द्वारकाखण्डः - अध्यायः १९
गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.
श्रीनारद उवाच ॥
द्वारावतीमण्डलं तु शतयोजनविस्तृतम् ॥
तस्य प्रदक्षिणा सर्वा योजनानां चतुःशतम् ॥१॥
तन्मध्येकृष्णरचितं दुर्गं द्वादशयोजनम् ॥
द्वितीयं च बहिर्दुर्गं नवतिं च दुरुत्तरम् ॥
क्रोशैः संघट्टितं राजञ्छ्रीकृष्णेन महात्मना ॥२॥
तृतीयं च तथा दुर्गं द्यूनैश्च द्विशतैर्नृप ॥
क्रोशैः संघट्टितं राजन्रत्नप्रासादसंयुतम् ॥३॥
तेषामंतरदुर्गेपि श्रीकृष्णस्य महात्मनः ॥
मंदिराणि विचित्राणि नवलक्षाणि संति हि ॥४॥
तत्र राधामंदिरस्य द्वारे लीलासरोवरम् ॥
सर्वतीर्थोत्तमं राजन्गोलोकाच्च समागतम् ॥५॥
यस्मिन्स्नात्वा नरः पापी व्रती भूत्वा समाहितः ॥
अष्टम्यां हेमदानं च दत्त्वा नत्वा विधानतः ॥६॥
कोटिजन्मकृतैः पापैर्मुच्यते नात्र संशयः ॥
प्राणांते तन्नरं नेतुं गोलोकाच्च महारथः ॥७॥
सहस्रादित्यसंकाश आगच्छति न संशयः ॥
दशकंदर्पलावण्यो रत्नकुण्डलमंडितः ॥८॥
स्रग्वी पीतांबरः श्यामः सहस्रार्कस्फुरद्द्युतिः ॥
सहस्रपार्षदैर्युक्तश्चामरांदोलराजितः ॥९॥
जयध्वनिसमायुक्तो वेणुदुंदुभिनादितः ॥
भूत्वैवं रथमास्थाय गोलोकं यात्य- संशयम् ॥१०॥
अथ तीर्थानि चान्यानि शृणु राजन्महामते ॥
शतोत्तराणि तत्रैव सहस्राणि च षोडश ॥११॥
अष्टभिः सहितान्येव पत्नीनां भव- नानि च ॥
तानि प्रदक्षिणीकृत्य नत्वा नत्वा पृथक्पृथक् ॥१२॥
ज्ञानतीर्थं समाप्लुत्य स्पृशेद्यः पारिजातकम् ॥
तस्य ज्ञानं च वैराग्यं भक्तिर्भवति तत्क्षणात् ॥१३॥
श्रीकृष्णो हृदये तस्य वसेद्धृष्टमनाः सदा ॥
समृद्धिसिद्धयः सर्वास्तं भजंति निसर्गतः ॥१४॥
स मुक्तः स कृतार्थः स्याद्यः पश्येद्धरिमंदिरम् ॥
तत्समो वैष्णवो नास्ति तीर्थं च तत्समं नहि ॥१५॥
पंचयोजनविस्तीर्णाद्भगवन्मंदिरात्ततः ॥
धनुःशते कृष्णकुण्डः कृष्णतेजः समुद्भवः ॥१६॥
यं स्नात्वा कुष्ठतो मुक्तः सांबो जांबवतीसुतः॥
तस्य दर्शन मात्रेण सर्वपापैः प्रमुच्यते ॥१७॥
तस्मादष्टादशपदे पूर्वस्यां दिशि मैथिल ॥
सर्वतीर्थोत्तमं पुण्यं बलभद्रसरो महत् ॥१८॥
पृथ्वीप्रदक्षिणां कृत्वा बलदेवो महाबल.॥
यज्ञं यत्र विनिर्माय रेवत्या विरराज ह ॥१९॥
तत्र स्नात्वा नरः सद्यो मुच्यते सर्वपातकात् ॥
पृथ्वीप्रदक्षिणायाश्च फलं तस्य न दुर्लभम् ॥२०॥
भगवन्मंदिराद्राजन्सहस्रधनुरग्रतः ॥
दक्षिणस्यां महातीर्थं गणनाथस्य वर्तते ॥२१॥
अनिर्दशे गते राजन्प्रद्युम्न स्वसुते तदा ॥
गणेशपूजनं यत्र पूजयामास रुक्मिणी ॥२२॥
तत्र स्नात्वा हेमदानं यो ददाति नृपेश्वर ॥
पुत्रप्राप्तिर्भवेत्तस्य वंशस्तस्य विवर्द्धते ॥२३॥
भगवन्मंदिराद्राजन्दिग्विभागे च पश्चिमे ॥
धनुषि द्विशते चास्ते दानतीर्थं परं शुभम् ॥२४॥
यत्र श्रीकृष्णचन्द्रस्य नित्यं दानं करोति यः ॥
तत्र स्नात्वा नरो राजन्द्विपलं कांचनं तथा ॥२९॥
चतुर्गुणं तु रजतं पट्टांबरशतं तथा ॥
तथा सहस्रमौल्यानि नवरत्नानि यानि च ॥२६॥
यो ददाति नरश्रेष्ठस्तस्य पुण्यफलं शृणु ॥
अश्वमेधसहस्राणि राजसूयशतानि च ॥२७॥
दानतीर्थस्य पुण्यस्य कलां नार्हंति षोडशीम् ॥
बद्रिकाश्रमयात्रायां यत्फलं लभते नरः ॥२८॥
सैंधवारण्ययात्रायां मेषस्थे च दिवाकरे ॥२९॥
उत्पलावर्तयात्रायां वृषस्थे भास्करे सति ॥
स्नानं दानं लक्षगुणं भवतीह न संशयः ॥३०॥
तस्मात्कोटिगुणं पुण्यं दानतीर्थे विदेहराट् ॥
मासमेकं च यत्स्नानं दानतीर्थे करोति ह ॥३१॥
तस्य जातं च यत्पुण्यं चित्रगुप्तो न वेत्ति तत् ॥
तस्य तीर्थस्य माहात्म्यं वक्तुं नालं चतुर्मुखः ॥३२॥
सर्वेषां चैव दानानामश्वदानं परं स्मृतम्॥
अश्वदानाद्गजस्यापि गजदानाद्रथस्य च ॥३३॥
रथदानात्परं राजन्भूमिदानं विशिष्यते ॥
भूमिदानादन्नदानं महादानं प्रकथ्यते ॥३४॥
अन्नदानसमं दानं न भूतं न भविष्यति ॥
देवर्षिपितृभूतानां तृप्तिरन्नेन जायते ॥३५॥
दानतीर्थे ह्यन्नदानं यः करोति महामना ॥
ऋणत्रयविमुच्याथ याति विष्णोः परं पदम् ॥३६॥
दशैव मातृके पक्षे राजेंद्र दश पैतृके ॥
प्रियाया दश पक्षे तु पुरुषानुद्धरेन्नरः ॥३७॥
चतुर्भुजा दिव्यरूपा नागारिकृतकेतनाः ॥
स्रग्विणः पीतवस्त्रास्ते प्रयांति हरिमंदिरम् ॥३८॥
भगवन्मंदिराद्राजन्नुत्तरस्यां दिशि श्रुतम् ॥
क्रोशार्द्धे नृपशार्दूल मायातीर्थं मनोहरम् ॥३९॥
विराजते यत्र नित्यं दुर्गा दुर्गतिनाशिनी ॥
सिंहारूढा भद्रकाली चंडमुण्डविनाशिनी ॥४०॥
स्यमंतकं समाहर्तुमृक्षराजबिलंगते ॥
पुत्रे च देवकी देवीं पूजयामास सत्फलेः ॥४१
तदा जगाम प्रियया समणिर्भगवान्हरिः ॥
तद्बिलात्तत्प्रसिद्धं स्यान्मायातीर्थं फलप्रदम् ॥४२॥
मायातीर्थे च यः स्नात्वा मायां संपूज्य मानवः।
सर्वां मनोरथप्राप्तिं प्राप्नुयान्नात्र संशयः ॥४३॥
इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्व संवादे प्रथमदुर्गे लीलासरोवर हरिमंदिर ज्ञानतीर्थ कृष्णकुण्ड बलभद्रसरो गणेशतीर्थ माहात्म्यं नामैकोनविंशोऽध्यायः ॥१९॥
N/A
References : N/A
Last Updated : May 20, 2021
TOP