संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विज्ञानखण्डः| अध्यायः ६ विज्ञानखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० विज्ञानखण्डः - अध्यायः ६ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता हरिमन्दिरप्रतिष्ठावर्णनम् Translation - भाषांतर उग्रसेन उवाच -कर्मग्रहो गृहस्थोऽयं श्रीकृष्णस्य महात्मनः ॥सेवां वै केन विधिना कुर्यात्तद्ब्रूहि मे मुने ॥१॥भक्त्यंकुरो यस्य नास्ति वास्ति तस्य न वर्द्धते ॥तस्य केन प्रकारेण प्रसन्नः स्याद्धरिः स्वयम् ॥२॥श्रीव्यास उवाच -यदि भक्त्यंकुरो न स्यात्सत्संगेन स जायते ॥बलाद्विवर्द्धते तस्मात्सतां संगं समाचरेत् ॥३॥कृष्णसेवाविधिं तुभ्यं वक्ष्यामि सुलभं परम् ॥यया गृहस्थोऽयं शीघ्रं श्रीकृष्णं प्राप्नुयान्नृप ॥४॥आचार्य्यं कुलसंभूतं श्रीकृष्णध्यानतत्परम् ॥एतादृशं गुरुं कृत्वा सिद्धो भवति मानवः ॥५॥गुरोः सेवाविधिं शिक्षेच्छ्रीकृष्णस्य महात्मनः ॥६॥विष्णुदीक्षाविहीनस्य सर्वं भवति निष्फलम् ॥निर्गुरोर्दर्शनं कृत्त्वा हतपुण्यो भवेन्नरः ॥७॥उत्तराभिमुखं शश्वत्कारयेद्धरिमंदिरम् ॥तत्र सिंहासनं प्रोच्यं सपीठं कुंभमण्डितम् ॥८॥सच्चिदानन्द नाम स्यात्सोपानत्रयभूषितम् ॥महार्हवस्त्रैराच्छन्नं तत्र तुल्यासनं मृदु ॥९॥पार्श्वोपबर्हणयुतं स्फुरद्धेमांबरावृतम् ॥नानाचित्रयुतैः कुड्यैरन्तःपटसमन्वितैः ॥१०॥सर्वतोमंडलैस्तद्वत्तोरणैः समलंकृतम् ॥गवाक्षवारियन्त्राढ्यं चतुःशालसुजालकैः ॥११॥राजतप्राङ्गणो देशः सभामण्डपमण्डितः ॥तत्र प्राङ्गणमध्ये तु तुलसीमन्दीरं शुभम् ॥१२॥मन्दिरस्य बहिर्द्वारि कारयेद्दीपिकाद्वयम् ॥तथा वै कृत्रिमं राजन् सिंहद्वयमधिष्ठितम् ॥१३॥सुवर्णशिखरस्याधश्चक्रं च शिखरोपरि ॥द्वारेऽपि हरिनामानि प्रालेख्यानि शुभानि च ॥१४॥शंखं पद्मं गदां शार्ङ्गमालेख्यं भित्तिपार्श्वयोः ॥इषुधी च तथा बाणः सव्ये दक्षिण एव च ॥१५॥तथा मन्दिरपृष्ठे वै शतचंद्रं च नंदकम् ॥हलं च मुसलं चैव लेखनीयं प्रयत्नतः ॥१६॥सिंहासनस्य पृष्ठे तु गोप्यो गावस्तथैव च ॥गोपालास्तत्र सोपाने कपाटे विजयो जयः ॥१७॥देहल्यां कल्पवृक्षश्च स्तम्भेषु च लतां शुभाम् ॥यत्र तत्र च कुड्येषु श्रीगंगा पापहारिणी ॥१८॥वृंदावनं गोवर्धनं यमुनापुलिनानि च ॥तथा वै चीरहरणमालेख्यं रासमण्डलम् ॥१९॥चित्रकूटः पञ्चवटी लेखनीयं प्रयत्नतः ॥रामरावणयोर्युद्धं जानकीहरणं विना ॥२०॥दशावतारचित्राणि नरनारायणाश्रमः ॥सप्तपुर्य्यस्त्रयो ग्रामा नवारण्यं नवोपराः ॥२१॥एवं लिखित्वा चित्राणि मन्दिरं कारयेद्बुधः ॥वंशीभावोद्यतकरं वक्रीभूतांघ्रिदक्षिणम् ॥२२॥किशोराकृति कृष्णस्य रूपं सेव्यतमं स्मृतम् ॥तत्प्रतिष्ठां विधायाशु गुरुहस्तेन मंदिरे ॥२३॥भक्तः परमया भक्त्या स्थापयेत्तत्परो भवेत् ॥तत्प्रसादे च रसनां घ्राणं च तुलसीदले ॥न्यसेत्कर्णौ तत्कथायामेवं सेवापरो भवेत् ॥२४॥अहर्निशं कृष्णसेवां यः करोति च भाववित् ॥तं प्रेमलक्षणं भक्तं विदुर्भागवतोत्तमाः ॥२५॥अश्वमेधसहस्राणि राजसूयशतानि च ॥राजन् श्रीकृष्णसेवायाः कलां नार्हंति षोडशीम् ॥२६॥श्रीकृष्णदेशिकस्यापि यः कुर्याद्दर्शनं नरः ॥कोटिजन्मकृतैः पापैर्मुच्यते नात्र संशयः ॥२७॥देहांते तं समानेतुं श्यामसुन्दरविग्रहाः ॥रथं नीत्वा प्रधावन्ति गोलोकात्कृष्णपार्षदाः ॥२८॥इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे हरिमंदिरप्रतिष्ठावर्णनं नाम षष्ठोऽध्यायः ॥६॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP