विज्ञानखण्डः - अध्यायः १
गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.
बहुलाश्व उवाच -
हरेः श्रीकृष्णचंद्रस्य भक्तिमार्गस्तु यः परः ॥
तं वदाशु मुने मह्यं येन भक्तो भवाम्यहम् ॥१॥
श्रीनारद उवाच -
भक्तिमार्गं वदिष्यामि वेदव्यासमुखाच्छ्रुतम् ॥
येन प्रसन्नो भवति भगवान् भक्तवत्सलः ॥२॥
शङ्खं विजित्य कृष्णेन भुजदंडबलोद्धृतम् ॥
द्वारावत्यां सभा दिव्या सुधर्मा नाम मैथिल ॥३॥
यत्र मंडपदेशस्य वैदूर्यस्तंभपंक्तयः ॥
राजंते कोटिशो राजन् विश्वकर्मविनिर्मिताः ॥४॥
पद्मरागखचिद्भूमौ श्रेण्यो वै विद्रुमाचिताः ॥
यत्र चित्रवितानानि भ्राजन्ते मौक्तिकालिभिः ॥५॥
सिंहासनानि कुड्यानि कालमेघतडिद्द्युभिः ॥
जांबूनदसुवर्णानां स्फुरत्कुण्डलकोटिभिः ॥६॥
बालार्करत्नकेयुरकांचीकंकणनूपुरैः ॥
शतचंद्रप्रतीकाशाः स्फुरत्कुण्डलमण्डिताः ॥७॥
गायंति यत्र गंधर्व्यो विद्याधर्यो मुदान्विताः ॥
नृत्यंत्यः कलवादित्रैः स्पर्द्धावत्यः परस्परम् ॥८॥
यस्याश्चतुर्षु कोणेषु देववृक्षैर्मनोरमैः ॥
नंदनं सर्वतोभद्रं ध्रौव्यं चैत्ररथं वनम् ॥९॥
लक्षाणि यत्र राजेन्द्र सरांसि विमलानि च ॥
सहस्रदलपद्मानि भ्रमरैः संकुलानि च ॥१०॥
दशयोजनविस्तीर्णा पंचयोजनमूर्ध्वगा ॥
एतादृशी सुधर्माऽऽस्ते पताकाध्वजमंडिता ॥११॥
यत्र प्रविष्टः पुरुष आत्मानं मन्यते परम् ॥
यत्सिंहासनमासाद्य शक्रोऽहमिति मन्यते ॥१२॥
यद्यत्त्रैलोक्यचातुर्यं तस्य देहे प्रवर्तते ॥
यावत्तिष्ठेत्तत्र तावदूर्मिषट्कं न चैव हि ॥१३॥
यावंतश्च जनास्तत्र प्रविशन्ति नरोत्तम ॥
स्वप्रभावेण सहसा तावती सा प्रकाशते ॥१४॥
षट्पंचाशत्कोटिसंख्या यादवा यत्र सानुगाः ॥
तच्चत्वरस्यैकदेशे दृश्यंते ते च मैथिल ॥१५॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥
यत्रास्ते तस्य राजेंद्र वर्णनं कः करोति हि ॥१६॥
अथ तस्यां सुधर्मायां यदुकोटिसमावृतः ॥
उग्रसेनो गीयमानः सूतमागधवन्दिभिः ॥१७॥
आकाशादागतः साक्षाद्वेदव्यासो महामुनिः ॥
पाराशर्यो घनश्यामस्तडित्पिंगजटाधरः ॥१८॥
तं दृष्ट्वा सहसोत्थाय यदुराजः कृतांजलिः ॥
नत्वाऽऽसनं सोपचारं दत्वा तत्संमुखोऽभवत् ॥१९॥
उग्रसेन उवाच -
अद्य मे सफलं जन्म सफलं गेहमद्य मे ॥
अद्य मे सफलो धर्मो ब्रह्मंस्त्वय्यागते सति ॥२०॥
सदानंदेषु कुशलं कृष्णेनेष्टं भवत्सु हि ॥
वद मे कुशलं देव येन स्वस्थो भवाम्यहम् ॥२१॥
यत्र यत्र व्रजंतस्ते त्वादृशाः साधवः प्रभो ॥
तत्र तत्र भवेत्सिद्धिर्लौकिकी पारलौकिकी ॥२२॥
यत्र क्षणं स्थिताः संतस्तत्र साक्षात्स्वयं हरिः ॥
किमु लोकगुणा ब्रह्मान्पाराशर्य महामुने ॥२३॥
मया तु पुण्यं यज्ञो वा किं कृतं पूर्वजन्मनि ॥
येन वै द्वारकाराज्यं प्राप्तोऽहं मुनिपुङ्गव ॥२४॥
भवादृशा विप्रमुख्या गृहमायांति नित्यशः ॥
तस्मात्परं हि सुकृतं जाने स्वस्य न संशयः ॥२५॥
व्यास उवाच -
धन्योऽसि राजशार्दूल धन्या ते विमला मतिः ॥
परं कृतं त्वया राजन्सुकृतं पूर्वजन्मनि ॥२६॥
पुरा त्वं मरुतो राजन् कृत्वा यज्ञं जगज्जितम् ॥
निष्कारणोऽभूर्मनसा प्रसन्नोऽभूद्धरिस्तदा ॥२७॥
अनिमित्तेन भावेन प्राप्तं चेदं परं तव ॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्हरिः ॥२८॥
असंख्यब्रह्मांडपतिर्गोलोकेशः परात्परः ॥
सोऽयं भक्त्या वशीभूतः स्ववशस्तव मंदिरे ॥२९॥
अहो भोजपते मुक्तिं ददाति भजतां हरिः ॥
न कर्हिचिद्भक्तियोगं दुर्लभं विद्धि तं नृप ॥३०॥
इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीनारदबहुलाश्वसंवादे व्यासागमनं नाम प्रथमोऽध्यायः ॥१॥
N/A
References : N/A
Last Updated : May 21, 2021
TOP