संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विज्ञानखण्डः| अध्यायः ७ विज्ञानखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० विज्ञानखण्डः - अध्यायः ७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता राजससेवाकथनम् Translation - भाषांतर श्रीवेदव्यास उवाच -ब्राह्मे मुहूर्ते चोत्थाय कशिपोश्च मुदा नृप ॥गुरोर्नाम च गोविंदनामानि प्रवदन्मुहुः ॥१॥भूमिं नत्वा न्यसेत्पादं जलं स्पृष्ट्वा हरेर्जनः ॥उपविश्यासने शीघ्रं सकामो यो यथासुखम् ॥२॥हस्तावुत्संग आधाय श्वासजित्प्राणमास्थितः ॥ज्ञानमुद्राधरं शांतं श्रीगुरुं स्वस्तिकासनम् ॥३॥ध्यात्वा कृष्णं परं ध्यायेद्भक्त एकाग्रमानसः ॥किशोरं श्यामलं हृद्यं वंशीवेत्रविभूषितम् ॥४॥एवं कृत्वा हरेर्ध्यानं पुनर्गच्छेद्बहिःस्थलम् ॥तच्छौचं शृणु राजेन्द्र गृहस्थस्य यथातथम् ॥५॥अश्वक्रांतेति मंत्रेण मृत्स्नया च जलेन च ॥एका लिंगे गुदे तिस्रस्तथा वामकरे दश ॥६॥एतच्चतुर्गुणं प्रोक्तं यतीनां हरिसेविनाम् ॥तदर्धं रोगिपांथानां स्त्रीशूद्राणां तदर्धकम् ॥८॥शौचकर्मविहीनस्य सकला निष्फलाः क्रियाः ॥मुखशुद्धिविहीनस्य मंत्रा न फलदाः स्मृताः ॥९॥आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ॥ब्रह्मप्रज्ञां च मेधां च त्वन्नो देहि वनस्पते ॥१०॥इति मंत्रं समुच्चार्य कुर्याद्वै दन्तधावनम् ॥हरितहर्यमंत्रेण सूर्यं नत्वा कृतांजलिः ॥११॥प्रणमेद्धरिभक्तांश्च प्रह्लादादीन्समाहितः ॥तुलसीमृत्तिकां नीत्वा ततः स्नानं समाचरेत् ॥१२॥पठितव्यं प्रयत्नेन श्रीगंगायमुनाष्टकम् ॥अयोध्या मथुरा माया काशी कांची अवंतिका ॥१३॥पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः ॥शालिग्रामो महायोगे शंभलो हरिमन्दिरे ॥१४॥नंदिग्रामः कौशले तु त्रयो ग्रामाः प्रकीर्तिताः ॥दंडकं सैधवारण्यं जंबुमार्गं च पुष्कलम् ॥१५॥उत्पलावर्तमारण्यं नैमिषं कुरुजांगलम् ॥अर्बुदं हेमवंतं च नवारण्यानि वै विदुः ॥१६॥एतानि तीर्थनामानि समुच्चार्य पुनः पुनः ॥इत्थं स्नात्वा ततो बिभ्रदंबरं क्षौममुत्तमम् ॥१७॥द्वादशांस्तिलकान् बिभ्रदष्टमुद्राधरः परः ॥कृतसंध्यः शुचिर्मौनी गत्वा श्रीकृष्णमंदिरम् ॥१८॥घंटावाद्यं जयारावं तलशब्दं विधाय च ॥उत्तष्ठोत्तिष्ठ गोविंद योगनिद्रां विहाय च ॥१९॥उक्त्वापीमां स्मृतिं राजन् भक्त उत्थापयेद्धरिम् ॥मंगलार्तिं समादाय भ्रामयंस्तन्मुखोपरि ॥२०॥निवेद्य बहुपक्वान्नं नत्वा नत्वा पुनः पुनः ॥ततः स्नानं कारयित्वा देशकालप्रभाववित् ॥२१॥शृङ्गारं भाववित्कृत्वा वस्त्रभूषणमंगलैः ॥आर्तिक्यं तु ततः कृत्वा भोज्यान्नं च विधाय च ॥२२॥ततो धृत्वा महाभोगं नानारसमयं परम् ॥महाभोगार्तिकं कृत्वा कारयेच्छयनं हरेः ॥२३॥ततः प्रसादं परमं तुलसीगंधमिश्रितम् ॥भुञ्जीत यो हरेर्नित्यं स कृतार्थो न संशयः ॥२४॥राजभोगार्तिकं कृत्वा कारयेच्छयनं हरेः ॥शंखनादेन विधिवद्भोगं धृत्वा यथाविधि ॥२५॥ततः संध्यार्तिकं कृत्वा दुग्धादीन्विनिवेद्य च ॥ततः प्रदोषसमये पुनरार्तिकमाचरेत् ॥२६॥धृत्वा भोगं परं मिष्टं कारयेच्छयनं हरेः ॥राजसी चैव राजेन्द्र रजसेवेयमस्ति वै ॥२७॥सर्वं श्रीकृष्णचण्द्रस्य सेवासंलग्नमानसः ॥तारयित्वा कुलशतं याति चात्यंतिकं पदम् ॥२८॥जन्माष्टमी च कृष्णस्य श्रीरामनवमी तथा ॥राधाष्टम्यन्नकूटं च द्वादशी वामनस्य च ॥२९॥चतुर्दशी नृसिंहस्य तथानन्तचतुर्दशी ॥एषु कालेषु कृष्णस्य महापूजां समाचरेत् ॥३०॥इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे राजससेवावर्णनं नाम सप्तमोऽध्यायः ॥७॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP