बदरिकाश्रममाहात्म्यम् - अध्याय ७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ शिव उवाच ॥
ततो नैर्ऋत्यदिग्भागे पंचधाराः पतंत्यधः ॥
प्रभासं पुष्करं चैव गयां नैमिषमेव च ॥
कुरुक्षेत्रं विजानीहि द्रवरूपं षडानन ॥१॥
पुरा ते ब्रह्मणः स्थानं गता मलिनरूपिणः ॥
पापिनां पापदोषेण विकृताः कृतबुद्धयः ॥२॥
तत्र गत्वा नमस्कृत्य ब्रह्माणं लोकभावनम् ॥
ऊचुः प्रांजलयः सर्वे निजागमनकारणम् ॥३॥
तच्छ्रुत्वा ध्यानमालंब्य प्रहस्य जगदीश्वरः ॥
उवाच वचनं चारु स्मृत्वा बदरीकाश्रमम् ॥४॥
मा भैष्ट गच्छत क्षिप्रं हरेर्बदरिकाश्रमम् ॥
यस्य निर्देशमात्रेण सद्यः पुण्यं भविष्यति ॥५॥
ततस्ते हर्षवेगेन नमस्कृत्य पितामहम् ॥
जग्मुरुत्फुल्लनयना विशालाममितप्रभाम् ॥६॥
यस्य निर्वेशमात्रेण तत्क्षणाद्विगतेनसः ॥
ततो द्विरूपमास्थाय स्वस्थानं ययुरुत्सुकाः ॥७॥
द्रवरूपेण चान्येन पंच तिष्ठंति निर्मलाः ॥
तेषु स्नात्वा विधानेन कृत्वा नित्यक्रियां शुचिः ॥८॥
तत्तत्तीर्थफलं लब्ध्वा यात्यंते परमं पदम् ॥
पंचोपवास निरतः पूजयित्वा जनार्दनम् ॥९॥
इह भोगान्बहून्भुक्त्वा हरेः सालोक्यमाप्नुयात् ॥१०॥
ततस्तु विमलं तीर्थं सोमकुंडाभिधं परम् ॥
तपश्चकार भगवान्सोमो यत्र कलानिधिः ॥११॥
॥ स्कन्द उवाच ॥
सोमकुण्डस्य माहात्म्यं वद मे वदतां वर ॥
त्वत्प्रसादादहं श्रोतुमिच्छामि परमेश्वर ॥१२॥
॥ शिव उवाच ॥
पुरात्रितनयः श्रीमान्सोमः संप्राप्य यौवनम्॥
श्रुत्वा स्वर्वासिनां सौख्यं गंधर्वेभ्यो मुहुर्मुहुः ॥
तदा स्वपितरं प्रायात्प्रष्टुं तल्लभते कथम् ॥१३॥
॥ सोम उवाच ॥
भगवन्सर्वधर्मज्ञ करुणामृतसागर ॥
कथं वा लभ्यते स्वर्गः सर्वेषामुत्तमोत्तमः ॥१४॥
ग्रहनक्षत्रताराणामोषधीनां पतिः प्रभो ॥
स्यामहं येन तं यत्नं कृपया वद मे पितः ॥१५॥
॥ अत्रिरुवाच ॥
तपसाराध्य गोविंदं यमैर्वा नियमैः सुत ॥
किं दुर्ल्लभं तु साधूनामिह लोके परत्र च ॥१६॥
ततस्तु नारदाच्छ्रुत्वा क्षेत्रं परमनिर्मलम् ॥
जगाम बदरीं नत्वा पितरं दिशमुत्तराम् ॥१७॥
तत्र गत्वा फलैर्मेध्यैर्विष्णोः पूजामकल्पयत् ॥
जजाप परमं जाप्यमष्टाक्षरं मनोहरम् ॥१८॥
अष्टाशीतिसहस्राणि वर्षाणि भगवत्परम् ॥
तपस्तेपेऽतिपरमं सर्वलोकभयावहम् ॥१९॥
ततस्तुष्टः समागत्य भगवान्भक्तवत्सलः ॥
उवाच सोमं विधिवद्वरं वरय सुव्रत ॥२०॥
ततः सोमः समुत्थाय नमस्कृत्य पुनःपुनः ॥
ग्रहनक्षत्रताराणामोषधीनामहं पतिः ॥
द्विजानामपि सर्वेषां भूयासं ते प्रसादतः ॥२१॥
॥ हरिरुवाच ॥
वरमन्यं वृणुष्वातो दुर्ल्लभं त्वं भवादृशाम् ॥
वरान्नो वरयामास तदा तं हिमजात्मज ॥२२॥
ततोऽतिविमनाः सोमः पुनस्तेपे तपो महत् ॥
त्रिंशद्वर्षसहस्राणि देवमानेन पुत्रक ॥२३॥
तदासौ करुणापूर्णहृदयो भगवानगात् ॥
वरं वरय भद्रं ते वरदोऽहं तवाग्रतः ॥
सोमस्तु तादृशं वव्रे तच्छ्रुत्वान्तर्द्दधे हरिः॥२४॥
ततोऽतिविमनाः सोमः पुनस्तेपे तपो महत्॥
चत्वारिंशत्सहस्राणि तपस्तप्तं सुदुष्करम् ॥२५॥
ततस्तुष्टो हरिः साक्षाच्छंखचक्रगदाधरः ॥
उवाच वचनं चारु सोमं श्रांतं तपोनिधिम् ॥२६॥
उत्तिष्ठोत्तिष्ठ भद्रं ते वरं वरय सुव्रत ॥
तपसाराधितो नूनं त्वयाहं तपसां निधिः ॥२७॥
॥ सोम उवाच ॥
यदि तुष्टो भवान्मह्यं भगवान्वरदर्षभः ॥
ग्रहनक्षत्रताराणामाधिपत्यं प्रयच्छ मे ॥
तथौषधीनां विप्राणां यामिन्याश्च जगत्पते ॥२८॥
॥ श्रीभगवानुवाच ॥
दुर्ल्लभं प्रार्थितं वत्स वितरामि तथाप्यहम् ॥
एवमस्तु ततः सर्वे समागत्य दिवौ कसः ॥
अभिषिक्तवंतो विधिवत्सोमं राजानमादृताः ॥२९॥
ततो विमानमारूढो रथेन शुभ्रवाससा ॥
अभिष्टुतः सुरैरभूद्दिवं गतो निशाकरः ॥३०॥
ततः प्रभृति तीर्थं तत्सोमकुंडेति दुर्ल्लभम् ॥
यद्दृष्टिमात्रान्मनुजा गतदोषा भवंति हि ॥३१॥
यदुपस्पर्शनाद्यांति सोमलोकं विनिंदिताः ॥
यत्र स्नात्वा विधानेन संतर्प्य पितृदेवताः ॥३२॥
सोमलोकं विनिर्भिद्य विष्णुलोकं प्रपद्यते ॥
उपवासत्रयं कृत्वा पूजयित्वा जनार्द्दनम् ॥३३॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥
त्रिरात्रेण स्थितो भूत्वा पूजयित्वा जनार्द्दनम् ॥
जपं कुर्वन्विशेषेण मंत्रसिद्धिः प्रजायते ॥३४॥
कर्मणा मनसा वाचा यत्कृतं पातकं नृभिः ॥
तत्सर्वं क्षयमायाति सोमकुंडेक्षणादिह ॥३५॥
ततस्तु द्वादशादित्यतीर्थं पापहरं परम् ॥
यत्र तप्त्वा पुनः कृच्छ्रं काश्यपः सूर्यतां ययौ ॥३६॥
दुर्ल्लभं त्रिषु लोकेषु तपःसिद्ध्येककारणम् ॥
रविवारेषु सप्तम्यां संक्रात्यां विधिवन्नरः ॥
सप्तजन्मकृतात्पापात्स्नानमात्रेण शुद्ध्यति ॥३७॥
पाराकं विधिवत्कृत्वा पूजनीयो जनार्द्दनः ॥
सूर्यलोके सुखं भुक्त्वा विष्णुलोके महीयते ॥३८॥
महारोगाभिभूतस्तु स्नात्वा पीत्वा जलं शुचिः ॥
रोगमुक्तोऽचिरादेव नात्र कार्या विचारणा ॥३९॥
चतुःस्रोतं परं तीर्थं विलोचनमनोहरम् ॥
धर्मार्थकाममोक्षास्ते तिष्ठंति द्रवरूपिणः ॥४०॥
हरेराज्ञानुसारेण क्षेत्रेऽस्मिन्वैष्णवे स्वयम् ॥
पुरुषार्था द्रवीभूता भूतानां मुक्तिहेतवः ॥४१॥
पूर्वादिदिक्षु क्रमसन्निविष्टा धर्मप्रधाना इव रूपभाजः ॥
भजंति ये तान्क्रमसन्निविष्टान्प्रसन्नतैषां सततं भवेद्धि ॥४२॥
नान्यत्र क्षेत्रे मिलिताः कथंचिच्चत्वार एते त्रिदशैरलभ्याः ॥
तानग्रिमं जन्म जवेन लब्ध्वा पश्यंति पूर्वार्जितपुण्यपुंजाः ॥४३॥
ये दुर्जना दुर्जनसंगभाजः क्षमार्जवप्राणजयप्रधानाः ॥
क्रीडामृगा ग्राम्यवधूजनानां न ते प्रपश्यंत्यचिरात्पुमर्थान्॥४४॥
तथैव पश्यंत्यचिरेण तत्त्वज्ञानैकहेतूनपि तान्पुमर्थान् ॥४५॥
अत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥
पर्वणि प्रयताः स्नातुं समायांति षडानन ॥४६॥
ततः सत्यपदंनाम तीर्थं सर्वमनोहरम् ॥
त्रिकोणाकारमेवैतत्कुंडं कल्मषनाशनम् ॥
एकादश्यां हरिस्तत्र स्वयमायाति पावने ॥४७॥
तत्पश्चादृषयः सर्वे मुनयश्च तपोधनाः ॥
स्नातुमायांति विधिवत्कुंडे सत्यपदाभिधे ॥४८॥
गंधर्वाप्सरसां यत्र मध्याह्ने हरिवासरे ॥
गानं शृण्वंति विरलाः सत्यव्रतपरायणाः ॥४९॥
दर्शनाद्यस्य तीर्थस्य पातकानि महांत्यपि ॥
पलायंते भयेनैव सिंहं दृष्ट्वा मृगा इव ॥५०॥
स्वशाखोक्तविधानेन स्नानं कृत्वा विचक्षणः ॥
सत्यलोकमवाप्नोति ततो नैःश्रेयसं पदम् ॥५१॥
अहोरात्रं शुचिर्भूत्वा उपोष्य च जनार्द्दनम् ॥
पूजयित्वा यथाशक्त्या स जीवन्मुक्तिभाजनः ॥५२॥
ब्रह्मा विष्णुश्च रुद्रश्च त्रिकोणस्थाः समाहिताः ॥
तपः कुर्वंत्यनुदिनं सर्वलोकादितोषणम् ॥५३॥
त्रिकोणमंडितं तीर्थं नाम्ना सत्यपदप्रदम् ॥
दर्शनीयं प्रयत्नेन सर्वपापमुमुक्षुभिः ॥५४॥
जपं तपो हरिस्तोत्रं पूजां स्तुत्यभिवंदनम् ॥
माहात्म्यं कुर्वतां वक्तुं ब्रह्मणापि न शक्यते ॥५५॥
ततोऽतिविमलं नाम नरनारायणाश्रमम् ॥
द्विविधं दृश्यते तत्र पाथः परमनिर्मलम् ॥५६॥
उभाभ्यामुभयोः प्रीतिर्भवतीति विनिश्चितम् ॥
तत्र स्नात्वा प्रयत्नेन पूजयित्वा जनार्द्दनम् ॥
सर्वपापविनिर्मुक्तस्तत्क्षणान्नात्र संशयः ॥५७॥
ततो नारायणावासशिखरे विमलाकृति ॥
तीर्थं पवित्रमुर्वश्या अभिव्यक्तिकरं भवेत् ॥५८॥
॥ स्कन्द उवाच ॥
अभिव्यक्तिः कथं तस्या उर्वश्याः शिखरे पितः ॥
किं पुण्यं किं फलं तत्र परं कौतूहलं वद ॥५९॥
॥ शिव उवाच ॥
धर्मस्यपत्नी मूर्त्यासीत्तस्यां जातौ षडानन ॥
नरनारायणौ साक्षाद्भगवानेव केवलम् ॥६०॥
पित्रोराज्ञामनुप्राप्य तपोऽर्धं कृतमानसौ ॥
उभयोर्नगयोस्तौ तु तपोमूर्ती इव स्थितौ ॥६१॥
तौ दृष्ट्वा विस्मितः शक्रः प्रेषयामास मन्मथम् ॥
सगणं तपसो ध्वंसो यथा स्याद्गन्धमादनम् ॥६२॥
विक्रम्य विधिवत्ते तु नारायणबलोदयम् ॥
ज्ञात्वा हतमनस्कास्तानुवाच जगतीपतिः ॥६३॥
॥ हरिरुवाच ॥
किमर्थमागता यूयमातिथ्यं गृह्यतामिति ॥६४॥
इत्युक्त्वा फलमूलानि तेभ्यो दत्त्वोर्वशीं तथा ॥
दत्त्वान्तर्धिमगादेव पश्यतां विघ्नकारिणीम् ॥६५॥
ते तु गत्वा दिवं भीते शक्रायोचुर्बलं हरेः ॥
शक्रस्तामुर्वशीं प्राप्य हर्षणैकयुतोऽभवत् ॥६६॥
ततः प्रभृति तत्तीर्थमुर्वशी नामतः पृथक् ॥
प्रसिद्धं यत्र भगवान्स्वयमास्ते तपोमयः ॥६७॥
तत्र स्नात्वा विधानेन उपोष्य रजनिद्वयम् ॥
पूजयित्वा हरिस्तत्र नरो नारायणो भवेत् ॥६८॥
उर्वशीकुण्डमासाद्य कामनावशतो नरः ॥
उर्वशीलोकमाप्नोति स्नानमात्रेण पुत्रक ॥६९॥
सदैव भगवांस्तत्र उर्वशीकुंड सन्निधौ ॥
भूतानां भावयन्भव्यं तपोमूर्तिर्व्यवस्थितः ॥७०॥
आमोदं तदुपरि वै प्रभञ्जनोऽपि श्रीभर्तुर्वहति पदांबुजैकलब्धम् ॥
यत्संगात्कलियुगकल्मषातुराणामुत्संगे न भवति पापभारपाकः ॥७१॥
यत्संगाद्धर्षमुपावहत्पदश्रीनिर्विण्णो गिरिविवरेच्युतैकसेवी ॥
श्रीभर्तुश्चरणयुगं वहन्समन्तादभ्येति प्रशममहस्तपःसमीरे ॥७२॥
गीर्वाणानुपहसति स्वघेन पूर्णः कीटोऽपिप्रशमितदुर्नयो निरीहः॥
यत्रस्थः कुसुमनिवेदमात्मयोगपर्युष्टं जहदुपयास्यते पदं तत् ॥७३॥
यत्रेत्वा मुनिमतयो बहिःपदार्थान्नापश्यन्निहितपदांबुजैकभाजः ॥
यत्रस्थः स्वयमपि गोपतिर्जनानामाधत्ते स्वपदमनुक्रमागतानाम् ॥७४॥
बहूनि संति तीर्थानि गिरौ नारायणाश्रिते ॥
सर्वपापहराण्याशु तान्यहं वेद नो जनः ॥७५॥
संसारकुहरे घोरे यत्र स्थगितमात्मनः ॥
उर्वशीकुण्डमासाद्य दिनमेकं वसेन्नरः ॥७६॥
उर्वशीदक्षिणे भागे आयुधानि जगत्पतेः ॥
विद्यंते दर्शनात्तेषां न शस्त्रभयभाग्भवेत् ॥७७॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ॥
सर्वपापविनिर्मुक्तः सालोक्यं लभते हरेः ॥७८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे पञ्चधारादितीर्थमाहात्म्यवर्णनंनाम सप्तमोध्यायः ॥७॥
N/A
References : N/A
Last Updated : October 29, 2024
TOP