संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|द्वारकाखण्डः| अध्यायः १० द्वारकाखण्डः अध्यायः ०१ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ द्वारकाखण्डः - अध्यायः १० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अध्यायः १० Translation - भाषांतर श्रीनारद उवाच ॥इत्थं मया ते कथितं द्वारकागमनकारणम् ॥सर्वपापहरं पुण्यं किं भूयः श्रोतुमिच्छसि ॥१॥बहुलाश्व उवाच ॥सर्व तीर्थमयी भूमिर्द्वारका नगरी शुभा ॥तत्र मुख्यानि तीर्थानि वद मां मुनिसत्तम ॥२॥श्रीनारद उवाच ॥आप्रभासात्तीर्थमयी मर्यादीकृत्ययज्ञियाम् ॥भूमिर्मोक्षप्रदा राजन्द्वारका योजनैः शतम् ॥३॥द्वारकां नगरीं दृष्ट्वा नरो नारायणो भवेत् ॥द्वारकायां मृतः कोपि गर्दभोपि चतुर्भुजः ॥४॥पश्यञ्छृण्वन्कथां तस्या द्वारकेति वदन्क्वचित्॥द्रष्टादद्यात्तृणं मृत्युं गतो याति परां गतिम् ॥५॥एकदा रैवतं भक्तं प्रेमानन्दसमाकुलम् ॥प्रेक्ष्य स्वं दर्शनं दत्त्वा हरिरश्रुमुखोभवत् ॥६॥तन्नेत्रबिंदुसंभूता गोमती सा महानदी ॥यस्या दर्शनमात्रेण ब्रह्महत्या प्रमुच्यते ॥७॥ गोमतीतीरजं पुण्यं रजो यो धारयेन्नरः ॥शतजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥८॥स्नानकाले गोमतीति वदत्यपि नरः क्वचित् ॥गोमत्यां स्नानजं पुण्यं लभते वै न संशयः ॥९॥मकरस्थे रवौ माघे प्रयागे स्नानमाचरेत् ॥शताश्वमेधजं पुण्यं संप्राप्नोति विदेहराट् ॥१०॥तत्सहस्रगुणं पुण्यं गोमत्यां मकरे रवौ ॥गोमत्याश्चैव माहात्म्यं वक्तुं नालं चतुर्मुखः ॥११॥गोमत्यां चक्रतीर्थेषु पाषाणनि च याश्च ये ॥ते सर्वे चक्रतां यांति पूजनीयाः प्रयत्नतः ॥१२॥चक्रचिह्ने चक्रतीर्थे द्वादश्यां स्नानमाचरेत् ॥चक्रपाणिपदं याति पापानां भाजनोपि हि ॥१३॥कोटिजन्मकृतैः पापैः पतितो योपि पातकी ॥चक्रतीर्थस्य सोपानमेत्य मुक्तिं समारुहेत ॥१४॥बहुलाश्व उवाच ॥गोमत्यां हि महानद्यां चक्रतीर्थं शुभार्थदम् ॥कथं जातं बहुमतं तन्मे ब्रूहि महामते ॥१५॥श्रीनारद उवाच ॥अत्रैवोदाहरंतीममितिहासं पुरातनम् ॥यस्य श्रवणमात्रेण पापहानिः परं भवेत् ॥१६॥अलकेशो राजराजो निधीशो धर्मभृत्प्रभुः ॥वैष्णवं यज्ञमारेभे कैलासोत्तरभूमिषु ॥१७॥तस्य यज्ञे स्वयं विष्णुरागतो वै स्वधामतः ॥ब्रह्मा शिवो जंभभेदी वरुणो यादसांपतिः ॥१८॥वायुर्यमो रविः सोमः क्षितिः सर्वजनेश्वरी॥गन्धर्वाप्सरसः सिद्धाः सर्वे तत्र समाययुः ॥१९॥देवर्षयः समाजग्मुस्तथा ब्रह्मर्षयो नृप ॥धनाध्यक्षोभवत्तस्य पुत्रस्तु नलकूबरः ॥२०॥रक्षायां वीरभद्रोभूत्सत्सेवायां गजाननः ॥यथा मरुद्गणाः सर्वे परिवेषणकारिणः ॥२१॥बाहुलेयः सभापूजामकरोद्धर्मतत्परः ॥घण्टानादः पार्श्वमौलिः कुबेरस्य तु मंत्रिणौ ॥२२॥सर्वशास्त्रविदां श्रेष्ठौ दानाध्यक्षौ बभूवतुः ॥एवं हि विधिवद्यज्ञो बभूव परमोत्सवः ॥२३॥अध्वरावभृथस्नातो राजराजो महामनाः॥परं भागं च देवेभ्यो विप्रेभ्यो दक्षिणामदात् ॥२४॥एवं पूर्णेध्वरे मुख्ये तुष्टे देवर्षिसत्तमे ॥आजगामाथ दुर्वासा दण्डी छत्री जटाधरः ॥२५॥क्रोधी कृशः पादुकांघ्रिर्दीर्घश्मश्रुः कृशोदरः॥दर्भासनसमित्पात्रमृगचर्मधरः परः ॥२६॥तमागतं समागम्य पूजयित्वा विधानतः ॥भयभीतः परिक्रम्य कुबेरः प्रणनाम ह ॥२७॥अद्य मे सफलं जन्म सफलं मदिरं च मे ॥अद्य मे सफलो यज्ञो ब्रह्मंस्त्वय्यागते सति ॥२८॥इत्थं संतोषितस्तेन दुर्वासा भगवान्मुनिः ॥देवमनुष्यधर्माणं प्राह प्रहसिताननः ॥२९॥त्वं राजराजो धर्मात्मा दानी विप्रपरायणः ॥कृतस्ते वैष्णवो यज्ञो विष्णुसंतोषकारणः ॥३०॥न याचितो मया त्वं वै क्वापि वैश्रवण प्रभो ॥अद्यैव याचनां कुर्वे ज्ञात्वा त्वां दानिसत्तमम् ॥३१॥मद्याञ्चां सफलीकुर्यास्तुभ्यं दास्यामि सद्वरम् ॥नोचेत्त्वां भस्मसात्कुर्वे शापेनातिभयेन वै ॥३२॥वर्तंते त्वद्गृहे सर्वे त्रैलोक्यनिधयो नव ॥तान्मे प्रयच्छ भद्रं ते तदर्थं गतवानहम् ॥३३॥नारद उवाच ॥एतच्छ्रुत्वा राजराजो दानशील उदारधीः ॥ओमिति प्रतिगृह्णीष्व प्राह तं गुह्यकेश्वरः ॥३४॥एवं निधीन्प्रदास्यंतं दानाध्यक्षो निधीश्वरम् ॥घण्टानादः पार्श्वमौलिरूचतुर्लोभमोहितौ ॥३५॥द्वावूचतुः ॥एकोयं ब्राह्मणो लोभी निधिभिः किं करिष्यति ॥लक्षं दिव्यं देहि चास्मै वृत्तिं रक्ष तथोत्तराम् ॥३६॥नारद उवाच ॥तद्वचः परुषं श्रुत्वा दुर्वासाः क्रोधविग्रहः ॥भ्रूभंगकुटिलीभूते रक्तनेत्रे चकार ह ॥३७॥स्थालीव सर्वब्रह्मांडं चचाल निमिषद्वयम् ॥प्रणतं धनदं वीक्ष्य ताभ्यां शापं ददौ मुनिः ॥३८॥मुनिरुवाच ॥घण्टानाद महादुष्ट पापबुद्धेति लुब्धक ॥ग्राहवत्त्वं धनग्राही ग्राहो भव महाखल ॥३९॥पार्श्वमौले पापबुद्धे धनलोभमदान्वितः ॥गजवत्प्रेरणां कुर्वंस्त्वं गजो भव दुर्मते ॥४०॥श्रीनारद उवाच ॥ताभ्यां शापं मुनिर्दत्त्वा निधिं नीत्वा कुबेरतः ॥वरं ददौ पुनस्तस्मै दुवासा दुर्लभं परम् ॥४१॥अस्माद्दानाच्च द्विगुणा भवंतु निधयो नव ॥इत्युक्त्वा स निधिः प्रागादहो तेजीयसां बलम् ॥४२॥इति श्रीमद्गर्गसंहितायां श्रीद्वारका खण्डे नारदबहुलाश्वसंवादे गोमत्युपाख्याने चक्रतीर्थमाहात्म्यंनाम दशमोऽध्यायः ॥१०॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP