बदरिकाश्रममाहात्म्यम् - अध्याय १

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीबदरीनाथाय नमः ॥

॥ शौनक उवाच ॥
सूतसूत महाभाग सर्वधर्मविदां वर ॥
सर्वशास्त्रार्थतत्त्वज्ञ पुराणे परिनिष्ठित ॥१॥
व्यासः सत्यवतीपुत्रो भगवान्विष्णुरव्ययः ॥
तस्य यत्प्रियशिष्यस्त्वं त्वत्तो वेत्ता न कश्चन ॥२॥
प्राप्ते कलियुगे घोरे सर्वधर्मबहिष्कृते ॥
जना वै दुष्टकर्माणः सर्वधर्मविवर्जिताः ॥३॥
क्षुद्रायुषः क्षुद्रप्राणबलवीर्यतपःक्रियाः ॥
अधर्मनिरताः सर्वे वेदशास्त्रविवर्जिताः ॥४॥
तीर्थाटनतपोदानहरिभक्तिविवर्जिताः ॥
कथमेषामल्पकानामुद्धारोऽल्पप्रयत्नतः ॥५॥
तीर्थानामुत्तमं तीर्थं क्षेत्राणामुत्तमं तथा ॥
मुमुक्षूणां कुतः सिद्धिः कुत्र वा ऋषिसंचयः ॥६॥
कुत्र वाल्पप्रयत्नेन तपो मन्त्राश्च सिद्धिदाः ॥
कुत्र वा वसति श्रीमाञ्जगतामीश्वरेश्वरः॥
भक्तानामनुरक्तानामनुग्रहकृपालयः॥ ७॥
एतदन्यच्च सर्वं मे परार्थैकप्रयोजनम् ॥
ब्रूहि भद्राय लोकानामनुग्रहविचक्षण ॥८॥
॥ सूत उवाच ॥
साधु साधु महाभाग भवान्परहिते रतः ॥
हरिभक्तिकृतासक्तिप्रक्षालितमनोमलः ॥९॥
अथ मे देवकीपुत्रो हृत्पद्ममधिरोहति ॥
प्रसंगात्तव विप्रर्षे दुर्ल्लभः साधुसंगमः ॥१०॥
हरति दुष्कृतसंचयमुत्तमां गतिमलं तनुते तनुमानिनाम् ॥
अधिकपुण्यवशादवशात्मनां जगति दुर्लभः साधुसमागमः ॥११॥
हरति हृदयबन्धं कर्मपाशार्दितानां वितरति पदमुच्चैरल्पजल्पैकभाजाम ॥
जननमरणकर्मश्रांतविश्रांतिहेतुस्त्रिजगति मनुजानां दुर्ल्लभः सत्प्रसंगः ॥१२॥
॥ सूत उवाच ॥
अयं प्रश्नः पुरा साधो स्कन्देनाकारि सर्वतः ॥
कैलासशिखरे रम्य ऋषीणां परिशृण्वताम् ॥
पुरतो गिरिजाभर्तुः कर्तुं निःश्रेयसं सताम्॥१३॥
॥ स्कंद उवाच॥
भगवन्सर्वलोकानां कर्त्ता हर्त्ता पिता गुरुः ॥
क्षेमाय सर्वजंतूनां तपसे कृतनिश्चयः ॥१४॥
कलिकाले ह्यनुप्राप्ते वेदशास्त्रविवर्जिते ॥
कुत्र वा वसति श्रीमान्भगवान्सात्वतां पतिः ॥१५॥
क्षेत्राणि कानि पुण्यानि तीर्थानि सरितस्तथा ॥
केन वा प्राप्यते साक्षाद्भगवान्मधुसूदनः ॥
श्रद्दधानाय भगवन्कृपया वद मे पितः ॥१६॥
॥ श्रीमहादेव उवाच ॥
बहूनि संति तीर्थानि क्षेत्राणि च षडानन ॥
हरिवासनिवासैकपराणि परमार्थिनाम् ॥१७॥
काम्यानि कानिचित्संति कानिचिन्मुक्तिदान्यपि ॥
इहामुत्रार्थदान्येव बहुपुण्यप्रदानि वै ॥१६॥
गंगा गोदावरी रेवा तपती यमुना सरित् ॥
क्षिप्रा सरस्वती पुण्या गौतमी कौशिकी तथा ॥१९॥
कावेरी ताम्रपर्णी च चंद्रभागा महेंद्रजा ॥
चित्रोत्पला वेत्रवती सरयूः पुण्यवाहिनी ॥२०॥
चर्मण्वती शतद्रूश्च पयस्विन्यत्रिसंभवा ॥
गंडिका बाहुदा सर्वाः पुण्याः सिंधुः सरस्वती ॥२१॥
भुक्तिमुक्तिप्रदाश्चैताः सेव्यमाना मुहुर्मुहुः ॥
अयोध्या द्वारका काशी मधुरावंतिका तथा ॥२२॥
कुरुक्षेत्रं रामतीर्थं कांची च पुरुषोत्तमम् ॥
पुष्करं दर्दुरं क्षेत्रं वाराहं विधिनिर्मितम् ॥
बदर्य्याख्यं महापुण्यं क्षेत्रं सर्वार्थसाधनम् ॥२३॥
अयोध्यां विधिवद्दृष्ट्वा पुरीं मुक्त्येकसाधनीम् ॥
सर्वपापविनिर्मुक्ताः प्रयांति हरिमंदिरम् ॥२४॥
विविधविष्णुनिषेवणपूर्वकाचरितपूजननर्तनकीर्तनाः ॥
गृहमपास्य हरेरनुचिंतनाज्जितगृहार्जितमृत्युपराक्रमाः ॥२५॥
स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा रामालयं शुचिः ॥
न तस्य कृत्यं पश्यामि कृतकृत्यो भवेद्यतः ॥२६॥
द्वारिकायां हरिः साक्षात्स्वालयं नैव मुंचति ॥
अद्यापि भवनं कैश्चित्पुण्यवद्भिः प्रदृश्यते ॥२७॥
गोमत्यां तु नरः स्नात्वा दृष्ट्वा कृष्णमुखांबुजम् ॥
मुक्तिः प्रजायते शेषो विना सांख्यं षडानन ॥२८॥
असीवरुणयोर्मध्ये पंचक्रोश्यां महाफलम् ॥
अमरा मृत्युमिच्छंति का कथा इतरे जनाः ॥२९॥
मणिकर्ण्यां ज्ञानवाप्यां विष्णुपादोदके तथा ॥
ह्रदे पंचनदे स्नात्वा न मातुः स्तनपो भवेत् ॥३०॥
प्रसंगेनापि विश्वेशं दृष्ट्वा काश्यां षडानन ॥
मुक्तिः प्रजायते पुंसां जन्ममृत्युविवर्जिता ॥३१॥
बहुना किमिहोक्तेन नैतत्क्षेत्रसमं क्वचित् ॥
तपोपवासनिरतो मथुरायां षडानन ॥
जन्मस्थानं समासाद्य सर्वपापैः प्रमुच्यते ॥३२॥
विश्रांतितीर्थे विधिवत्स्नात्वा कृत्वा तिलोदकम् ॥
पितॄनुद्धृत्य नरकाद्विष्णुलोकं प्रगच्छति ॥३३॥
यदि कुर्यात्प्रमादेन पातकं तत्र मानवः ॥
विश्रांते स्नानमासाद्य भस्मीभवति तत्क्षणात् ॥३४॥
अवंत्यां विधिवत्स्नात्वा शिप्रायां माधवे नराः ॥
पिशाचत्वं न पश्यंति जन्मांतरशतैरपि ॥३५॥
कोटितीर्थे नरः स्नात्वा भोजयित्वा द्विजोत्तमान्॥
महाकालं हरं दृष्ट्वा सर्वपापैः प्रमुच्यते ॥३६॥
मुक्तिक्षेत्रमिदं साक्षान्मम लोकैकसाधनम् ॥
दानाद्दरिद्रताहानिरिह लोके परत्र च ॥३७॥
कुरुक्षेत्रे रामतीर्थे स्वर्णं दत्त्वा स्वशक्तितः ॥
सूर्योपरागे विधिवत्स नरो मुक्तिभाग्भवेत् ॥३८॥
ये तत्र प्रतिगृह्णंति नरा लोभवशंगताः ॥
पुरुषत्वं न तेषां वै कल्पकोटिशतैरपि ॥३९॥
हरिक्षेत्रे हरिं दृष्ट्वा स्नात्वा पादोदके जनः ॥
सर्वपापविनिर्मुक्तो हरिणा सह मोदते ॥४०॥
खगगणा विविधा निवसंत्यहो ऋषिगणाः फलमूलदलाशनाः ॥
पवनसंयमनक्रमनिर्जितेंद्रियपराक्रमणा मुनयस्त्विह ॥४१॥
विष्णुकांच्यां हरिः साक्षाच्छिवकांच्यां शिवः स्वयम् ॥
अभेदादुभयोर्भक्त्या मुक्तिः करतले स्थिता ॥
विभेदजननात्पुंसां जायते कुत्सिता गतिः ॥४२॥
सकृद्दृष्ट्वा जगन्नाथं मार्कंडेयह्रदे प्लुतः ॥
विना ज्ञानेन योगेन न मातुः स्तनपो भवेत् ॥४३॥
रोहिण्यामुदधौ स्नात्वा इंद्रद्युम्नह्रदे तथा ॥
भुक्त्वा निेवेदितं विष्णोर्वैकुंठे वसतिं लभेत् ॥४४॥
दशयोजनविस्तीर्णं क्षेत्रं शंखोपरि स्थितम्॥
चतु्र्भुजत्वमायांति कीटा अपि न संशयः ॥४५॥
कार्त्तिक्यां पुष्करे स्नात्वा श्राद्धं कृत्वा सदक्षिणम्॥
भोजयित्वा द्विजान्भक्त्या ब्रह्मलोके महीयते॥४६॥
सकृत्स्नात्वा ह्रदे तस्मिन्यूपं दृष्ट्वा समाहितः ॥
सर्वपापविनिर्मुक्तो जायते द्विजसत्तमः ॥४७॥
षष्टिवर्षसहस्राणि योगाभ्यासेन यत्फलम् ॥
सौकरे विधिवत्स्नात्वा पूजयित्वा हरिं शुचिः ॥४८॥
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥
तीर्थराजं महापुण्यं सर्वतीर्थनिषेवितम् ॥४९॥
कामिनां सर्वजंतूनामीप्सितं कर्मभिर्भवेत् ॥
वेण्यां स्नात्वा शुचिर्भूत्वा कृत्वा माधवदर्शनम् ॥
भुक्त्वा पुण्यवतां भोगानन्ते माधवतां व्रजेत् ॥५०॥
माघे मासि नरः स्नात्वा त्रिवेण्यां भक्तिभावितः ॥
बदरीकीर्तनात्पुण्यं तत्समाप्नोति मानवः ॥५१॥
दशाश्वमेधिकं तीर्थं दशयज्ञफलप्रदम् ॥
संक्षेपात्कथितं पुत्र किं भूयः श्रोतुमिच्छसि ॥५२॥
॥ स्कंद उवाच ॥
बदर्य्याख्यं हरेः क्षेत्रं त्रिषु लोकेषु दुर्लभम् ॥
क्षेत्रस्य स्मरणादेव महापातकिनो नराः ॥
विमुक्तकिल्विषाः सद्यो मरणान्मुक्तिभागिनः ॥५३॥
अन्यतीर्थे कृतं येन तपः परमदारुणम् ॥
तत्समा बदरीयात्रा मनसापि प्रजायते ॥५४॥
बहूनि संति तीर्थानि दिवि भूमौ रसातले ॥
बदरीसदृशं तीर्थं न भूतं न भविष्यति ॥५५॥
अश्वमेध सहस्राणि वायुभोज्ये च यत्फलम् ॥
क्षेत्रांतरे विशालायां तत्फलं क्षणमात्रतः ॥५६॥
कृते मुक्तिप्रदा प्रोक्ता त्रेतायां योगसिद्धिदा ॥
विशाला द्वापरे प्रोक्ता कलौ बदरिकाश्रमः ॥५७॥
स्थूलसूक्ष्मशरीरं तु जीवस्य वसतिस्थलम् ॥
तद्विनाशयति ज्ञानाद्विशाला तेन कथ्यते ॥५८॥
अमृतं स्रवते या हि बदरीतरुयोगतः ॥
बदरी कथ्यते प्राज्ञैर्ऋषीणां यत्र संचयः ॥५९॥
त्यजेत्सर्वाणि तीर्थानि कालेकाले युगेयुगे ॥
बदरीं भगवान्विष्णुर्न मुञ्चति कदाचन ॥६०॥
सर्वतीर्थावगाहेन तपोयोगसमाधितः ॥
तत्फलं प्राप्यते सम्यग्बदरीदर्शनाद्गुह ॥६१॥
षष्टिवर्षसहस्राणि योगाभ्यासेन यत्फलम् ॥
वाराणस्यां दिनैकेन तत्फलं बदरीं गतौ ॥६२॥
तीर्थानां वसतिर्यत्र देवानां वसतिस्तथा ॥
ऋषीणां वसतिर्यत्र विशाला तेनकथ्यते ॥६३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे बदरिकाश्रमस्य सर्वतीर्थाधिकत्ववर्णनंनाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : October 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP