संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|द्वारकाखण्डः| अध्यायः ६ द्वारकाखण्डः अध्यायः ०१ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ द्वारकाखण्डः - अध्यायः ६ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अध्यायः ६ Translation - भाषांतर श्रीनारद उवाच -इत्थं विप्रबंधूनां सदाशीर्भिरभिनंदिता ।देवीं पुनर्विप्रवधूः प्रणनाम मुहुर्मुहुः ॥१॥त्यक्त्वा मुनिव्रतं भैष्मी गिरजागृहतस्ततः ।सहालिभिः सखीभिश्च निश्चक्राम शनैः शनैः ॥२॥कोटिचन्द्रप्रतीकाशां भैष्मीं कमललोचनाम् ।अकस्माद्ददृशुर्वीराः सुनिधिं निर्धना यथा ॥३॥आश्वारूढाश्च रथिनो गजिनश्च पदातयः ।समागता रक्षिणस्ते मुमुहुर्वीक्ष्य रुक्मिणीम् ॥४॥तदपांगस्मितैस्तीक्ष्णैः बाणैः कामधनुश्च्युतैः ।उज्झितास्त्रा निपेतुः कावर्दिताः सैनिकास्तदा ॥५॥रथेन वायुवेगेन घण्टामञ्जीरनादिना ।नैःश्रेयसंभवैरश्वैर्युतेनातिपताकिना ॥६॥शीघ्रं स्वसैन्यसंघट्टात्तत्सैन्यं संविदारयत् ।वायुर्यथा पद्मवनं हरिर्दारुकसारथिः ॥७॥स्त्रीकदम्बकमेत्याशु पश्यतां द्विषतां प्रभुः ।समारोप्य रथं भैष्मीं तार्क्ष्यपुत्रः सुधामिव ॥८॥देवानां पश्यतां राजन् राजकन्यां जहार ह ।दिव्यं शस्त्रोत्तमं शार्ङ्गं धनुष्टंकारयन्मुहुः ॥९॥ततो वेगेन महता स्वसैन्यं चागते हरौ ।देवदुन्दुभयो नेदुर्यदुदुन्दुभयस्तदा ॥१०॥सिद्धाश्च सिद्धकन्याश्च श्रीकृष्णस्य रथोपरि ।हर्षिता ववृषुर्देवाः पुष्पैर्नंदनसंभवै ॥११॥ततो ययौ जयारावैः शनै रामयुतो हरिः ।श्रृगालसंघमध्याच्च केसरी भागहृद्यथा ॥१२॥तदा कोलाहले जाते रुमिणीहरणे सति ।बभूव रक्षकाणां च शस्त्राशस्त्रि परस्परम् ॥१३॥जरासंधवशाः सर्वे मानिनो नृपसत्तमाः ।न सेहिरे स्वाभिभवं परं जातं यशःक्षयम् ॥१४॥अहो धिगस्मान्स्वयशो हृतं गोपैश्च धन्विनाम् ।श्रृगालैरिव सिंहानामतः किं स्यात्पराजयः ॥१५॥एवमुक्त्वाः क्रोधपरा जगृहुः शस्त्रसंहतिम् ।विसृज्य क्रीडनाक्षादीन् दंशिताः सैन्यसंयुताः ॥१६॥अक्षौहिणीद्वयेनापि पौंड्रकः क्रोधपूरितः ।अक्षौहिणीत्रयेणापि महावीरो विदूरथः ॥१७॥अक्षौहिणीपञ्चयुतो दन्तवक्रोऽतिदारुणः ।अक्षौहिणीत्रयेणाशु शाल्वो राजपुरेश्वरः ॥१८॥अक्षौहिणीभिर्दशभिर्जरासंधो महाबलः ।आययौ संमुखे योद्धुं यादवानां महात्मनाम् ॥१९॥अन्येऽपि चैद्यपक्षीया योद्धुं श्रीकृष्णसंमुखे ।धनुष्टंकारयंतस्ते समाजग्मुः सहस्रशः ॥२०॥प्रलयाब्धिसमं सैन्यं समालोक्य यदूत्तमाः ।तर्त्तुमाजग्मुरारात्ते कृष्णकैवर्त्तपोतकाः ॥२१॥बभूव तुमुलं युद्धमद्भुतं रोमहर्षणम् ।सैन्ययोश्च स्वपरयोर्देवदानवयोर्यथा ॥२२॥रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः ।गजा गजैर्युयुधिरे तुरगाश्च तुरंगभैः ॥२३॥शस्त्रांधकारे संजाते रुक्मिणीं भयविह्वलाम् ।विलोक्य भगवान्देवो मा भैष्टेत्यभयं ददौ ॥२४॥बलदेवानुजो वीरो गदो धुन्वमहद्धनुः ।विवेश शत्रुसंघट्टं वनं वह्निरिव प्रभुः ॥२५॥गदबाणविभिन्नांगा रथिनश्छिन्नकंचुकाः ।हताश्वा हतसूताश्च निपेतुर्भूमिमण्डले ॥२६॥पदातयश्छिन्नपदा गदबाणागतव्यथाः ।निपेतुर्भूतले राजन् वृक्षा वातहता इव ॥२७॥अश्वारुढाः केऽपि वीरा गदबाणैर्विदारिताः ।पेतू रणांगणे साश्वा बृहतीफलवन्नृप ॥२८॥गदबाणैर्भिन्नकुम्भा मध्ये मध्ये विदारिताः ।विरेजुः पतिता भूमौ कूष्मांडशकला इव ॥२९॥ततः पलायितं सैन्यं दृष्ट्वा शाल्वो महाबलः ।गदं तताड गदया गदायुद्धविशारदः ॥३०॥गदाविद्धो गदो धन्वी गदायुद्धप्रभाववित् ।धनुर्युद्धं तु संत्यज्य तत्कालान्मनसा त्वरम् ॥३१॥परां व्यथां गते युद्धे पतितोऽपि समुत्थितः ।तदाऽग्रजेन या दत्ता तां गदा तु गदोऽग्रहीत् ॥३२॥लक्षभारमयी गुर्वी दृढा कौमोदकी यथा ।तया गदोऽहनच्छाल्वं वज्रेणेंद्रो यथा गिरिम् ॥३३॥गदाप्रहारमथिते शाल्वे निपतिते भुवि ।पौंड्रकोऽथ जरासंधो दन्तवक्रो विदूरथः ॥३४॥चत्वार आययुस्तत्र गदोपरि रुषान्विताः ।पौंड्रकोऽपि महावीरो गदस्य रथगं ध्वजम् ॥३५॥चिच्छेद दशभिर्बाणैः कुवाक्यैर्मित्रतामिव ।दन्तवक्रस्तु गदया गदस्यापि रथं शुभम् ।चूर्णयामास राजेंद्र दण्डेनेव सुमृद्धटम् ॥३६॥तथाऽश्वांश्च जरासंधः सारथि च विदूरथः ।पातयामास भूपृष्ठे शितैर्बाणैर्विदेहराट् ॥३७॥ततो मुसलमादाय बलदेवस्त्वरन्बली ।विकराले मुखे भीमे दन्तवक्रमताडयत् ॥३८॥ततो मुसलघातेन दन्तवक्रस्य युध्यतः ।मुखे वक्रोऽपि यो दन्तः स तु भूमौ पपात ह ॥३९॥तदा हसति दैत्यारौ रुक्मिणीसहिते हरौ ।पौंड्रकं च जरासंधं तथा दुष्टं विदूरथम् ॥४०॥जघान मुसलेनाशु बलदेवो रुषान्वितः ।त्रयोऽपि पतिता युद्धे मूर्छिताः क्षतजाप्लुताः ॥४१॥सेनां समागतां सर्वां समाकृष्य हलेन वै ।मुसलेनाहनत्क्रुद्धो बलदेवो महाबलः ॥४२॥दशयोजनपर्यंतं रथेभाश्वपदातयः ।पेशिताश्चूर्णिता भूमौ शयना धरणीं गताः ॥४३॥जरासंधादयः सर्वे मृत्युशेषा नृपाः परे ।पलायिताश्चैद्यमेत्य प्रोचुर्नष्टोत्सवं भृशम् ॥४४॥भो भोः पुरुषशार्दूल दौर्मनस्यमिदं त्यज ।किमेकेन विवाहेन भविता ते शतं भुवि ॥४५॥अद्यैव द्वारकां गत्वा बद्ध्वा रामं समाधवम् ।अयादवीं करिष्यामः पृथ्वीं सागरमेखलाम् ॥४६॥एवं सम्बोधितो मित्रैश्चैद्योऽगाच्चंद्रिकापुरम् ।ययुः स्वं स्वं पुरं सर्वे हतशेषा नृपास्ततः ॥४७॥इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादेरुक्मिणीहरणे यदुविजयो नाम षष्ठोऽध्यायः ॥६॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP