संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विज्ञानखण्डः| अध्यायः ८ विज्ञानखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० विज्ञानखण्डः - अध्यायः ८ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता महापूजाविधिवर्णनम् Translation - भाषांतर श्रीव्यास उवाच -अथ स्नात्वा च कृत्वा च नित्यनैमित्तिकीं क्रियाम् ॥पञ्चवर्णसमायुक्तं शुद्धे स्थण्डिलमण्डले ॥१॥द्वात्रिंशद्दलसंयुक्तं कार्णिकाकेसरोज्ज्वलम् ॥विधाय कमलं स्थाप्य विधिवद्वेदसूक्तिभिः ॥२॥कर्णिकायां न्यसेद्राजन्हरेः सिंहासनं शुभम् ॥तत्र राधां रमां स्थाप्य भूदेवीं विरजां तथा ॥३॥तन्मध्ये स्थापयेत्साक्षाच्छ्रीकृष्णं पुरुषोत्तमम् ॥तथाष्टदलमध्ये तु राधिकाष्टसखीः शुभाः ॥४॥ततोऽष्टदलमध्ये तु श्रीकृष्णस्य तथा सखीन् ॥तथा षोडशपर्णेषु सखीनां च द्वयं द्वयम् ॥५॥कमलस्य च पार्श्वेषु शंखं चक्रं गदां तथा ॥पद्मं च नंदकं शार्ङ्गं बाणांश्च मुसलं हलम् ॥६॥कौस्तुभं वनमालां च श्रीवत्सं नीलमंबरम् ॥पीतांबरं तथा वंशीं वेत्रं च स्थापयेद्बुधः ॥७॥ततः पार्श्वेषु तालांकं गरुडांकं रथं तथा ॥सुमतिं दारुकं सूतं गरुडं कुमुदं तथा ॥८॥चंडं चैव प्रचंडं च बलं चैव महाबलम् ॥कुमुदाक्षं बलं चैव स्थापयेद्यत्नतः सुधीः ॥९॥तथा दिक्षु च दिक्पालान्संस्थाप्य च पृथक् पृथक् ॥विष्वक्सेनं शिवं मां च विधिं दुर्गां विनायकम् ॥१०॥नवग्रहांश्च वरुणं तथा षोडश मातृकाः ॥तत्पद्माग्रे वीतिहोत्रं स्थंडिले स्थापयेद्बुधः ॥११॥आवाहनमासनं च पाद्यमर्घ्यं विशेषतः ॥स्नानं च मधुपर्कं च धूपं दीपं तथैव च ॥१२॥यज्ञोपवीतं वस्त्रं च भूषणं गंधमेव च ॥पुष्पं तथाक्षतांश्चैव नैवेद्यं च मनोहरम् ॥१३॥आचमनं प्रदातव्यं तांबूलं दक्षिणां तथा ॥प्रदक्षिणां प्रार्थनां च तथा नीराजनं स्मृतम् ॥१४॥नमस्कारं ततः कुर्यात्कर्मणा च पृथक् पृथक् ॥आवाहने तु पुष्पाणि आसने तु कुशद्वयम् ॥पाद्ये श्यामां च दूर्वां च विष्णुक्रांतां तथैव च ॥सौगंधिकानि पुष्पाणि अर्घ्ये योग्यानि यादव ॥१६॥चंदनोशीरकर्पूरकुंकुमागुरुमिश्रितम् ॥एतादृशं जलं योग्यं स्नाने राजन्महामते ॥१७॥मधुपर्के ह्यामलकमरविंदं तथा मतम् ॥धूपे गंधाष्टकं देयं दीपे कर्पूरमेव च ॥१८॥यज्ञोपवीतं पीतं च वस्त्रे पीतांबरं मतम् ॥भूषणे चैव सौवर्णं गंधे कुंकुमचन्दने ॥१९॥तुलसीमंजरी पुष्पेऽक्षतेषु स्युस्तु तंडुलाः ॥नैवेद्ये तु रसाः षट् च भोगा नानाविधा मताः ॥२०॥जले गंगाजलं योग्यं यमुनाजलमेव च ॥जातीफलं च कंकोलमंते चाचमने नृप ॥२१॥तांबूले चोषणं त्वेला दक्षिणायां तु हाटकम् ॥प्रदक्षिणायां भ्रमणं घृतं नीराजने गवाम् ॥२२॥प्रार्थनायां हरेर्भक्तिः प्रेमलक्षणसंयुता ॥नमस्कारे महाराज साष्टांगनतविग्रहः ॥२३॥द्वादशाक्षरमंत्रेण शिखां बद्ध्वा शुचिः पुमान् ॥उपचरान्पुरस्कृत्य श्रीमुखे संमुखो भवेत् ॥२४॥इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे महापूजाविधिवर्णनं नामाष्टमोऽध्यायः ॥८॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP