बदरिकाश्रममाहात्म्यम् - अध्याय ८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ शिव उवाच ॥
ब्रह्मकुण्डाद्दक्षिणतो नरावासगिरिर्महान् ॥
यत्र भगवता मेरुः स्थापितो लोकसुन्दरः ॥१॥
॥ स्कन्द उवाच ॥
कथं भगवता मेरुः स्थापितो नरसन्निधौ ॥
महत्कौतूहलं तात कथ्यतां यदि रोचते ॥२॥
॥ महादेव उवाच ॥
यदा भगवतो वासो विशालायां समागतः ॥
देवा महर्षयः सिद्धाः सविद्याधरचारणाः ॥३॥
विहाय मेरुशृंगाणि भगवद्दर्शनोत्सुकाः ॥
भगवद्दर्शनाह्लादतिरस्कृतसुरालयाः ॥४॥
तदा तु भगवांस्तेषां सुखहेतोः षडानन ॥
उत्पाद्य मेरुशृंगाणि करेणैकेन लीलया ॥
स्थापयामास सर्वेषां भगवान्प्रीतिवर्द्धनः ॥५॥
ततः सर्वे समालोक्य गिरिं कांचननिर्मितम् ॥
प्रसन्नास्तुष्टुवुः सर्वे नारायणमनामयम्॥६॥
॥देवा ऊचुः॥
योस्मत्सुखाय भवविश्रमणाय बिभ्रल्लीलातनूः कनकशैलमिहानिनाय ॥
जेता सुरार्द्दनशतं त्रिदशैकपक्षस्तस्मै विधेम नम उग्रतपःश्रियाय॥७॥
यद्यत्करोति कृपया कृपणार्तितूलशैलाग्निराश्रितकृदेकविदां वरिष्ठः॥
स्वेनैव तेन करणेन स तुष्यतां नो यस्यान्वकारि पुरुषेण न केनचिद्वै ॥८॥
अस्माकमुन्नतधियां विदधाति सम्यक्छिक्षां पितेव करुणो निजलाभपूर्णः॥
त्रैलोक्यरक्षणविचक्षणदृष्टिपातपूर्णामृतांबुधिरसौ विपदः प्रपायात् ॥९॥
॥ ऋषय ऊचुः ॥
येनाध्यस्तं भाति समस्तं जगदेकं क्रीडाभांडं सत्यतयाऽजस्य विभूम्नः ॥
भानां वृदं यद्वदनेप्याश्रितमूर्तिस्तस्मै नित्यं शाश्वत तुभ्यं प्रणमाम ॥१०॥
॥ सिद्धा ऊचुः ॥
यत्कृपालवत एव महांतः सिद्धिमीयुरितरे भवभाजः ॥
तेऽचिरेण भवभीमपयोधिं तीर्णवंत इति नः सुमनीषा ॥११॥
॥ विद्याधरा ऊचुः॥
विभो सद्गुणग्राम कल्याणमूर्ते परेशान संमानसंतानहेतो ॥
भवत्पादपद्मासवस्वादमत्ताः कृतार्था न चित्रं भवत्यत्र किंचित् ॥१२॥
ततस्तुष्टोऽथ भगवांस्तेषामासीद्दिवौकसाम् ॥
वरं वृणुध्वमित्युक्तास्ते प्रोचुर्वरदर्षभम्॥१३॥
परितुष्टो भवान्साक्षाद्देवदेवो रमापतिः॥
बदरी न त्वया त्याज्या न च मेरुः कदाचन॥१४॥
मेरुशृंगं प्रपश्यंति ये जनाः पुण्यभागिनः ॥
तेषां वै त्वत्प्रसादेन मेरौ वासः प्रजायताम्॥१५॥
तत्र भुक्त्वा चिराद्भोगान्भूयादन्ते लयस्त्वयि॥
एवमस्त्विति चाभाष्य तत्रैवांतर्हितो हरिः ॥१६॥
ततः प्रभृति ते सर्वे मेरुशृंगविहारिणः ॥
नरनारायणस्यांते पाल्यमाना मुहुर्मुहुः॥१७॥
कदाचिद्दिवि तिष्ठंति कदाचिन्मेरुमध्यतः॥
निर्विशंका निरुद्वेगा ऋषयश्च तपोधनाः॥१८॥
भगवानपि तत्रैव नररूपेण तिष्ठति॥
धनुर्बाणधरः श्रीमांस्तपसा पावकोपमः॥
आनंदमृषिवृंदस्य जनयंस्तप आस्थितः ॥१९॥
ततस्तु परमं तीर्थं लोकपालाभिवंदितम् ॥
यत्र संस्थापयामास लोकपालान्हरिः स्वयम् ॥२०॥
॥ स्कंद उवाच ॥
कथं भगवता तत्र लोकपालाश्च स्थापिताः ॥
महत्कौतूहलं तात कथयस्व महामते ॥२१॥
॥ शिव उवाच ॥
एकदा मेरुमध्यस्थाश्रयानिह हरन्हरिः॥
देवानामृषिमुख्यानां चरितं द्रष्टुमुद्यतः ॥२१॥
तं दृष्ट्वा सहसोत्थाय नमस्कृत्य दिवौकसः ॥
ऊचुस्ते विनयात्सर्वे प्रसीद भगवन्विभो ॥२३॥
क्षणं विश्राम्य विधिवद्दृष्ट्वा तां विरलां भुवम् ॥
सान्निध्यमृषिदेवानामयुक्तं भावयन्मिथः ॥२४॥
ततः प्रहस्य भगवानुवाच मधुसूदनः ॥
लोकपालान्समाहूय नात्र स्थेयं भवद्विधैः ॥२५॥
ऋषयस्तापसाः सिद्धाः सस्त्रीका निवसंति हि ॥
भवद्विधानामास्थानं पुरेव कल्पितं मया ॥२६॥
ततः स त्वरितो गत्वा रम्ये गिरिवरे हरिः ॥
लोकपालान्समाहूय स्थापयामास तान्गुह ॥२७॥
तत्रैव शैलदंडेन हत्वाग्निं जलकांक्षया ॥
क्रीडापुष्करणीं तेषां निर्ममे सुमनोहराम ॥२८॥
सस्त्रीका यत्र गीर्वाणा विचरंति निजेच्छया ॥
गायंति स्वनुमोदंति गंधर्वास्त्रिदिवौकसाम् ॥२९॥
वनानि कुसुमामोदरम्याणि परितोषतः ॥
दिनानि यत्र गच्छंति क्षणप्रायाणि देहिनाम् ॥३०॥
भगवानपि तत्रैव तेषामानंदमावहन्॥
द्वादश्यां पौर्णमास्यां च स्वयमायाति मज्जने ॥३१॥
तत्पश्चादृषयः सर्वे मुनयश्च तपोधनाः ॥
यत्र स्नात्वा विधानेन गुह मध्याह्नकालतः ॥
असंगं परमं ज्योतिर्जले पश्यंति चक्षुषा ॥३२॥
सर्वतीर्थावगाहेन यत्फलं परिकीर्तितम् ॥
तत्फलं तत्क्षणादेव दण्डपुष्करिणीक्षणात् ॥३३॥
यत्र काम्यानि कर्माणि सफलानि मनीषिणाम् ॥
यत्र पिंडप्रदानेन गयातोऽष्टगुणं फलम् ॥३४॥
यज्ञो दानं तपः कर्म सर्वमक्षयमुच्यते॥
द्वादश्यां शुक्लपक्षस्य ज्येष्ठे मासि षडानन ॥३५॥
तत्र स्नात्वा विधानेन कृतकृत्यो भवेद्यतः ॥
बदरीतीर्थमध्ये तु गुप्तमेतत्सुरोत्तमैः ॥
न वाच्यं यत्र कुत्रापि तव प्रीत्या मयोदितम् ॥३६॥
वक्तव्यं किमिह बहु प्रभूतपुण्याः पश्यंति प्रथितमिदं सुरैकगुप्तम् ॥
नान्येषां कथमपि चेतसि प्रसंगाद्देवैः स्यादनुदिनचिंतितं गुहैतत् ॥३७॥
येषां वै भगवति चेत्समग्रकर्म स्वाध्यायाभ्यसनविधिक्रमेण जातम् ॥
पश्यंति त्रिभुवनदुर्ल्लभं सुतीर्थं दंडोदं न भवति चान्यथा सुदृष्टम् ॥३८॥
दंडोदकात्परं तीर्थं न विष्णोः सदृशोऽमरः ॥
विशालासदृशं क्षेत्रं न भूतं न भविष्यति ॥३९॥
सेवनीया प्रयत्नेन विशाला च विचक्षणैः ॥
य इच्छेत्सततं धाम भगवत्पार्श्ववर्ति वै ॥४०॥
॥ स्कंद उवाच ॥
गंगामाश्रित्य तीर्थानि कानि संतीह सत्पदे ॥
श्रेयस्कराणि भूरीणि संक्षेपात्तानि मे वद ॥४१॥
॥ महादेव उवाच ॥
गंगायां यत्र संयोगो मानसोद्भेदसन्निधौ ॥
तत्तीर्थं विमलं पुण्यं प्रयागादधिकं महत् ॥४२॥
त्रिंशद्वर्षसहस्राणि वायुभोजनतो भवेत् ॥
तत्फलं स्नानमात्रेण गंगायाः संगमे नृणाम् ॥४३॥
संगमाद्दक्षिणे भागे धर्मक्षेत्रं प्रकीर्तितम् ॥
यत्र मूर्त्या श्रुतौ जातौ नरनारायणावृषी ॥४४॥
तत्क्षेत्रं पावनं मर्त्ये सर्वेषामुत्तमोत्तमम् ॥
धर्मस्तत्रैव भगवांश्चतुष्पादवतिष्ठति ॥४५॥
यत्र यज्ञास्तपो दानं यत्किंचित्क्रियते नृभिः ॥
तत्पुण्यस्य क्षयो नास्ति कल्पकोटिशतैरपि ॥४६॥
ततो दक्षिणदिग्भाग उर्वशी संगमाभिधम् ॥
सर्वपापहरं पुंसां स्नानमात्रेण देहिनाम् ॥४७॥
कूर्मोद्धारस्ततः साक्षाद्धरिभक्त्येकसाधनम् ॥
स्नानमात्रेण भूतानां सत्त्वशुद्धिः प्रजायते ॥४८॥
ब्रह्मावर्त्तस्ततः साक्षाद्ब्रह्मलोकैककारणम् ॥
दर्शनादेव तीर्थस्य सर्वपापक्षयो भवेत् ॥४९॥
बहूनि संति तीर्थानि दुर्गम्यानीह देहिनाम् ॥
संक्षेपात्कथितं वत्स तवादरवशादिदम् ॥५०॥
य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ॥
सर्वपापविनिर्मुक्तः पदं विष्णोः प्रपद्यते ॥५१॥
राजा विजयमाप्नोति सुतार्थी लभते सुतम् ॥
कन्यार्थी लभते कन्यां कन्या विंदति सत्पतिम् ॥५२॥
धनार्थी धनमाप्नोति सर्वकामैकसाधनम् ॥५३॥
मासमात्रं नरो भक्त्या शृणुयाद्यः समाहितः ॥
तस्याभीष्टसमावाप्तिर्दुर्लभोपि न संशयः ॥५४॥
आधिव्याधिभयं घोरं दारिद्र्य कलहं तथा ॥
यस्य गेहेषु माहात्म्यं तत्रैतानि न कर्हिचित् ॥५५॥
नापमृत्युर्न सर्पादि दौर्भाग्यं चापि वर्तते ॥
दुःस्वप्नग्रहपीडा च परराष्ट्रभयं तथा ॥५६॥
युद्धे यात्राप्रयाणे च पठनीयं प्रयत्नतः ॥
विवाहे च विवादे च शुभकर्मणि यत्नतः ॥५७॥
पूर्णं वाऽध्यायमात्रं वा तदर्धं वा विचक्षणैः ॥
सर्वकार्यप्रसिद्धिः स्यान्नात्र कार्या विचारणा ॥५८॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे बदरिकाश्रमे मेरुसंस्थापनतीर्थलोकपालतीर्थदंडपुष्करिणीतीर्थधर्मक्षेत्रादिविविधतीर्थक्षेत्रमाहात्म्य वर्णनंनामाष्टमोऽध्यायः ॥८॥
इति श्रीस्कांदे द्वितीये वैष्णवखण्डे तृतीयं बदरिकाश्रममाहात्म्यं समाप्तम् ॥
N/A
References : N/A
Last Updated : October 29, 2024
TOP