संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विज्ञानखण्डः| अध्यायः १० विज्ञानखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० विज्ञानखण्डः - अध्यायः १० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता परब्रह्मनिरूपणम् Translation - भाषांतर उग्रसेन उवाच -सिद्धोऽस्म्यनुगृहीतोऽस्मि त्वया श्रीकृष्णरूपिणा ॥श्रीकृष्णपद्धतिः साक्षाच्छ्रुता वै विधिवन्मया ॥१॥अहो लोका महामूढा लोभमोहमदान्विताः ॥नाप्नुवंति हि वैराग्यं भजंति न हरिं क्वचित् ॥२॥भगवन्नस्य जगतो मोहकारणमद्भुतम् ॥कथं जातं वद विभो कथमेतन्निवर्तते ॥३॥श्रीव्यास उवाच -यथांभसि प्राप्तमदो विधोः खत-स्तत्प्रेक्षते केवलमेव वेगतः ॥तथा हि बिम्ब परमस्य माययाममेत्यहं भावगते प्रवर्तते ॥४॥प्रधानकालाशयदेहजैर्गुणैःकुर्वन्विकर्माणि जनो निबद्ध्यते ॥काचेऽर्भकं सैकत एव जीवनंगुणे च सर्पं प्रतनोति सोऽक्षिभिः ॥५॥राजन् जगन्मोहमयं रजोमयंतमोमयं सत्वमयं तथा क्वचित् ॥मनोविलासं विकृतं च विभ्रमंविद्ध्याश्विदं लोलमलातचक्रवत् ॥६॥इदं करिष्यामि करोम्यभूवंममेदमस्तीति च वेदमाब्रुवन् ॥अहं सुखी दुःखयुतः सुहृज्जनोलोकस्त्वहंकारविमोहितो मतः ॥७॥उग्रसेन उवाच -वद मे कृपया ब्रह्मँल्लक्षणं परमात्मनः ॥कतिधा कवयः कृष्णं वदंति जपवर्त्मनि ॥८॥श्रीव्यास उवाचसनातनस्यात्र न मृत्युजन्मनीन शोकमोहौ न जरायुवादयः ॥अहंमदो व्याधियुतो भयं सुखंशुचः क्षुधेच्छा न रतिर्न चाधयः ॥ ९॥आत्मा निरीहो ह्यतनुः स सर्वगोनाहंकृतिः शुद्धबलो गुणाश्रयः ॥स्वयं परो निष्फल आत्ममंगलोज्ञानात्मको यो विदितो मुनीश्वरैः ॥१०॥जागर्ति योऽस्मिञ्छयनं गते सतिनायं जनो वेद स वेद तं हितम् ॥पश्यन्तमाद्यं पुरुषं हि यं जनोन पश्यति स्वच्छमलं च तं भजे ॥११॥यथा नभोऽग्निः पवनो न सज्जतेघटे न काष्ठे न रजोभिरावृतः ॥तथा पुमान्सर्वगुणैश्च निर्मलोवर्णैर्यथा स्यात्स्फटिकोपमोज्ज्वलः ॥१२॥व्यंगेन वा लक्षणया च वाक्पथै-रर्थैः पदस्फोटपरायणैः परम् ॥न ज्ञायते तद्गुणिनोत्तमेन स-द्वाच्यं ततो ब्रह्म कुतस्तु लौकिकैः ॥१३॥वदन्ति केचिद्भुवि कर्मकर्तृ य-त्कालं च केचित्परमेव शोभनम् ॥केचिद्विचारं प्रवदन्ति यच्च तद्-ब्रह्मेति वेदांतविदो वदन्ति हि ॥१४॥यं न स्पृशंतीह गुणा न कालजामायेन्द्रियं चित्तमनो न बुद्धयः ॥महन्न वेदो वदतीति तत्परंविशन्ति सर्वेऽनलविस्फुलिंगवत् ॥१५॥हिरण्यगर्भः परमात्मतत्त्वंयद्वासुदेवं प्रवदन्ति सन्तः ॥विचार्य्य तद्देववरस्वरूपंविसृज्य मोहं विचरेदसङ्गः ॥१६॥यथेन्दुरेको जलपात्रवृंदगोयथाग्निरेको विदितः समिच्चये ॥तथा परात्मा भगवाननेकवि-दन्तर्बहिः स्यात्स्वकृतेषु देहिषु ॥१७॥सूर्योदये नैशतमो विलीयतेप्रदृश्यते वस्तु गृहे यथा जनैः ॥ज्ञानोदये ज्ञानतमः प्रलीयतेसंप्राप्यते ब्रह्म परं तनौ तथा ॥१८॥यथेन्द्रियाणां च पृथक्प्रवृत्तिभि-र्नानेव तेऽर्थोतिगुणाश्रयः परः ॥एकं ह्यनंतस्य परस्य धाम त-त्तथा मुनीनां किल शास्त्रधर्मभिः ॥१९॥साक्षाद्धरिर्यः पुरुषोत्तमोत्तमःश्रीकृष्णचन्द्रो निजभक्तवत्सलः ॥कैवल्यनाथो नृगमुज्जहार तंपूर्णं स्वयं ब्रह्म परं नमाम्यहम् ॥२०॥श्रीनारद उवाच -इत्युक्त्वा तमनुज्ञाप्य भगवान्बादरायणः ॥पश्यतां यादवानां च तत्रैवांतरधीयत ॥२१॥इदं मया ते कथितं हरिभक्तिविवर्द्धनम् ॥विज्ञानखंडं विशदं श्रोतॄणां मोक्षदं स्मृतम् ॥२२॥गर्गाचार्येण कथिता नाम्नेयं गर्गसंहिता ॥सर्वदोषहरा पुण्या चतुर्वर्गफलप्रदा ॥२३॥गोलोकवृंदावनयोर्गिरीश्वर-माधुर्ययोः श्रीमथुरापुरस्य च ॥द्वारावतीविश्वजितोर्हलायुध-विज्ञानयोः खंडचयाः पृथङ् नव ॥२४॥श्रीकृष्णमूर्तिः परमै रसैर्यथायथा च भूमिर्भरतादिभिर्भृशम् ॥तथा हि शश्वन्मुनिगर्गसंहिताविभाति खंडैर्नवभिर्नृपेश्वर ॥२५॥यथा हि रत्नैर्नवभिर्विराजतेदेवांगुलौ तप्तसुवर्णमुद्रिका ॥तथा चतुर्वर्गफलप्रदे विधौसर्गैर्विसर्गैमुनिगर्गसंहिता ॥२६॥नरेन्द्र शश्वन्मुनिसंहितां येशृण्वन्ति भक्त्या हि जनाः पुनीताः ॥इहैव सौख्यं परमाप्नुवंत-स्ततस्तु गोलोकपुरं प्रयांति ॥२७॥कृत्वाथ पीताम्बरवन्दनं त्विमांशृणोति वंध्या बहुलालसा भृशम् ॥हृस्वेन कालेन गृहांगणे शिशू-न्सञ्चारयन्ती विचरत्यहर्निशम् ॥२८॥रोगी पुमान् रोगगणात्प्रमुच्यतेभीतो भयाद्बंधगतश्च बंधनात् ॥श्रुत्वा कथां निर्धन एति वैभवंमूर्खो भवेत्पंडित एव सत्वरम् ॥२९॥यः कार्तिके मासि नृपः श्रिया युतः-शृणोति शश्वन्मुनिगर्गसंहिताम् ॥स चक्रवर्ती भविता न संशयोनरेन्द्रहस्तोद्धृतचारुपादुकः ॥३०॥मनोजवैः सिंधुतुरङ्गमैर्नवै-र्द्विपैश्च विंध्याचलसंभवैः परैः ॥वैतालिकोद्गीतयशा महीतलेनिषेवितो वारवधूजनैः सह ॥३१॥सुवर्णशृङ्गं वरताम्रपृष्ठंसभूषणं रौप्यखुरं सवत्सम् ॥ददाति खंडं प्रति गोद्वयं यःप्राप्नोति सर्वं हि मनोरथं सः ॥३२॥निष्कारणोऽसौ शृणुते विदेहराट्सर्वामिमां वै मुनिगर्गसंहिताम् ॥हृत्पुण्डरीके वसतेऽस्य सर्वदाश्रीकृष्णचंद्रो निजभक्तवत्सलः ॥३३॥श्रीगर्ग उवाच -इत्युक्त्वा तमनुज्ञाप्य नारदो देवदर्शनः ॥सर्वेषां पश्यतां ब्रह्मन्नंबरं गतवान्मुनिः ॥३४॥बहुलाश्वो महाराजः श्रीकृष्णे लग्नमानसः ॥सर्वतस्तु कृतार्थोऽभूच्छ्रुत्वेमां संहितां हरेः ॥३५॥तव पश्नोपरि ब्रह्मन्कथिता संहिता मया ॥श्रुता वा पठिता कैश्चित्कोटियज्ञफलप्रदा ॥३६॥श्रीशौनक उवाच -धन्योऽहं च कृतार्थोऽहं त्वत्संगेन महामुने ॥प्राप्नोमि परमां भक्तिं श्रीकृष्णप्रेमवर्द्धिनीम् ॥३७॥विशदहृदि मुनीनां मानसे राजहंसःसकलसुखविराजन्नादमाधुर्य्यवंशः ॥जगति विकलदंशः शूरवंशावतंसःकरबलहतकंसः पातु वः सत्प्रशंसः ॥३८॥इत्युक्त्वा तान्मुनीन्सर्वान् गर्गाचार्यो महामुनिः ॥अनुज्ञाप्य प्रसन्नात्मा गंतुमभ्युद्यतोऽभवत् ॥३९॥नवसर्गविसर्गाढ्यां स्वर्गभृद्गर्गसंहिताम् ॥चतुर्वर्गप्रदामुक्त्वा गर्गो गर्गाचलं ययौ ॥४०॥शरद्विकचपंकजश्रियमतीव विद्वेषकंमिलिंदमुनिलेढितं कुलिशकञ्जचिह्नावृतम् ॥स्फुरत्कनकनूपुरं दलितभक्ततापत्रयंचलद्द्युतिपदद्वयं हृदि दधामि राधापतेः ॥४१॥इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीनारदबहुलाश्वसंवादांतर्गत- श्रीव्यासोग्रसेनसंवादे परब्रह्मनिरूपणं नाम दशमोऽध्यायः ॥१०॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP