संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|द्वारकाखण्डः| अध्यायः १४ द्वारकाखण्डः अध्यायः ०१ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ द्वारकाखण्डः - अध्यायः १४ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अध्यायः १४ Translation - भाषांतर रत्नाकर-रैवतक-पर्वत माहात्म्यम् श्रीनारद उवाच -द्वारावत्या समुद्रस्य माहात्म्यं श्रुणु मानद ।सर्वपापहरं पुण्यं तत्स्नानफलदं स्मृतम् ॥१॥माधव्यां पूर्णमास्यां यो व्रती स्नात्वा नदीपतिम् ।नत्वा संपूज्य विधिवद्रत्नदानं करोति यः ॥२॥तस्य देहे त्रयो देवा निवसंति महीपते ।यस्य दर्शनमात्रेण नरो याति कृतार्थताम् ॥३॥तद्देहस्पर्शनात्सद्यो ब्रह्महत्या प्रमुच्यते ।यत्र यत्र गतः सोऽपि तत्र तत्र च भूः शुभा ॥४॥दृष्ट्वा तं च मृतः पापी जगद्वधकरोऽपि हि ।छिनत्ति पापपटलं परं मोक्षं प्रयाति हि ॥५॥रैवतस्याथ शैलस्य माहात्म्यं श्रृणु मानद ।सर्वपापहरं पुण्यं मुक्तिभुक्तिप्रदायकम् ॥६॥गौतमस्य सुतो धीमान् मेधावी नाम वैष्णवः ।विंध्याचले तपस्तेपे वर्षाणामयुतं शतम् ॥७॥तं द्रष्टुमागतः साक्षादपांतरतमो मुनिः ।नोच्चचालासनात्सोऽपि मेधावी तपसोत्कटः ॥८॥अपांतरतमस्तं वै शशाप क्रोधपूरितः ।सतामभक्त पापात्मन् स्वतपोबलगर्वितः ॥९॥शैलवत्ते स्थितिश्चात्र त्वं शैलो भव दुर्मते ।इत्युक्त्वाऽथ गते साक्षाद् अपांतरतमे मुनौ ॥१०॥मेधावी शैलतां प्राप्तः श्रीशैलस्य सुतोऽभवत् ।जातिस्मरो महाबुद्धिर्विष्णुभक्तेः प्रभावतः ॥११॥एकदा मन्मुखाच्छ्रुत्वा माहात्म्यं द्वारकापुरः ।प्रोवाच सोऽपि राजानं रैवतं गच्छ सत्वरम् ॥१२॥वद मत्प्रार्थनामुक्तां त्वं महादीनवत्सलः ।सोऽयं महाबलो राजा प्रसन्नो यदि वा भवेत् ॥१३॥तेन नीतस्य मे वासो भविष्यति हरेः पुरि ।इति श्रुत्वा मया विष्णुभक्तानां शांतिकारिणा ॥१४॥रैवतायशु कथितं तथोक्तं परमं वचः ।स प्रसन्नः प्राह राजन्नत्र कोऽपि न पर्वतः ॥१५॥तत्स्थापनां करिष्यामि समुत्पाट्य भुजाबलात् ।समुन्नीय द्वारकायां प्रतिज्ञामकरोदिमाम् ॥१६॥एतस्मिंस्तच्चोरयितुं प्रयाते नृपसत्तमे ।तत्पूर्वस्मादहं प्राप्तः श्रीशैलस्य पुरे नृप ॥१७॥कलिप्रियेणापि मया श्रीशैलाय महात्मने ।कथितः सर्ववृत्तांतो नृपचौर्यसमन्वितः ॥१८॥श्रीशैलः पुत्रमोहेन निर्भर्त्स्येति क्व यासि हि ।सुमेरुं गिरिराजं च हिमवन्तं नगेश्वरम् ॥१९॥श्रीशैलः प्राह धर्मात्मा पुत्रस्नेहसमाकुलः ।एको दैवेन दत्तोऽयं न पुत्रा बहवश्च मे ॥२०॥तं हर्तुमागते राज्ञि रैवते वै महाबले ।विदेशं याति पुत्रो मे तेन राज्ञा महात्मना ॥२१॥पुत्रस्नेहाभिभूतोऽहं युवयोः शरणं गतः ।जित्वा तं रैवतं शीघ्रं पुत्रं मां दातुमर्हथ ॥२२॥जातेश्च कारणात्तौ द्वौ सुमेरुश्च हिमाचलः ।शैललक्षैः परिवृतौ योद्धुमाजग्मतुर्द्रुतम् ॥२३॥ततो भुजाभ्यां उत्पाट्य हनुमानिव तं गिरिम् ।ऊर्ध्वं कृत्वा बलाद्राजा यदा गंतुं मनो दधे ॥२४॥तदैव चागतान्वीक्ष्य गिरीञ्छस्त्रास्त्रधारिणः ।अट्टहासं चकोरोच्चैस्तडित्पातमिवात्मनः ॥२५॥ननाद तेन ब्रह्मांडं सप्तलोकेर्बिलैः सह ।तदैव तेषां शस्त्राणि हस्तेभ्यो न्यपतन्स्वतः ॥२६॥निःशस्त्रास्ते यदा शैलाः कुर्वंतः प्रध्वनिं मुहुः ।गच्छंतं सगिरिं जघ्नुः मुष्टिभिर्जानुभिः पथि ॥२७॥यथा पुरा हनूमंतमनुयाता महाबलम् ।तैस्ताडितोऽपि न जहौ गिरिं राजा कराग्रतः ॥२८॥मन्मुखाच्छ्रीहरिः श्रुत्वा शैलोद्योगं नृपोपरि ।सद्यो भक्तसहायार्थं भगवान् भक्तवत्सलः ॥२९॥आगत्याकाशमार्गेऽपि दत्त्वा तेजः स्वकं परम् ।माभैष्टेत्यभयं दत्त्वा त्वरमन्तरधीयत ॥३०॥गते हरौ भगवति भगवत्तेजसाऽन्वितः ।एकहस्ते गिरिं धृत्वा मुष्टिना वज्रघातिना ॥३१॥सुमेरुं संतताडाशु वज्रीव बलवत्तरः ।तस्य मुष्टिप्रहारेण मेरुर्विह्वलतां गतः ॥३२॥हिमवन्तं बाहुवेगात्पातयित्वा महीतले ।ममर्द पद्भ्यां चान्यांश्च विंध्यादीन्रणदुर्मदः ॥३३॥विंध्यादयश्च ते सर्वे पादघातेन मर्दिताः ।भयभीता रणं त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥३४॥एवं जित्वा शैलसंघं तं शैल शैलसन्निभः ।रैवतोऽपि जयारावैरानर्तेषु न्यपातयत् ॥३५॥सोऽभूद्रैवतनामापि राजन् रैवतकोऽचलः ।हरिभक्तः शैलमुख्यो द्वारावत्यां विराजते ॥३६॥तस्य दर्शनमात्रेण ब्रह्महत्या प्रमुच्यते ।स्पर्शनाच्छतयज्ञानां फलमाप्नोति मानवः ॥३७॥यात्रां कृत्वा च यस्यापि परिक्रम्य नताननः ।भोजनं ब्राह्मणे दत्वा याति विष्णोः परं पदम् ॥३८॥इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादेरत्नाकररैवतकाचलमाहात्म्यं नाम चतुर्दशोऽध्यायः ॥१४॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP