संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|बदरिकाश्रममाहात्म्यम्| अध्याय ३ बदरिकाश्रममाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ विषयानुक्रमणिका बदरिकाश्रममाहात्म्यम् - अध्याय ३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ३ Translation - भाषांतर ॥ स्कन्द उवाच ॥भगवन्सर्वभूतेषु सर्वधर्मविशारद ॥अग्नितीर्थस्य माहात्म्यं कृपया वद मे पितः ॥१॥॥ शिव उवाच ॥अतिगुह्यतमं तीर्थं सर्वतीर्थनिषेवितम् ॥संक्षेपात्कथयाम्येतत्तवादरवशादहम् ॥२॥महापातकिनो ये च अतिपातकिनस्तथा ॥स्नानमात्रेण शुद्ध्यंति विनायासेन पुत्रक ॥३॥प्रायश्चित्तेन यत्पापं न गच्छेन्मरणांतिकम्॥स्नानमात्रेण तीर्थस्य पावकस्य विशुद्ध्यति ॥४॥अत्यंतमलसंबद्धं यथा शुद्ध्यति हाटकम् ॥तथाग्नितीर्थमासाद्य देही पापैर्विशुद्ध्यति ॥५॥कुशाग्रेणोदबिंदुं च पीत्वा वर्षत्रयं नरः ॥अन्यक्षेत्रे तपः कृत्वा तदत्र स्नानमात्रतः ॥६॥ब्राह्मणान्भोजयित्वास्मिन्यथाविभवसंभवैः ॥दरिद्रता कुले तेषां न कदाचित्प्रजायते ॥७॥उपवासेन यः प्राणान्वह्नितीर्थे त्यजेन्नरः ॥स भित्त्वा सूर्यलोकादीन्विष्णुलोकं प्रपद्यते ॥८॥चांद्रायणसहस्रैस्तु कृच्छ्रैः कोटिभिरेव च ॥यत्फलं लभते मर्त्यस्तत्स्नानाद्वह्नितीर्थतः ॥९॥पंचधा ये प्रकुर्वंति पापमस्मिन्षडानन ॥जपेन पवनायामैर्विशुद्धिरिति मे मतिः ॥१०॥ज्ञानेन मोहवशतः पापं कुर्वन्ति येऽधमाः ॥पैशाचीं योनिमायामति यावदिंद्राश्चतुर्दश ॥११॥अनाश्रमी चाश्रमी वा यावद्देहस्यधारणम् ॥न तीर्थे पावके कुर्यात्पातकं बुद्धिपूर्वकम् ॥१२॥स्नानं दानं जपो होमः संध्या देवार्चनं तथा ॥अत्रानंतगुणं प्रोक्तमन्यतीर्थात्षडानन ॥१३॥बहूनि संति तीर्थानि पावनानि महांत्यपि ॥वह्नितीर्थसमं तीर्थं न भूतं न भविष्यति ॥१४॥न ब्रह्मा न शिवः शेषो न देवा न च तापसाः ॥शक्नुवंति फलं नालं वक्तुं पावकतीर्थजम् ॥१५॥किं तेषां बहुभिर्यज्ञैः किं दानैर्नियमैर्यमैः॥येषां पावकतीर्थेऽस्मिन्स्नानं दशदिनं भवेत् ॥१६॥उपवासेन यः प्राणान्वह्नितीर्थे जयेन्नरः ॥उपवासत्रयं कृत्वा पूजयित्वा जनार्द्दनम्॥नरः पावकतीर्थेऽस्मिन्स भवेत्पावकोपमः ॥१७॥शिलापंचकमध्यस्थं सान्निध्यं नित्यदा हरेः ॥तत्रैव पावकं तीर्थं सर्वपापप्रणाशनम् ॥१८॥॥ स्कंद उवाच ॥कथं तत्र शिलाः पंच केन वा तत्र निर्मिताः ॥किं पुण्यं किं फलं तासां वक्तुमर्हस्यशेषतः ॥१९॥॥ शिव उवाच ॥नारदी नारसिंही च वाराही गारुडी तथा ॥मार्कंडेयीति विख्याताः शिलाः सर्वार्थसिद्धिदाः ॥२०॥नारदो भगवांस्तेपे तपः परमदारुणम्॥दर्शनार्थं महाविष्णोः शिलायां वायुभोजनः ॥२१॥षष्टिवर्षसहस्राणि शिलायां वृक्षवृत्तिमान्॥तदासौ भगवान्विष्णुस्तत्र ब्राह्मणरूपधृक् ॥२२॥जगाम पुरतस्तस्य कृपया मुनिसत्तमम् ॥उवाच वचनं चारु किमिति क्लिश्यते ह्यृषे ॥किं वा तवेप्सितं ब्रूहि तपसा क्षीणकल्मष ॥२३॥॥ नारद उवाच ॥को भवान्विजनेऽरण्ये ममानुग्रहतत्परः ॥मनः प्रसन्नतामेति दर्शनात्ते द्विजोत्तम ॥२४॥इत्युक्तो नारदेनासौ शंखचक्रगदाधरः ॥पीतांबरलसत्पद्मवनमालाविभूषणः ॥२५॥श्रीवत्सकौस्तुभभ्राजत्कमलाविमलालयः ॥सुनंदनप्रमुख्यैः स स्तूयमानो जनार्द्दनः ॥२६॥दर्शयामास रूपं स्वं नारदाय कृपार्दितः ॥तं दृष्ट्वा सहसोत्थाय तनुं प्राण इवागतः ॥२७॥कृतांजलिपुटो भूत्वा नमस्कृत्य पुनः पुनः ॥तुष्टाव प्रणतो भूत्वा जगतामीश्वरेश्वरम् ॥२८॥॥ नारद उवाच ॥यः सर्वसाक्षी जगतामधीश्वरो भक्तेच्छया जातशरीरसंपदः ॥कृपामहांभोनिधिराश्रितानां प्रसीदतां पावनदिव्यमूर्तिः ॥२९॥हिताय लोकस्य सतां पुनर्मनः सुतोषणायाचिरमुत्कलादिभिः ॥प्रसन्नलीलाहसितावलोकनः प्रसीदतां सत्त्वनिकायमूर्तिमान् ॥३०॥कंदर्प्पलावण्यविलाससुंदरः प्रसन्नगंभीरगिरेंदिरोत्सवः ॥स्वमाश्रितानां वरकल्पपादपः प्रसीदतां दीनदयार्द्रमानसः ॥३१॥यदंघ्रिपद्मार्चननिर्मलांतरा ज्ञानासिना शातितबंधहेतवः ॥विदंति यद्ब्रह्मसुखं गतक्लमाः प्रसीदतां दीनदयार्द्रमानसः ॥३२॥संसारवारांनिधिबद्धसेतुर्यः सृष्टिपालांतविधानहेतुः ॥उपांतनामा गुणलब्धमूर्तिः प्रसीदतां ब्रह्मसुखानुभूतिः ॥३३॥य इंद्रियाधिष्ठितभूतसूक्ष्माद्विकासहेतुर्द्युतिमद्वरिष्ठः ॥जीवात्मतां गच्छति मायया स्वया स एक ईशो भगवान्प्रसीदताम् ॥३४॥स्वदृग्गुणैर्येन विलिप्यते महान्गुणाश्रयं येन च पाञ्चभौतिकम्॥एकोऽपि नानागुणसंप्रयुक्तः प्रसीदतां दीनदयालुवर्यः ॥३५॥यस्यानुवर्तिनो देवा विपदां पदमंबुधिम् ॥कृत्वा वत्सपदं स्वर्गे निरातंका वसंति हि ॥३६॥नमस्ते वासुदेवाय नमः संकर्षणाय च ॥प्रद्युम्नायानिरुद्धाय सर्वभूतात्मने नमः ॥३७॥अद्य मे जीवितं धन्यमद्य मे सफलं तपः ॥अद्य मे सफलं ज्ञानं दर्शनात्ते जनार्दन ॥३८॥॥ श्रीभगवानुवाच ॥तुष्टोऽहं तपसानेन स्तोत्रेण तव नारद ॥त्वत्तो भक्तो न मे कश्चित्त्रिषु लोकेषु विद्यते ॥३९॥वरं वरय भद्रं ते वरदोऽहं तवाग्रतः ॥मद्दर्शनात्ते कामः स्यात्संसिद्धो विद्धि नारद॥४०॥॥ नारद उवाच ॥ वरदो यदि मे देव वरार्हो यदि वाप्यहम् ॥भक्तिं तव पदांभोजे निश्चलां देहि मे विभो ॥४१॥पच्छिलासन्निधानं च न त्याज्यं ते कदाचन ॥मत्तीर्थदर्शनात्स्पर्शात्स्नानादाचमनात्तथा ॥देहैर्न युज्यते देयस्ततीयस्तु वरो मम ॥४२॥॥ श्रीभगवानुवाच॥एवमस्तु तव स्नेहात्तव तीर्थे वसाम्यहम् ॥चराचराणां जंतूनां विदेहाय न संशयः ॥४३॥एवमुक्त्वा हरिः साक्षात्तत्रैवांतरधीयत ॥नारदोऽपि महातेजा दिनानि कतिचित्सह ॥बदरीमावसन्हृष्टो ययौ मधुपुरीं ततः ॥४४॥॥ स्कंद उवाच ॥मार्कंडेयशिलायास्तु महिमानं वदस्व मे ॥किं पुण्यं किं फलं तस्याः संज्ञा च तादृशी कथम् ॥४५॥॥शिव उवाच ॥पुरा त्रेतायुगस्यांते मृकंडुतनयो महान् ॥स्वल्पायुषं निजं ज्ञात्वा जजाप परमं जपम् ॥४६॥द्वादशाक्षरमंत्रेण पूजितो हरिरव्ययः ॥सप्तकल्पायुषं ज्ञात्वा तत्रैवांतरतो ययौ ॥४७॥मार्कंडेयस्ततः श्रुत्वा तीर्थाटनपरिश्रमम् ॥दर्शनं नारदस्यासीन्मथुरायां षडानन ॥४८॥पूजितो वंदितस्तेन नारदो मुनिसत्तमः ॥कथयामास माहात्म्यं बदर्या यत्र केशवः ॥४९॥॥ नारद उवाच ॥किमिति क्लिश्यते साधो तीर्थाटनपरिश्रमैः ॥बदर्याख्यं महाक्षेत्रं सान्निध्यं नित्यदा हरेः ॥५०॥तत्र याहि यत्र साक्षाद्धरिं पश्यसि चक्षुषा ॥तच्छ्रुत्वा विस्मयोपेतो विशालामाययावृषिः ॥५१॥स्नात्वा शिलामुपविशञ्जजापाष्टाक्षरं परम् ॥ततःप्रसन्नो भगवाँस्त्रिरात्र्यंते जनार्दनः ॥५२॥शंखचक्रगदापद्मवनमालाविभूषणम् ॥तं दृष्ट्वा सहसोत्थाय प्रेमगद्गदया गिरा ॥तुष्टाव प्रणतो भूत्वा मार्कंडेयो जनार्दनम् ॥५३॥॥ मार्कंडेय उवाच ॥अशाश्वते च संसारे सारे ते चरणांबुजे ॥समुद्धारः कथं नृणां त्राहि मां परमेश्वर ॥५४॥तापत्रयपरिश्रांतमनेकाज्ञानजृंभितम् ॥संसारकुहरे भ्रांतं त्राहि मां कृपयाऽच्युत ॥५५॥अनेकयोनियंत्रेषु निःसृतेस्तनुवेदनाम् ॥गर्भवासकृतां प्राप्तं त्राहि मां करुणांबुधे ॥५६॥कृमिभक्षितसर्वांगं क्षुत्पिपासाकुलं च हि ॥आंत्रमालाकुलेगर्भे त्राहि मां मधुसूदन ॥५७॥अमेध्यादिभिरालिप्तं निश्चेष्टश्रममाकुलम्॥स्मरंतं निजकर्मोत्थं त्राहि मां मधुसूदन ॥५८॥वचनादाननिःश्वासाशक्तं भयमुपागतम्॥गर्भवासमहादुःखं त्राहि मां मधुसूदन ॥५९॥जरामरणबाल्यादिदुःखसंसारपीडितम् ॥दुःखाब्धौ सुखबुद्धिं मां कृपासिंधो प्रपालय ॥६०॥कदाचित्कृमितां प्राप्तं कदाचित्स्वेदजन्मिताम्॥कदाचिदुद्भिज्जत्वं च कदाचिन्नरतां गतम् ॥६१॥सर्वयोनिसमापन्नं विपन्नं विगतप्रभम्॥अनाथं त्वां समापन्नं त्राहि मां कृपयाऽच्युत॥६२॥एवं स्तुतस्ततः कृष्णो मार्कण्डेयेन धीमता ॥प्रीतस्तमाह विप्रर्षे वरं मे व्रियतामिति ॥६३॥॥ श्रीमार्कंडेय उवाच ॥यदि तुष्टो भवान्मह्यं भगवन्दीनवत्सल ॥निश्चलां देहि मे भक्तिं पूजायां दर्शने तव ॥शिलायां तव सान्निध्यमेष एव वरो मम ॥६४॥॥ सूत उवाच ॥तथेत्युक्त्वा महाविष्णुर्ययावंतर्हितं द्विज ॥मार्कंडेयस्ततस्तुष्टो जगाम पितुराश्रमम् ॥६५॥उपस्थानमिदं पुण्यं सर्वपापप्रणाशनम् ॥शृणुयाच्छ्रावयेन्मर्त्यो गोविन्दे लभते गतिम् ॥६६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे शिवकार्तिकेयसंवादे अग्नितीर्थनारदशिलामार्कण्डेयशिलामाहात्म्यवर्णनंनाम तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : October 29, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP