ऋं अधर्माय ॠं अज्ञानायऌं अवैराग्याय ॡं अनैश्वर्याय नम इति पीठशक्तीर्धर्माद्यष्टकंचाभ्यर्च्य मूलमुच्चार्य महागणपतिंआवाहयामीत्यावाह्य पञ्चधोपचर्य दशधा सन्तर्प्य मूलेनमिथुनाङ्गब्राह्म्यादीन्द्रादिरूपपञ्चावरणपूजां कुर्यात् ॥७॥त्रिकोणे देवः तस्य षडस्रस्यान्तरालेश्रीश्रीपत्यादिचतुर्मिथुनानि अङ्गानि चऋद्ध्यामोदादिषण्मिथुनानि षडस्रे मिथुनद्वयंषडस्रोभयपार्श्वयोस्तत्सन्धिष्वङ्गानि ब्राह्मयाद्याःअष्टदले चतुरस्राष्टदिक्ष्विन्द्राद्याः पूज्याः सर्वत्रदेवतानामसु श्रीपूर्वं पादुकामुच्चार्य पूजयामीत्यष्टाक्षरींयोजयेत् ॥८॥एवं पञ्चावरणीमिष्ट्वा पुनर्देवं गणनाथं दशधोपतर्प्यषोडशोपचारैरुपचर्य प्रणवमायाऽन्ते सर्वविघ्नकृद्भयःसर्वभूतेभ्यो हुं स्वाहा - इति त्रिः पठित्वा बलिं दत्वागणपतिबुद्ध्यैकं बटुकं सिद्धलक्ष्मीबुद्ध्यैकां शक्तिं चाहूयगन्धपुष्पाक्षतैरभ्यर्च्यादिमोपादिममध्यमान् दत्वा ममनिर्विघ्नं मन्त्रसिद्धिर्भूयादित्यनुग्रहं कारयित्वा नमस्कृत्ययथाशक्ति जपेत् ॥९॥यद्यग्निकार्यसम्पत्तिः बलेः पूर्वं विधिवत् संस्कृतेऽग्नौस्वाहाऽन्तैः श्रीश्रीपत्यादिविघ्नकर्तृपर्यन्तैःमन्त्रैर्हुत्वा पुनरागत्य देवं त्रिवारं सन्तर्प्य योग्यैस्सहमपञ्चकं उररीकृत्य महागणपतिमात्मन्युद्वास्यसिद्धसङ्कल्पः सुखी विहरेत् इति शिवम् ॥१०॥इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रेगणनायकपद्धतिर् नाम द्वितीयः खण्डः समाप्तः ॥ २॥ N/A References : N/A Last Updated : February 05, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP