बदरिकाश्रममाहात्म्यम् - अध्याय ५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ स्कंद उवाच ॥
किमर्थं भगवांस्तत्र वसति श्रद्धया पुनः ॥
किं पुण्यं किं फलं तस्य दर्शनस्पर्शनादिभिः ॥१॥
नैवेद्यभक्षणं चापि महापूजाकृतेस्तथा ॥
प्रदक्षिणस्य च फलं ब्रूहि मे कृपया पितः ॥२॥
॥ शिव उवाच ॥
पुरा कृतयुगस्यादौ सर्वभूतहिताय च ॥
मूर्तिमान्भगवांस्तत्र तपोयोगसमाश्रितः ॥३॥
त्रेतायुगे ह्यृषिगणैर्योगाभ्यासैकतत्परः ॥
द्वापरे समनुप्राप्ते ज्ञाननिष्ठो हि दुर्लभः ॥४॥
ऋषीणां देवतानां च दुर्दर्शो भगवानभूत् ॥
ततो ह्यृषिगणा देवा अलभ्य भगवद्गतिम् ॥५॥
स्वायंभुवं पदं याता विस्मयाकुलचेतसः ॥
तत्र गत्वा नमस्कृत्य ऊचुर्लोकेश्वरं मुदा ॥
बृहस्पतिं पुरस्कृत्य ऋषयश्च तपोधनाः ॥६॥
॥ देवा ऊचुः ॥
नमस्ते सर्वलोकानामाश्रयः शरणार्तिहा ॥
वृत्तिदः करुणापूर्णः पितामह सुरेश्वर ॥
निवेदनीया विपदः समुद्धर्ता पितासि नः ॥७॥
॥ ब्रह्मोवाच ॥
किमर्थमागता यूयं विस्मयाकुलमानसाः ॥
मिलिता ऋषिभिः साकं ब्रूतागमनकारणम् ॥८॥
॥ देवा ऊचुः ॥
द्वापरे समनुप्राप्ते विशालायां विशालधीः ॥
भगवान्दृश्यते नैव तत्र किं कारणं वद ॥९॥
विशाला किं परित्यक्ता ततो वा क्व गतः स्वयम् ॥
अपराधादुतास्माकं कथं चासौ प्रसीदति ॥१०॥
॥ ब्रह्मोवाच ॥
नाहमेतद्विजानामि श्रुतं चाद्य मुखाद्धि वः ॥
को हेतुर्दृक्पथातीतो भगवान्भवतां सुराः ॥
आगच्छत वयं यामस्तीरं क्षीरपयोनिधेः ॥११॥
इत्युक्तास्ते पुरोधाय ब्रह्माणं त्रिदिवौकसः ॥
ययुः क्षीरांबुधेस्तीरमृषयश्च तपोधनाः॥१२॥
तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् ॥
गीर्भिश्चित्रपदार्थाभिस्तुष्टुवुर्जगदीश्वरम् ॥१३॥
॥ ब्रह्मोवाच ॥
नमस्ते पुरुषाध्यक्ष सर्वभूतगुहाशय ॥
वासुदेवाखिलाधार जगद्धेतो जगन्मय ॥१४॥
त्वमेव सर्वभूतानां हेतुः पतिरुताश्रयः ॥
मायाशक्तिमुपाश्रित्य विचरस्येकसुन्दर ॥१५॥
एको नानायते योऽसौ नटवज्जायतेऽव्ययः ॥
व्यापकोऽपि कृपालुत्वाद्भक्तहृत्पद्मषट्पद ॥
ददाति विविधानंदं तं वंदे जगतां पतिम् ॥१६॥
॥ देवा ऊचुः ॥
विपद्वनांते हुतभुग्जनानां गृहीतसत्त्वस्त्रिदशावनीशः ॥
चराचरात्मा भगवाननंतः कृपाकटाक्षैरवलोकतां नः ॥१७॥
सकृद्यन्नामपीयूषरसपानपरः पुमान् ॥
निःश्रेयसं तृणमिव मन्यते तं हरिं भजे ॥१८॥
अविद्याप्रतिबिंबत्वाज्जीवभावमुपागतः ॥
विज्ञत्वादुपशांतात्मा स पुनातु जगत्त्रयम् ॥१९॥
॥ गंधर्वा ऊचुः ॥
पिबंति ये हरेः पदांबुसंगलेशतः पयः पयो न ते पुनःपुनः पिबंति मातुरंकतः ॥
प्रसंगतो यदा भिधासुधां निपीय मानवा मृताऽमृतं व्रजंत्यधो न जातु यांत्यशंकिताः ॥२०॥
ततः स्तुतो हरिः साक्षात्सिंधोरुत्थाय चाब्रवीत् ॥
अलक्षितोऽपरैर्ब्रह्मा परं तद्वेद नापरः ॥२१॥
ब्रह्मा तदुपधार्याथ नत्वा तस्मै दिवौकस ॥
बोधयामास सकलं सुराः शृणुत सादरम् ॥२२॥
अंतर्हितोऽसौ भगवान्दृष्ट्वा लोकान्कुमेधसः ॥
श्रुत्वेत्थं वचनं तस्य सर्वे देवा दिवं ययुः ॥२३॥
ततोऽहं यतिरूपेण तीर्थान्नारदसंज्ञकात् ॥
उद्धृत्य स्थापयिष्यामि हरिं लोकहितेच्छया ॥२४॥
यस्य दर्शनमात्रेण पातकानि महान्त्यपि ॥
विलीयंते क्षणादेव सिंहं दृष्ट्वा मृगा इव ॥२५॥
धर्माधर्मान्विजित्याथ बदरीशं विभुं हरिम् ॥
दृष्ट्वा मुक्तिमुपायांति विनाऽऽयासं षडानन ॥२६॥
त्यक्तप्रायाणि तीर्थानि हरिणा कलिकालतः ॥
बदरीं समनुप्राप्य साक्षादेवावतिष्ठते ॥२७॥
कलिकालमनुप्राप्य मुक्तिर्येषामभीप्सिता ॥
द्रष्टव्या बदरी तैस्तु हित्वा तीर्थान्यशेषतः ॥२८॥
विना ज्ञानेन योगेन तीर्थाटनपरिश्रमैः ॥
एकेन जन्मना जंतुः कैवल्यं पदमश्नुते ॥२९॥
जन्मांतरसहस्रैस्तु येन चाराधितो हरिः ॥
स गच्छेद्बदरीं द्रष्टुं यत्र जंतुर्न शोचति ॥३०॥
बदरीबदरीत्युक्त्वा प्रसंगान्मनुजोत्तमः ॥
संसारतिमिराबाधे दीपमुज्वालयत्यसौ ॥३१॥
यथा दीपावलोकेन तमोबाधा न जायते ॥
तथैव बदरीं दृष्ट्वा पुंसो मृत्युभयं कुतः ॥३२॥
दर्शनाद्यस्य पापानि रुदंत्यव्याहतानि च ॥
मुक्तिमार्गमुपालक्ष्य तं वंदे बदरीपतिम् ॥३३॥
सशैलकानना भूमिर्दशधा दक्षिणीकृता ॥
हरेः प्रदक्षिणं तद्वद्बदर्यां तत्पदेपदे ॥३४॥
अश्वमेधे तु यत्पुण्यं वाजपेयशतेन च ॥
हरेः प्रदक्षिणात्तद्वद्बदर्यां तत्पदेपदे ॥३५॥
चतुर्मासे तु यत्पुण्यं ब्रह्मांडदानतस्तथा ॥
हरेः प्रदक्षिणं तद्वद्बदर्यां तत्पदेपदे ॥३६॥
अतिकृच्छ्रैर्महाकृच्छ्रैश्छांदसैः सुकृतं भवेत् ॥
हरेः प्रदक्षिणं तद्वद्बदर्यां तत्पदेपदे ॥३७॥
बदर्यां विष्णुनैवेद्यं सिक्थमात्रं षडानन ॥
अशनाच्छोधयेत्पापं तुषाग्निरिव कांचनम् ॥३८॥
यदन्नं भगवानत्ति ऋषिभिर्न्नारदादिभिः ॥
तत्सत्त्वशुद्धये सर्वैर्भोक्तव्यमविचारितम् ॥३९॥
अमरा अपि यन्नूनं व्याजेनेच्छन्ति सर्वतः ॥
भोक्तुं बदरिकां विष्णोर्नैवेद्यं यांति तत्पराः ॥४०॥
भोजनानंतरं विष्णोः प्रगच्छन्ति स्वमालयम् ॥
प्रह्लादप्रमुखा भक्ताः प्रविशंति हरेः पदम् ॥४१॥
बाल्ययौवनवार्द्धक्ये यत्पापं ज्ञानतः कृतम् ॥
नैवेद्यभक्षणाद्विष्णोर्बदर्यां तद्विलीयते ॥४२॥
प्राणांतं यस्य पापस्य प्रायश्चित्तं प्रकीर्तितम् ॥
विष्णोर्निवेदितं भुक्त्वा बदर्य्यां तन्निवर्त्तते ॥४६॥
तीर्थांतरेषु यत्नेन मुक्तिं गच्छति मानवः ॥
नैवेद्यभक्षणाद्विष्णोः सालोक्यं लभते नरः ॥४४॥
हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः ॥
पादोदकं सनिर्माल्यं मस्तके यस्य सोऽच्युतः॥४५॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥
नैवेद्यभक्षणाद्विष्णोर्बदर्यां यांति संक्षयम् ॥४६॥
बदरीसदृशं क्षेत्रं नैवेद्यसदृशं वसु ॥
नारदीयसमं क्षेत्रं न भूतं न भविष्यति ॥४७॥
बदरी यत्नतो गम्या भोक्तव्यं तन्निवेदितम् ॥
द्रष्टव्यो भगवान्वह्नितीर्थे स्नानं सुदुर्लभम् ॥४८॥
पृथिव्यां यानि तीर्थानि व्रतानि नियमास्तथा ॥
पादोदकं विशालायां पावनं पुरतो भवेत् ॥४९॥
किं तस्य दानैस्तपसा तीर्थाटनपरिश्रमैः ॥
बदर्यां विष्णुपादोदबिंदुमात्रं लभेद्यदि ॥५०॥
प्रायश्चित्तानि जल्पंति तावदेव षडानन ॥
यावन्न लभ्यते विष्णोर्बदर्यां चरणोदकम् ॥५१॥
अनायासेन येषां वा इच्छा मुक्तिपथे नृणाम् ॥
कर्त्तव्यं तैः प्रयत्नेन विष्णोर्नैवेद्यभक्षणम् ॥५२॥
ये नराः प्रतिगृह्णंति पापाः संसारभागिनः ॥
यात्राकृतं फलं तेषां न कदाचित्प्रजायते ॥५३॥
नैवेद्यनिंदनाद्विष्णोर्निंद्यंते ते तमोगताः ॥
नैवेद्यभक्षणात्सत्त्वशुद्धिरेव न संशयः ॥५४॥
नैवेद्यं स्वयमानीय ब्राह्मणान्भोजयंति ये ॥
तुलापुरुषदानेन किं फलं ते कृतार्थिनः ॥५५॥
कुरुक्षेत्रे समासाद्य राहुग्रस्ते दिवाकरे ॥
महादानेन यत्पुण्यं बदर्य्यां ग्रासमात्रतः ॥५६॥
बदरीक्षेत्रमासाद्य ग्रासमात्रं प्रयत्नतः ॥
उपायोऽयं महांस्तत्र बदर्यां हरितोषणे ॥
यतिभ्यो भोजनाद्विष्णोरपराध्यपि वल्लभः ॥५७॥
न विष्णोः सदृशो देवो न विशाला समा पुरी ॥
न भिक्षुसदृशं पात्रमृषितीर्थसमं न हि ॥५८॥
चातुर्मास्यं प्रकुर्वंति ये नराः पुण्यशालिनः॥
तेषां पुण्यफलं वक्तुं ब्रह्मणापि न शक्यते ॥५९॥
भिक्षुकाणां फलावाप्तिर्विशेषादिह कीर्त्यते ॥
वेदांतश्रवणात्पुण्यं दशधा यत्प्रकीर्तितम् ॥६०॥
बदरी दृष्टिमात्रेण भिक्षुकाणां तदिष्यते ॥
चातुर्मास्ये विशेषेण कैवल्यफलभागिनः ॥६१॥
न्यासिनो बदरीस्थाने विनायासेन पुत्रक ॥
ये मूर्खा जाड्यमापन्ना दम्भकाषायवाससः ॥
बदरीदर्शनात्तेषां मुक्तिः करतले स्थिता ॥६२॥
ज्ञानिनोऽज्ञानिनो वापि न्यासिनो नियतव्रता ॥
द्रष्टव्या बदरी तैस्तु फलानि समभीप्सुभिः ॥६३॥
श्रुत्वाऽध्यायमिमं पुण्यं प्रसंगेनापि मानवः ॥
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥६४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : October 29, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP