बदरिकाश्रममाहात्म्यम् - अध्याय ४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ स्कन्द उवाच ॥
वैनतेयशिलायास्तु माहात्म्यं वद मे पितः ॥
किं पुण्यं किं फलं चास्य अनुभावं च किं भवेत् ॥१॥
॥ शिव उवाच ॥
कश्यपाद्विनतागर्भे महाबलपराक्रमौ ॥
गरुडारुणौ प्रजातौ द्वावरुणः सूर्यसारथिः ॥२॥
बदर्य्या दक्षिणे भागे गन्धमादनशृङ्गके ॥
गरुडस्तप आतेपे हरिवाहनकाम्यया ॥३॥
फलमूलजलाहारो निर्द्वंद्वो जपतां वरः ॥
पदैकेनोपसंक्रम्य भुवि जेपे निरामयः ॥४॥
त्रिंशद्वर्षसहस्राणि हरिदर्शन लालसः ॥
ततस्तु भगवान्साक्षात्पीतवासा निजायुधः ॥५॥
आविरासीद्यथा प्राच्यां दिशींदुरिव पुष्कलः ॥
उवाच वचनं सम्यङ्मेघगंभीरनिस्वनः ॥६॥
तथापि न बहिर्वृत्तिर्दध्मौ दरवरं ततः ॥
तथापि न बहिर्वृत्तिर्गरुडस्य महात्मनः ॥७॥
ततः प्रविश्य भगवानंतरं पवनक्रमात् ॥
बहिरुन्मुखतां चैव रचयन्बहिराबभौ ॥८॥
भगवंतं हरिं दृष्ट्वा गरुडो गतसाध्वसः ॥
पुलकांकित सर्वांगस्तुष्टाव विहितांजलिः ॥९॥
॥ गरुड उवाच ॥
जयजय त्रिभुवनजनमनोभवन विदलिताघगुण सकलगीर्वाणवंदित चरणकमलयुगलपरिमलबहलरिपुवनविभंजन विद्योतमान सकलसुरासुरमुकुटकोटिविलसित निजपीठकमलनिरसित निजजनहृदयतिमिरपटलबहल हिमकर इव त्रिविधसंतापसंदोहहरणचरण
जगदुदयस्थितिलयविलासविलसित त्रिविधमूर्तिकीर्तिविस्फूर्जित जगदुदयसंदोह दिनकर इव निजजनमानससरोजषट्पदविदित सकलवेदविद्योतमान मानस निजजनमुनिजनवन्दित पदनखनीरपवित्रीकृत गीर्वाणमुनिमानसवंदित चरणरजःप्रसादसारभूत जगतामधीश नमस्ते नमस्ते ॥१०॥
अपि च ॥
अष्टशक्तिसहितो वनमाली पीतचैलकुसुमावलिशोभः ॥
पंकजाकरविराजितपादः पातु मामवहितेन्द्रियवर्गः ॥११॥
भक्तहृत्कमलराजितमूर्तिर्दुष्टदैत्यदलनोत्थितकीर्तिः ॥
बद्धसेतुरविताश्रितलोकः पातु मामनुदिनं भुवनेशः ॥१२॥
स्थिरचलत्रिविधतापहिमांशुर्भासमानतरणिप्रतिभासः ॥
एक एव बहुधा कृतवेषो माययावतु महामतिरीशः ॥१३॥
भक्तचिंतनकृते कृतरूपः शैशवेन बहुशासितभूपः ॥
वेदमार्ग उरुधा हितकारी रीतिरीशितुरियं गुणशाली ॥१४॥
यज्ञभुग्घृदयबंधनधारी विश्वमूर्तिरबलांशुकहारी॥
पालनेऽपि महतां बहुदेहो रास एष तनुमानवतान्नः ॥१५॥
प्रेमभक्तिपुरुषैरुपलभ्यः पूरुषः कृतसमस्तनिवासः ॥
दास्यवृंदहृषितो निजदासः प्रेक्षणैककरुणोवतु विश्वम् ॥१६॥
कंठलंबिततरक्षुनखाग्रक्रुष्टगोपरमणीकुचभारः॥
लीलया युवतिभिः कृतवेषः शेष एष भवतादुपशांत्यै॥१७॥
दंडपाणिरयमेव जनानां शासितात्मनियमोक्तहितानाम्॥
पावनाय महतामनुशाली विश्वदुःखशमनो भवतान्नः ॥१८॥
एवं स्तुतस्ततः साक्षाद्गरुडेन महात्मना ॥
पूजार्थमाजुहावैनां गंगां त्रिपथगामिनीम् ॥१९॥
ततः पंचमुखी साक्षादाविरासीन्नगोपरि॥
तेनोदकेन पादार्घं चकार विनतासुतः ॥२०॥
व्रियतां वर इत्युक्तो गरुडो हरिणा ततः ॥
तवैकवाहनः श्रीमान्बलवीर्यपराक्रमः ॥
अजेयो देवदैत्यानां स्यामहं ते प्रसादतः ॥२१॥
इयं मन्नामविख्याता सर्वपापहरा शिला ॥
एतस्याः स्मरणात्पुंसां विषव्याधिर्न जायताम्॥२२॥
एवमुक्त्वा ततस्तूष्णीं बभूव विनतासुतः ॥
ओमित्युक्त्वा ततो विष्णुरुवाचेदं वचो हितम् ॥२३॥
बदरीं त्वं प्रयाहीति नारदेन निषेविताम् ॥
स्नानं नारदतीर्थादावुपवासत्रयं शुचिः ॥
कृत्वा मद्दर्शनं तत्र सुलभं ते भविष्यति ॥२४॥
इत्युक्त्वांतर्द्दधे विष्णुस्तडित्सौदामनी यथा ॥
गरुडस्तु ततः शीघ्रमागत्य बदरीं मुदा ॥२५॥
वह्नितीर्थं समासाद्य शिलामाश्रित्य तत्परः ॥
स्नात्वा नारदतीर्थेषु व्रतचर्यामथाकरोत् ॥२६॥
ततस्तु नारदे तीर्थे दृष्ट्वा भगवतः स्थितिम् ॥
नमस्कृत्य विधानेन तदाज्ञातः पुरं ययौ ॥२७॥
ततः प्रभृति त्रैलोक्ये गारुडीति शिलोच्यते ॥२८॥
॥ स्कंद उवाच ॥
वाराह्या वद माहात्म्यं कीदृशं हीश्वरेश्वर ॥
किं पुण्यं किं फलं तस्या अभिधानं तथा कथम् ॥२९॥
॥ शिव उवाच ॥
रसातलात्समुद्धृत्य महीं दैवतवैरिणम् ॥
हिरण्याक्षं रणे हत्वा बदरीं समुपागतः ॥३०॥
आकल्पांतं महादेवो योगधारणया स्थितः ॥
बदर्याः सौष्ठवादेव विदधे स्थितिमात्मनः ॥३१॥
शिलारूपेण भगवान्स्थितिं तत्र चकार ह ॥
तत्र गत्वा तु मनुजः स्नात्वा गंगाजलेऽमले ॥३२॥
दानं दत्त्वा स्वशक्त्या वै गंगांभः शांतमानसः ॥
अहोरात्रे स्थितो भूत्वा जपेदेकाग्रमानसः ॥३३॥
शिलायां देवदृष्टिश्च तस्य पुंसः प्रजायते ॥
बहुना किमिहोक्तेन यद्वदिष्यति साधकः ॥३४॥
तत्तस्य सिध्यति क्षिप्रं यद्यपि स्यात्सुदुष्करम् ॥३५॥
॥ स्कंद उवाच ॥
नारसिंहीशिलायास्तु माहात्म्यं वद मे प्रभो ॥
त्वत्प्रसादान्महादेव दुर्ल्लभं श्रुतवानहम् ॥३६॥
॥ शिव उवाच ॥
हिरण्यकशिपुं हत्वा नखाग्रेणैव लीलया ॥
क्रोधाग्निना प्रदीप्तांगः प्रलयानलसन्निभः ॥३७॥
तदा देवैः समागत्य स्थित्वा दूरे दयालुभिः ॥
स्तुतोऽसौ भगवान्देवो लीलया धृतविग्रहः ॥३८॥
तदा प्रसन्नो हरिरुग्रविक्रमः स्वतेजसा व्याप्तसुरासुरोत्तमः ॥
उवाच मत्तो वरमावृणीध्वं गीर्वाणनिर्वाण सुखैकहेतुम् ॥३९॥
तदासुराणामधिपः स्वयंभूरुवाच वाक्यं स्मितशोभिताननः ॥
रूपं तवात्युग्रमशेषदेहिनां भयावहं संहर नारसिंह ॥४०॥
अनेकधैतद्विधिवद्विधाय निधाय शैलादिषु दिव्यमूर्तिम् ॥
उवाच किं वः प्रकरोमि कृत्यमहं प्रसन्नस्त्रिदशाः परंतपाः ॥४१॥
ततोमरा ऊचुरनेन चैव रूपेण संक्षोभितविश्वमूर्ते ॥
प्रशांतमंतःसुखहेतुबंधि चतुर्भुजत्वं वरमीप्सितं नः ॥४२॥
ततो हरिर्वीक्ष्य निरीक्षणेन दिव्येन विश्वं प्रययौ विशालाम्॥
गंगाजले क्रीडति विष्टचेताः सुरासुरेभ्यो भगवानुवाच ॥४३॥
ततोऽमराः शांतभया अथैनं निरीक्ष्य देवं जलमध्यसंस्थम् ॥
नत्वा परिक्रम्य तदा समाययुर्निरूढभावाः स्वपुरं ततः क्रमात् ॥४४॥
ततः समस्ता ऋषयस्तपोधनाः समाययुर्भक्तिभरावनम्राः ॥
नृसिंहमत्यद्भुतविकमं हरिं समीडिरे बद्धकरा वचोभिः ॥४५॥
॥ ऋषय ऊचुः ॥
नमोनमस्ते जगतामधीश विश्वेश विश्वाभय विश्वमूर्ते ॥
कृपांबुराशे भजनीयतीर्थ पादांबुज श्रीश दयां विधेहि ॥४६॥
एकोऽसि नाना निजमायया स्वया घटे पयो यद्वदुपाधिभिन्नम् ॥
भक्तेच्छयोपात्तविचित्रविग्रह प्रसीद विश्वानन विश्वभावन ॥४७॥
ततः प्रसन्नो भगवान्नृसिंहः सिंहविक्रमः ॥
उवाच वचनं चारु वरं मे व्रियतामिति ॥४८॥
॥ ऋषय ऊचुः ॥
यदि प्रसन्नो भगवन्कृपया जगतां पते ॥
विशाला न परित्याज्या वरोऽस्माकमभीप्सितः ॥४९॥
एवमस्तु ततः सर्वे स्वाश्रमं ह्यृषयो ययुः ॥
नृसिंहोऽपि शिलारूपी जलक्रीडापरोऽभवत् ॥५०॥
उपवासत्रयं कृत्वा जपध्यानपरायणः ॥
नृसिंहरूपिणं साक्षात्पश्यत्येव न संशयः ॥५१॥
य एतच्छ्रद्धया मर्त्यः शृणोति श्रावयञ्छुचिः ॥
सर्वपापविनिर्मुक्तो वैकुंठे वसतिं लभेत्॥५२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे गरुडशिला वाराहीशिला नारसिंहीशिलामाहात्म्यवर्णनंनाम चतुर्थोऽध्यायः ॥४॥
N/A
References : N/A
Last Updated : October 29, 2024
TOP