संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विज्ञानखण्डः| अध्यायः ९ विज्ञानखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० विज्ञानखण्डः - अध्यायः ९ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता महापूजाप्रकारकथनम् Translation - भाषांतर श्रीव्यास उवाच -उपचारस्य मंत्राणि वेदोक्तानि शुभानि च ॥तुभ्यं वक्ष्यामि राजेंद्र शृणुष्वैकाग्रमानसः ॥१॥अथावाहनम्गोलोकधामाधिपते रमापतेगोविंद दामोदर दीनवत्सल ॥राधापते माधव सात्वतां पतेसिंहासनेऽस्मिन्मम संमुखो भव ॥२॥अथासनम्श्रीपद्मरागस्फुरदूर्ध्वपृष्ठंमहार्हवैदूर्यखचित्पदाब्जम् ॥वैकुण्ठ वैकुण्ठपते गृहाणपीतं तडिद्धाटककुम्भखण्डम् ॥३॥अथ पाद्यम्परं स्थितं निर्मलरौक्मपात्रेसमाहृतं बिंदुसरोवराद्धि ॥योगेश वेदेश जगन्निवासगृहाण पाद्यं प्रणमामि पादौ ॥४॥अथ अर्घ्यम्जलजचम्पकपुष्पसमन्वितंविमलमर्घ्यमनर्घदरस्थितम् ॥प्रतिगृहाण रमारमण प्रभोयदुपते यदुनाथ यदूत्तम ॥५॥अथ स्नानम्काश्मीरपाटीरविमिश्रितेनसुमल्लिकोशीरवता जलेन ॥स्नानं कुरु त्वं यदुनाथ देवगोविंद गोपालक तीर्थपाद ॥६॥अथ मधुपर्कस्नानम्मध्याह्नचंद्रार्कभवं मलापहंसितांगसंपर्कमनोहरं परम् ॥गृहाण विष्णो मधुपर्कमेनंसंदृश्य पीतांबर सात्वतां पते ॥७॥अथ वस्त्रम्विभो सर्वतः प्रस्फुरत्प्रोज्ज्वलं चस्फुरद्रश्मिरम्यं परं दुर्लभं च ॥स्वतो निर्मितं पद्मकिंजल्कवर्णंगृहणांबरं देव पीतांबराख्यम् ॥८॥अथ यज्ञोपवीतम्सुवर्णाभमापीतवर्णं सुमंत्रैःपरं प्रोक्षितं वेदविन्निर्मितं च ॥शुभं पंचकार्येषु नैमित्तिकेषुप्रभो यज्ञ यज्ञोपवीतं गृहाण ॥९॥अथ भूषणम्कनकरत्नमयं मयनिर्मितंमदनरुक्कदनं सदनं रुचाम् ॥उषसि पूषसुवर्णविभूषणंसकललोकविभूषण गृह्यताम् ॥१०॥अथ गंधम्संध्येंदुशोभं बहुमंगलं श्री-काश्मीरपाटीरकपंकयुक्तम् ॥स्वमंडनं गन्धचयं गृहाणसमस्तभूमण्डलभारहारिन् ॥११॥अथाक्षतान्ब्रह्मावर्ते ब्रह्मणा पूर्वमुप्तान्ब्राह्मैस्तोयैः सिंचितान्विष्णुना च ॥रुद्रेणाराद्रक्षितान् राक्षसेभ्यःसाक्षाद्भूमन्नक्षतांस्त्वं गृहाण ॥१२॥अथ पुष्पाणिमन्दारसन्तानकपारिजात-कल्पद्रुमश्रीहरिचन्दनानाम् ॥गृहाण पुष्पाणि हरे तुलस्यामिश्राणि साक्षान्नवमंजरीभिः ॥१३॥अथ धूपम्लवंगपाटीरजचूर्णमिश्रंमनुष्यदेवासुरसौख्यदं च ॥सद्यः सुगंधीकृतहर्म्यदेशंद्वारावतीभूप गृहाण धूपम् ॥१४॥अथ दीपम्तमोहारिणं ज्ञानमूर्तिं मनोज्ञंलसद्वर्तिकर्पूरपूरं गवाज्यम् ॥जगन्नाथ देव प्रभो विश्वदीपस्फुरज्ज्योतिषं दीपमुख्यं गृहाण ॥१५॥अथ नैवेद्यम्रसैः शरैर्भेदविधिव्यवस्थितंरसै रसाढ्यं च यशोमतीकृतम् ॥गृहाण नैवेद्यमिदं सुरोचकंगव्यामृतं सुन्दर नन्दनन्दन ॥१६॥अथ जलम्गंगोत्तरीवेगबलात्समुद्धृतंसुवर्णपात्रेण हिमांशुशीतलम् ॥सुनिर्मलाभं ह्यमृतोपमं जलंगृहाण राधावर भक्तवत्सल ॥१७॥अथाचमनम्राधापते श्रीविरजापते प्रभोश्रियः पते सर्वपते च भूपते ॥कंकोलजातीफलपुष्पवासितंपरं गृहाणाचमनं दयानिधे ॥१८॥अथ तांबूलम्जातीफलैलासुलवंगनाग-वल्लीदलैः पूगफलैश्च संयुतम् ॥मुक्तासुधाखादिरसारयुक्तंगृहाण तांबूलमिदं रमेश ॥१९॥अथ दक्षिणानाकपालवसुपालमौलिभि-र्वंदितांघ्रियुगल प्रभो हरे ॥दक्षिणां परिगृहाण माधवलोकदक्ष वरदक्षिणाय ते ॥२०॥अथ नीराजनम्प्रस्फुरत्परमदीप्तिमंगलंगोधृताक्तनवपंचवर्तिकम् ॥आर्तिकं परिगृहाण चार्तिहन्पुण्यकीर्तिविशदीकृतावने ॥२१॥अथ नमस्कारःनमोऽस्त्वनंताय सहस्रमूर्तयेसहस्रपादाक्षिशिरोरुबाहवे ॥सहस्रनाम्ने पुरुषाय शाश्वतेसहस्रकोटीयुगधारिणे नमः ॥२२॥अथ प्रदक्षिणासमस्ततीर्थयज्ञदानपूर्तकादिजं फलम् ॥लभेत्परस्य शाश्वतं करोति यः प्रदक्षिणाम् ॥२३॥अथ प्रार्थनाहरे मत्समःपातकी नास्ति भूमौतथा त्वत्समो नास्ति पापापहारी ॥इति त्वं च मत्वा जगन्नाथ देवयथेच्छा भवेत्ते तथा मां कुरु त्वम् ॥२४॥अथ स्तुतिःसंज्ञानमात्रं सदसत्परं मह-च्छश्वत्प्रशांतं विभवं समं महत् ॥त्वां ब्रह्म वंदे हि सुदुर्गमं परंसदा स्वधाम्ना परिभूतकैतवम् ॥२५॥एवं संपूज्य देवेशमेभिर्मंत्रैर्महामते ॥प्रणम्य विष्णुं सर्वांगपूजां कुर्यात्प्रयत्नतः ॥२६॥ॐ नमो नारायणाय पुरुषाय महात्मने ॥विशुद्धसत्वधीस्थाय महाहंसाय धीमही ॥२७॥इति मंत्रेण प्राणायामं कृत्वाॐ विष्णवे मधुसूदनाय वामनाय त्रिविक्रमायश्रीधराय हृषीकेशाय पद्मनाभाय दामोदरायसंकर्षणाय वासुदेवाय प्रद्युम्नाय अनिरुद्धायअधोक्षजाय पुरुषोत्तमाय श्रीकृष्णाय नमः ॥इति पादगुल्फजानूरुकट्युदरपृष्ठभुजाकंधरकर्ण-नासिकाधरनेत्रशिरःसु पृथक् पृथक् पूजयामीतिसर्वाङ्गपूजां कुर्यात् ॥ तथा सखीसखशंखचक्रगदा-पद्मासिधनुर्बाणहलमुसलादीन् तथा कौस्तुभवनमाला-श्रीवत्सपीतांबरनीलांबरवंशीवेत्रादीन् तथातालांकगरुडांकरथदारुकसुमतिसारथिगरुड-कुमुदनंदसुनंदचंडमहाबलकुमुदाक्षादीन् ॥प्रणवपूर्वेण चतुर्थ्यन्तेन नमःसंयुक्तेन नाम्नातथा विष्वक्सेनशिवविधिदुर्गाविनायकदिक्पाल-वरुणनवग्रहमातृकादीन्मंत्रैः पूजयेत् ॥ॐ नमो वासुदेवाय नमः संकर्षणाय च ॥प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥२८॥इति मंत्रेण शतमाहुतीर्जुहुयात् ॥देवं प्रदक्षीणीकृत्य महाभोगं निधाय च ॥प्रणमेद्दंडवद्भूमौ मंत्रमेतमुदीरयेत् ॥२९॥ध्येयं सदापरिभवघ्नमभीष्टदोऽहंतीर्थास्पदं शिवविरंचिनुतं शरण्यम् ॥भृत्यार्तिहन् प्रणतपाल भवाब्धिपोतंवंदे महापुरुष ते चरणारविंदम् ॥३०॥इति नत्वा हरिM राजन्पुनर्नीराजनं हरेः ॥कारयेद्विधिवद्भक्तो हरिभक्तजनैः सह ॥३१॥घटीवाद्यरणद्घण्टाकांस्यवीणादिकीचकैः ॥करतालमृदङ्गाद्यैः कीर्तनं कारयेद्बुधः ॥३२॥नृत्यन्ति श्रीहरेरग्रे भक्ता वै प्रेमविह्वलाः ॥जयध्वनिसमायुक्ताः सत्कथागानतत्पराः ॥३३॥पुनः प्रभुं नमस्कृत्य मंदिरे तपनोज्ज्वले ॥शयनं कारयेत्सम्यक् श्रीकृष्णस्य महात्मनः ॥३४॥एवं करोति श्रीकृष्णसेवां यो लग्नमानसः ॥प्रणमंति च तं राजन्देवताः स्वर्गसंभवाः ॥३५॥सोऽपि राजेन्द्र नाकेऽपि पदं धृत्वा हरेर्जनः ॥अंते याति परं धाम गोलोकं योगिदुर्लभम् ॥३६॥इति श्रीकृष्णसेवाया विधानं वर्णितं मया ॥चतुःपदार्थदं नॄणां किं भूयः श्रोतुमिच्छसि ॥३७॥इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे श्रीकृष्णसेवाविधानवर्णनं नाम नवमोऽध्यायः ॥९॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP