संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|बदरिकाश्रममाहात्म्यम्| अध्याय २ बदरिकाश्रममाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ विषयानुक्रमणिका बदरिकाश्रममाहात्म्यम् - अध्याय २ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय २ Translation - भाषांतर ॥ स्कंद उवाच ॥कथमेतत्समुत्पन्नं कैर्वा क्षेत्रं निषेवितम् ॥को वा तस्याप्यधीशः स्यादेतद्विस्तरतो वद ॥१॥॥ शिव उवाच ॥अनादिसिद्धमेतत्तु यथा वेदा हरेस्तनूः ॥अधिष्ठाता हरिः साक्षान्नारदाद्यैर्निषेवितम् ॥२॥पुरा कृतयुगस्यादौ स्वीयां दुहितरं विधिः ॥रूपयौवनसंपन्नां स तां यभितुमुद्यतः ॥३॥तं दृष्ट्वा तादृशं रोषाच्छिरः खड्गेन पञ्चधा ॥चिच्छेदाऽहं कपालं तद्ब्रह्महत्यासमुद्यते ॥४॥हस्ते कृत्वा जगामाशु तत्र तीर्थानि सेवितुम् ॥दिवि भूमौ च पाताले तपश्चरणपूर्वकम् ॥५॥न गता ब्रह्महत्या मे कपालं तादृशं करे ॥तदा वैकुण्ठमगमं द्रष्टुं लक्ष्मीपतिं हरिम् ॥६॥विनयावनतो भूत्वा नमस्कृत्य पुनः पुनः ॥सर्वमाख्यातवांस्तस्मै व्यसनं करुणात्मने ॥७॥तस्योपदिष्टमादाय बदरीं समुपागतः ॥तत्क्षणाद्ब्रह्महत्या मे वेपमाना मुहुर्मुहुः ॥८॥अंतर्हितं कपालं तत्कराद्विगलितं मम ॥ततःप्रभृति तत्क्षेत्रं पार्वत्या सह सादरम् ॥९॥तिष्ठामि तप आस्थाय ऋषीणां प्रीतिमावहन् ॥वाराणस्यां यथा प्रीतिः श्रीशैलशिखरे तथा ॥१०॥कैलासे शिवया सार्द्धं ततोनंतगुणाधिका ॥अन्यत्र भरणान्मुक्तिः स्वधर्मविधिपूर्वकात ॥११॥बदरी दर्शनादेव मुक्तिः पुंसां करे स्थिता ॥हरेश्चरणसान्निध्यं यत्र वैश्वानरः स्वयम् ॥१२॥तत्र केदाररूपेण मम लिंगं प्रतिष्ठितम् ॥केदारदर्शनात्स्पर्शादर्च्चनाद्भक्तिभावतः ॥१ ३॥कोटिजन्मकृतं पापं भस्मीभवति तत्क्षणात् ॥कलामात्रेण तिष्ठामि तत्र क्षेत्रे विशेषतः ॥१ ४॥कला पंचदशैवात्र मूर्तिमध्ये ह्यवस्थितम् ॥१५॥जितकृतांतभयाः शिवयोगिनः कृतमृगाजिनकृत्तिसुवाससः ॥वरविभूतिजटान्वितभूषणाः स्वयमुपासत एव जटाधरम् ॥१ ६॥फलदलांबुसमीरणतोषिताः शिवमनोजितमृत्युपरिश्रमाः ॥गिरिवरस्थितनिर्जितमानसाः प्रसरनिर्म्मलबुद्धिमहोदयाः ॥१७॥कमलकोमलकांतिमुखांबुजाः शिवकृपाजितनिर्भरवैरिणः ॥करधृतांजलिमौलिशिवेक्षणाः शिवमुपासत एव निशामुखे ॥१८॥करधृतजपमालाः शांतिसंतोषभाजः कृतनतिपरनित्यप्रार्थनाश्चन्द्रमौलौ ॥हरचरणसरोजध्यानविज्ञानमूर्तिव्यथितजनमनोजाः सर्वभावान्नितांतम् ॥१९॥वाराणस्यां मृतानां च तारकं ब्रह्मसंज्ञकम् ॥जनानां पूजनात्तत्र मम लिंगस्य जायते ॥२०॥वह्नितीर्थं परिभ्राजद्भगवच्चरणांतिके ॥केदाराख्यं महालिंगं दृष्ट्वा नो जन्मभाग्भवेत् ॥२१॥॥ स्कन्द उवाच ॥कथं वैश्वानरः श्रीमान्सर्वलोकैककारणम् ॥बदरीमनुसंतस्थौ तन्मे वद महामते ॥२२॥॥ शिव उवाच ॥पुरा समाजः समभूदृषीणामूर्ध्वरेतसाम् ॥गंगा भगवती यत्र कालिंद्या सह संगता ॥२३॥दशाश्वमेधिकं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥बभूव तत्र भगवान्हुतभुक्प्रश्रयानतः ॥ऋषीणामग्रतः स्थित्वा प्रष्टुं समुपचक्रमे ॥२४॥॥ वैश्वानर उवाच ॥दृष्ट्वा इहैकदृग्ज्ञाना भवन्तो ब्रह्मवित्तमाः ॥दीनार्थे करुणापूर्णा हृदयार्द्रा दयालवः ॥२५॥सर्वदुर्लक्षणोद्भूतपातकालिप्तचेतसः ॥कथं स्यान्निरयान्मुक्तिर्मम ब्रह्मविदुत्तमाः ॥२६॥सर्वेषामृषिवर्य्याणामाजगाम मुनीश्वरः ॥गंगांभसि समाप्लुत्य वाक्यं चेदमुवाच ह ॥२७॥॥ व्यास उवाच ॥अस्त्येकः परमोपायो भवतः पापनिष्कृतौ ॥सर्वभक्षाख्यदोषस्य बदरीं शरणं श्रय ॥२८॥यत्रास्ते भगवान्साक्षाद्देवदेवो जनार्द्दनः ॥भक्तानामप्यभक्तानामघहा मधुसूदनः ॥२९॥तत्र गंगांभसि स्नात्वा कृत्वा प्रदक्षिणां हरेः ॥दंडवत्प्रणिपातेन सर्वपापक्षयो भवेत् ॥३०॥ततो व्यासमुखाच्छ्रुत्वा ऋषीणामनुवादतः ॥उत्तराभिमुखो वह्निर्गंधमादनमाययौ ॥३१॥ततो बदरिकां प्राप्य स्नात्वा गंगांभसि स्वयम्॥नारायणाश्रमं गत्वा नत्वा प्रोवाच भक्तिमान् ॥३२॥॥ अग्निरुवाच ॥विशुदविज्ञानघनं पुराणं सनातनं विश्वसृजां पतिं गुरुम् ॥अनेकमेकं जगदेकनाथं नमाम्यनंताश्रितशुद्धबुद्धिम् ॥३३॥मायामयीं शक्तिमुपेत्य विश्वकर्त्तारमुद्दिश्य रजोपयुक्तम् ॥सत्त्वेन चास्य स्थितिहेतुमुग्रमथो तमोभिग्रसितारमीडे ॥३४॥अविद्यया विश्वविमोहितात्मा विद्यैकरूपं विततं त्रिलोक्याम् ॥विद्याश्रितत्वात्सकलज्ञमीशं त्वविद्यया जीवमहं प्रपद्ये ॥३५॥भक्तेच्छयाविष्कृतदेहयोगमाभोगभोगार्पितयोगयोगम् ॥कौशेयपीताम्बरजुष्टशक्तिं विचित्रशक्त्यष्टमयेष्टमीडे ॥३६॥अथ प्रसन्नो भगवान्स्तुतः सर्वैर्हृदि स्थितः ॥प्रोवाच मधुरं वाक्यं पावकं पावनार्थिनम् ॥३७॥॥ श्रीनारायण उवाच ॥वरं वरय भद्रं ते वरदोऽहमुपागतः ॥स्तवेनानेन तुष्टोऽस्मि विनयेन तवानध ॥३८॥॥ अग्निरुवाच ॥ज्ञातं भगवता सर्वं यदर्थमहमागतः ॥तथापि कथयाम्येतदीश्वराज्ञानुपालनम् ॥३९॥सर्वभक्षो भवाम्येव निष्कृतिस्तु कथं भवेत् ॥अत्यन्तभयसंपत्तिरेतस्माज्जायते मम ॥४०॥॥ श्रीनारायण उवाच ॥क्षेत्रदर्शनमात्रेण प्राणिनां नास्ति पातकम् ॥मत्प्रसादात्पातकं तु त्वयि मास्तु कदाचन ॥४१॥ततः प्रभृति भूतात्मा पावकः सर्वतो भृशम् ॥कलयावस्थितश्चात्र सर्वदोषविवर्जितः ॥४२॥य एतत्प्रातरुत्थाय शृणोति श्रावयेच्छुचिः ॥अग्नितीर्थकृतस्नानं फलं प्राप्नोत्यसंशयम् ॥४३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीबदरिकाश्रममाहात्म्येऽग्निकृतभगवत्स्तुतिवर्णनंनाम द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : October 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP