संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|द्वारकाखण्डः| अध्यायः १५ द्वारकाखण्डः अध्यायः ०१ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ द्वारकाखण्डः - अध्यायः १५ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अध्यायः १५ Translation - भाषांतर कपिटङ्क-नृगकूप-गोपीभूमि-माहात्म्यकथनम् श्रीनारद उवाच -तस्मिन् गिरौ यज्ञतीर्थं रैवतेन कृतं पुरा ।यत्र कृत्वा यज्ञमेकं कोटियज्ञफलं लभेत् ॥१॥कपिटंकं नाम तीर्थं कपिपातसमुद्भवम् ।गिरौ रैवतके राजन् सर्वपापप्रणाशनम् ॥२॥भौमासुरसखो दुष्टो द्विविदो नाम वानरः ।मारितो यत्र रामेण मुष्टिना वज्रपातिना ॥३॥सद्यो मुक्तिं गतः सोऽपि सतां हेलनवानपि ।तत्र स्नातुं सदा देवा आगच्छन्ति नरेश्वर ॥४॥कलविंकस्य यात्रायां कोटिगोदानजं फलम् ।एतस्य द्विगुणं पुण्यं दण्डकाख्ये वने शुभे ॥५॥तस्माच्चतुर्गुणं पुण्यं सैंधवाख्ये महावने ।जंबुमार्गे पञ्चगुणं पुण्यं प्राप्नोति मानवः ॥६॥तस्माद्दशगुणं पुण्यं पुष्कराख्ये वने स्मृतम् ।तस्माद्दशगुणं पुण्यमुत्पलावर्तयात्रया ॥७॥तस्माच्च नैमिषारण्ये पुण्यं दशगुणं स्मृतम् ।तस्माच्छतगुणं पुण्यं कपिटंके विदेहराट् ॥८॥नृगकूपं द्वारकायां तिर्थानां तीर्थमुत्तमम् ।यस्य दर्शनमात्रेण विप्रावध्यात्प्रमुच्यते ॥९॥अज्ञानाद्ब्राह्मणस्यापि गां ददौ ब्राह्मणाय सः ।तेन पापेन कूपे वै कृकलासवपुर्द्धरः ॥१०॥नृगोऽपि दानिनां श्रेष्ठः पतितोऽथ चतुर्युगम् ।श्रीकृष्णेन तदुद्धारः कृतो वै पश्यतां सताम् ॥११॥तद्दिनान्नृगकूपं तु तीर्थीभूतं महीपते ।कार्तिके पूर्णिमायां तु तस्मिन् स्नानं समाचरेत् ॥१२॥कोटिजन्मकृतात्पापान् मुच्यते नात्र संशयः ।एकं यत्रापि गोदानं करोति विधिवन्नरः ॥१३॥कोटिगोदानजं पुण्यं लभते वै न संशयः ।गोपीभूमेश्च माहात्म्यं श्रुणु पापहरं परम् ॥१४॥यस्य श्रवणमात्रेण कर्मबन्धात्प्रमुच्यते ।गोपीनां यत्र वासोऽभूत्तेन गोपीभुवः स्मृताः ॥१५॥गोप्यंगरागसंभूतं गोपीचन्दनमुत्तमम् ।गोपीचन्दनलिप्तांगो गंगास्नानफलं लभेत् ॥१६॥महानदीनां स्नानस्य पुण्यं तस्य दिने दिने ।गोपीचन्दनमुद्राभिर्मुद्रितो यः सदा भवेत् ॥१७॥अश्वमेधसहस्राणि राजसूयशतानि च ।सर्वाणि तीर्थदानानि व्रतानि च तथैव च ।कृतानि तेन नित्यं वै स कृतार्थो न संशयः ॥१८॥गंगामृद्द्विगुणं पुण्यं चित्रकूटरजः स्मृतम् ।तस्माद्दशगुणं पुण्यं रजः पञ्चवटीभवम् ॥१९॥तस्माच्छतगुणं पुण्यं गोपीचन्दनकं रजः ।गोपीचन्दनकं विद्धि वृन्दावनरजःसमम् ॥२०॥गोपीचन्दनलिप्तांगं यदि पापशतैर्युतम् ।तं नेतुं यमः शक्तो यमदूतः कुतः पुनः ॥२१॥नित्यंकरोति यः पापी गोपीचन्दनधारणम् ।स प्रयाति हरेर्धाम गोलोकं प्रकृतेः परम् ॥२२॥सिंधुदेशस्य राजाऽभूद्दीर्धबाहुरिति श्रुतः ।अन्यायवर्ती दुष्टात्मा वेश्यासंगरतः सदा ॥२३॥तेन वै भारते वर्षे ब्रह्महत्याशतं कृतम् ।दश गर्भवतीहत्याः कृतास्तेन दुरात्मना ॥२४॥मृगयायां तु बाणौघैः कपिलागोवधः कृतः ।सैंधवं हयमारुह्य मृगयार्थी गतोऽभवत् ॥२५॥एकदा राज्यलोभेन मन्त्री क्रुद्धो महाखलम् ।जघानारण्यदेशे तं तीक्ष्णधारेण चासिना ॥२६॥भूतले पतितं मृत्युगतं वीक्ष्य यमानुगाः ।बद्ध्वा यमपुरीं निन्युर्हर्षयन्तः परस्परम् ॥२७॥संमुखेऽवस्थितं वीक्ष्य पापिनं यमराड् बली ।चित्रगुप्तं प्राह तूर्णं का योग्या यातनाऽस्य वै ॥२८॥चित्रगुप्त उवाच -चतुरशीतिलक्षेषु नरकेषु निपात्यताम् ।निःसन्देहं महाराज यावच्चंद्रदिवाकरौ ॥२९॥अनेन भारते वर्षे क्षणं न सुकृतं कृतम् ।दशगर्भवतीघातः कपिलागोवधः कृतः ॥३०॥तथा वनमृगाणां च कृत्वा हत्याः सहस्रशः ।तम्मादयं महापापी देवताद्विजनिंदकः ॥३१॥श्रीनारद उवाच -तदा यमाज्ञया दूता नीत्वा तं पापरूपिणम् ।सहस्रयोजनायामे तप्ततैले महाखले ॥३२॥स्फुरदत्युच्छलत्फेने कुम्भीपाके न्यपातयन् ।प्रलयाग्निसमो वह्निः सद्यः शीतलतां गतः ॥३३॥वैदेह तन्निपतनात्प्रह्लादक्षेपणाद्यथा ।तदैव चित्रमाचख्युः यमदूता महात्मने ॥३४॥अनेन सुकृतं भूमौ क्षणवन्न कृतं क्वचित् ।चित्रगुप्तेन सततं धर्मराजो व्यचिंतयत् ॥३५॥सभायामागतं व्यासं संपूज्य विधिवन्नृप ।नत्वा पप्रच्छ धर्मात्मा धर्मराजो महामतिः ॥३६॥यम उवाच -अनेन पापिना पूर्वं न कृतं सुकृतं क्वचित् ।स्फुरदग्न्युच्छलत्फेने कुंभीपाके महाखले ॥३७॥अस्य क्षेपणतो वह्निः सद्यः शीतलतां गतः ।इति सन्देहतश्चेतः खिद्यते मे न संशयः ॥३८॥श्रीव्यास उवाच -सूक्ष्मा गतिर्महाराज विदिता पापपुण्ययोः ।तथा ब्रह्मगतिः प्राज्ञैः सर्वशास्त्रविदां वरैः ॥३९॥दैवयोगादस्य पुण्यं प्राप्तं वै स्वयमर्थवत् ।येन पुण्येन शुद्धोऽसौ तच्छृणु त्वं महामते ॥४०॥कस्यापि हस्ततो यत्र पतिता द्वारकामृदः ।तत्रैवायम् मृतः पापी शुद्धोऽभूत्तत्प्रभावतः ॥४१॥गोपीचन्दनलिप्तांगो नरो नारायणो भवेत् ।एतस्य दर्शनात्सद्यो ब्रह्महत्या प्रमुच्यते ॥४२॥श्रीनारद उवाच -इति श्रुत्वा धर्मराजः तमानीय विशेषतः ।विमाने कामगे स्थाप्य वैकुण्ठं प्रकृतेः परम् ॥४३॥प्रेषयामास सहसा गोपीचन्दनकीर्तिवित् ।एवं ते कथितं राजन् गोपीचन्दनकं यशः ॥४४॥गोपीचन्दनमाहात्म्यं य श्रृणोति नरोत्तमः ।स याति परमं धाम श्रीकृष्णस्य महात्मनः ॥४५॥इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादेकपिटंकनृगकूप गोपीभूमिमाहात्म्यं नाम पञ्चदशोऽध्यायः ॥१५॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP