द्वारकाखण्डः - अध्यायः ९

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


बहुलाश्व उवाच ॥
त्रिषु लोकेषु विख्याता धन्या वै द्वारकापुरी ॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो यत्र वासकृत् ॥१॥
श्रीकृष्णस्यांगसंभूता पुरी द्वारावती श्रुता ॥
कस्मादिहागता ब्रह्मन्कस्मिन्काले वद प्रभो ॥२॥
श्रीनारद उवाच ॥।
साधुसाधु त्वया पृष्टं द्वारकागमकारणम् ॥
यच्छ्रुत्वा शुद्धतां याति लोकघात्यपि पातकी ॥३॥
शर्यातिर्नाम राजाभूच्चक्रवर्ती मनोः सुतः ॥
चकार राज्यं धर्मेण वर्षाणामयुतं भुवि ॥४॥
उत्तानबर्हिरानर्तो भूरिषेण इति त्रयः ॥
शर्यातेरभवन्पुत्राः सर्वधर्मभृतां वराः ॥५॥
उत्तानबर्हिषे पूर्वां भूरिषेणा- यदक्षिणाम् ॥
पश्चिमां च दिशं सर्वामानर्ताय ददौ नृपः ॥६॥
ममेयं हिमहीकृत्स्ना मया धर्मेण पालिता ॥
बलार्जिता बलिष्ठेन यूयं तां पालयिष्यथ ॥७॥
पितुर्वचः समाकर्ण्य आनर्त्तो मध्यमः सुतः ॥
ज्ञानी ज्ञानमयं वाक्यमुवाच प्रहसन्निव ॥८॥
आनर्त उवाच ॥
तवेयं न मही कृत्स्ना त्वया पालिता क्वचित् ॥
न त्वद्बलार्जिता राजन्बलिष्ठो भगवान्विभुः ॥९॥
मही श्रीकृष्णदेवस्य तेनैव परिपालिता ॥
तत्तेजसा जिता कृत्स्ना बलिष्ठो न हरेः समः ॥१०॥
स एव विश्वं स्वकृतंसृजत्यत्ति च पाति च ॥
स एव ब्रह्मपरमं कालः कलयतां प्रभुः ॥११॥
योंतः प्रविश्य भूतानि भूतैरप्यखिलाश्रयः ॥
स विश्वाख्योधियज्ञोसौ परिपूर्णतमः स्वयम्॥१२॥
यद्भयाद्वातिवातोयं सूर्य्यस्तपति यद्भयात्॥
यद्भयाद्वर्षते देवो मृत्युश्चरति यद्भयात् ॥१३॥
परिपूर्णतमं साक्षाछ्रीकृष्णं परमेश्वरम् ॥
भज सर्वात्मना राजन्नहंकारविवर्जितः ॥१४॥
नारद उवाच ॥
ज्ञानं प्राप्तोपि शर्य्यातिराक्षिप्तः पुत्रवाक्छरैः ॥
आनर्त्तं स्वसुतं प्राह रुषाप्रस्फुरिताधरः ॥१५॥
शर्य्यातिरुवाच ॥
दूरं गच्छ असद्बुद्धे गुरुवद्भाषसे कथम्॥
यावद्भूतं तु मे राज्यं तावत्त्वं मा महीं वस ॥१६॥
यस्त्वयाराधितः कृष्णः सोपि सर्वसहायकृत् ॥
नवीनां किं महीं ते वै भगवानेव दास्यति ॥१७॥
नारद उवाच ॥
इत्युक्तस्तु तदानर्तो राजानं प्राह मानदः ॥
यत्र ते च मही राज्यं तत्र वासो न मे भवेत् ॥१८॥
पित्रा निःसारितो राज्ञाप्यानर्तोब्धितटं गतः ॥
वेलामेत्य तपस्तेपे वर्षाणामयुतं जले ॥१९॥
प्रेमलक्षणया भक्त्या संतुष्टो भगवान्हरिः ॥
तस्मै स्वं दर्शनं दत्त्वा वरं ब्रूहीत्यु- वाच ह ॥२०॥
कृतांजलिपुटोभूत्वाऽऽनर्त उत्थाय शीघ्रतः ॥
ननाम कृष्णपादब्जं रोमांची प्रेमविह्वलः ॥२१॥
आनर्त्त उवाच ॥
नमस्ते वासुदेवाय नमः संकर्षणाय च ॥
प्रद्युम्नायानिरुद्धाय सात्वतांपतये नमः ॥२२॥
पित्रा निष्कासितो देव त्वामहं शरणागतः ॥
देहि मह्यं भूमिमन्यां यत्र वासो हि मे भवेत् ॥२३॥
धुवोपि यत्प्रसादेन ययौ सर्वोत्तमं पदम् ॥
तस्मै नमो भगवते प्रणतक्लेशहारिणे ॥२४॥
श्रीनारद उवाच ॥
आनर्तमानतं दीनं भगवान्दीनवत्सलः ॥
प्रसन्नः श्रीमुखेनाह मेघगंभीरया गिरा ॥२५॥
॥ श्रीभगवानुवाच ॥
अन्यानमेदिनीलोके किं कर्तव्यं मया नृप ॥
स्ववचस्तदृतं कर्तुं त्वद्भक्त्या परितोषितः ॥२६॥
तस्माद्दैवस्य लोकस्य वैकुण्ठस्य परंतप ॥
भूखण्डं योजनशतं ददामि विलं शुभम् ॥२७॥
श्रीनारद उवाच ॥
इत्युक्त्वानर्तनृपतिं भगवान्भक्तवत्सलः ॥
वैकुण्ठाच्च सुमुत्पाट्य भूखण्डशतयोजनम् ॥२८॥
चक्रं सुदर्शनं धृत्वा समुद्रे भीमनादिनि ॥
दधार भगवान्देवस्तस्योपरि विदेहराट् ॥२९॥
आनर्तो लक्षवर्षांतं तत्र राज्यं चकार ह ॥
पुत्रपौत्रसमायुक्तो राजन्वैकुण्ठसंपदम् ॥३० ॥
इदं श्रुत्वाथ शर्यातिः पिता वै विस्मतोऽभवत् ॥
आनर्तो नाम देशोभूदानर्तस्य प्रसादतः ॥३१॥
रेवतस्तस्य पुत्रोभूच्छ्रीशैलस्यगिरेः सुतम्॥
समुत्पाट्य स्वहस्ताभ्यामानर्तेषु न्यपातयत् ॥३२॥
सोभूद्रेवतनाम्नापि रैवतोनाम पर्वतः ॥
कुशस्थलीं विनिर्माय राज्यं कृत्वाथ रैवतः ॥३३॥
समादाय स्वकां कन्यां ब्रह्मलोकं जगाम ह॥
बलदेवविवाहेपि तत्कथा कथिता मया ॥३४॥
तस्माद्द्वारावतीं पुण्यां मोक्षद्वारं विदुः सुराः ॥३५॥
इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे द्वारकागमनकारणंनाम नवमोऽध्यायः ॥९॥


References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP