अथ ब्रह्मयज्ञप्रारंभ:

ऋग्वेदीयनित्यविधि:


श्रीगणेशायनम: ॥ अथ ब्रह्मयज्ञप्रारंभ: ॥
आचम्य प्राणानायम्य देवर्ष्याचार्यपितृतृप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थं ब्रह्मयज्ञेन यक्ष्ये ॥ पृथिवीतिमंत्र० रभे ॥ विद्युदसीतितिमंत्रस्य ॥ अग्निऋषि: ॥ वरुणो देवता ॥ उदकोस्पर्शने विनियोग: ॥ ॐ विद्युदसिविद्यमेपाप्मानमृतात्सत्यमुपैमि (इति मंत्रेणाप उपस्पृश्य वामजानूपरि दक्षिणं पादं निधाय दक्षिणजानुनि कुशपवित्रगर्भं प्रागंगुलिमुत्तानं सव्यपाणिं निधाय तदुपरि दक्षिणं पाणिं प्रागंगुलिमेवं न्यंचं निधाय व्याहृतिपूर्वां पच्छोर्धर्चश: सर्वां सावित्रीं पठित्वा) ॐ भूर्भुव: स्व: तत्सवितु० इति पाद० अर्धं ऋक्‍ ॐ अग्निऋषिभिरीडयोनूतनैरुत ॥ सदेवाँऽएहवक्षति ॥ अग्निनारयमिश्नवत्पोषमेवदिवेदिवे ॥ यशसंवीरवत्तमम्‍ ॥ अग्नेयंयज्ञमध्वरंविश्वत:परिभूरसि ॥ सऽइद्देवेषुगच्छति ॥ अग्निर्होताकविक्रतु:सत्यश्वित्रश्रवस्तम: ॥ देवोदेवेभिरागमत्‍ ॥१॥
यदंगदाशुषेत्वग्नेभद्रंकरिष्यसि ॥ तवेत्तत्सत्यमंगिर: । उपत्वाग्नेदिवेदिवेदोषावस्तर्धियावयम्‍ ॥ नवोभरंतऽएमसि ॥ राजंतमध्वराणांगोपामृतस्यदीदिविम्‍ ॥ वर्धमानंस्वेदमे ॥ सन:पितेवसूनवेऽग्नेसूपायनोभव ॥ सचस्वान:स्वस्तये ॥२॥
अग्निर्वैदेवानामवमोविष्णु: परम: ॥ अथ महाव्रतं एष पंथा एतत्कमे ॥ अथात: संहिताया उपनिषत्‍ ॥ विदा मघवन्विदा ॥ महाव्रतस्य पंचविंशतिं सामिधेन्य: ॥ इषेत्वोर्जेत्वा ॥ अग्नआयाहिवीतये ॥ शन्नोदेवीरभिष्टये ॥ अथैतस्य समाम्नायस्य ॥ समाम्नाय: समाम्नात: ॥ मयरसतजभनलगसंमितं ॥ गौ: । ग्मा ॥ पंचसंवत्सरमयं ॥ अथ शिक्षां प्रवक्ष्यामि ॥ वृद्धिरादैच्‍ ॥ (यदिंद्रोदाशराज्ञेमानुषंव्यगाहथा: ॥ इदंजनाउपश्रुत) ॥ योगीश्वरं याज्ञवल्क्यं ॥ नारायणं नमस्कृत्य ॥ अथातो धर्मं व्याख्यास्याम: ॥ अथातो धर्मजिज्ञासा ॥ अथातो ब्रह्मजिज्ञासा ॥ ॐ तच्छंयोरावृणीमहेगातुंयज्ञायगातुंयज्ञपतयेदैवीस्वस्तिरस्तुन: स्वस्तिर्मानुषेभ्य: ॥ ऊर्ध्वंजिगातुभेषजंशन्नोऽअस्तुद्विपदेशंचतुष्पदे ॥ ॐ नमोब्रह्मणे० इति त्रि: ॥ ॐ वृष्टिरसिवृश्वमेपाप्मानमृतात्सत्यमुपागामित्यप: स्पृष्ट्बा ॥ प्रजापतिस्तृप्यतु ॥ ब्रह्मा तृप्यतु ॥ वेदास्तृप्यंतु ॥ देवास्तृप्यंतु ॥ ऋषयस्तृप्यंतु ॥ सर्वाणि छंदांसि तृप्यंतु ॥ ॐ काररस्तृप्यतु ॥ व्याहृतयस्तृप्यंतु ॥ सावित्री तृप्यंतु ॥ सांख्यास्तृप्यंतु ॥ सिद्धास्तृप्यंतु ॥ समुद्रास्तृप्यंतु तृप्यंतु ॥ नद्यस्तृप्यंत ॥ गिरयस्तृप्यंतु ॥ क्षेत्रौषधिवनस्पतिगंधर्वाप्सरसस्तृप्यंतु ॥ नागास्तृप्यंतु ॥ वयांसि तृप्यंतु ॥ गावस्तृप्यंतु ॥ भूतानि तृप्यंतु ॥ एवमंतानि तृप्यंत्वित्येकोनत्रिंशन्मंत्रै: कुशाग्रैर्देवतीर्थेनैकवारं तर्पयेत्‍ ॥ निवीता ॥ शतर्चिनस्तृप्यंतु ॥ माध्यमास्तृप्यंतु ॥ गृत्समदस्तृप्यतु ॥ विश्वामित्रस्तृप्यतु ॥ वामदेवस्तृप्यतु ॥ अत्रितृप्यतु ॥ भरद्वाजस्तृप्यतु ॥ वसिष्ठस्तृप्यतु ॥ प्रगाथास्तृप्यंतु ॥ पावमान्यस्तृप्यंतु ॥ क्षुद्रसूक्तास्तृप्यतु ॥ प्रगाथास्तृप्यंतु ॥ पावमान्यस्तृप्यंतु ॥ क्षुद्रसूक्तास्तृप्यंतु ॥ महासूक्तास्तृप्यंत्विति द्वादशमंत्रै: कुशमध्येन ऋषितीर्थेन द्वि: प्रत्येकं तर्पयित्वा ॥ प्राचीनावीती ॥ सुमंतुजैमिनिवैशंपायनपैलसूत्रभाष्यभारतमहाभारतधर्माचार्यास्तृप्यंतु ॥ जानंतिबाहविगार्ग्यगौतमशाकल्यबाभ्रव्यमांडव्यमांडूकेयास्तृप्यंतु ॥ गर्गीवाचकवी तृप्यतु ॥ वडवाप्रातीथेयी तृप्य० ॥ सुलभामैत्रैयी तृप्य० ॥ कहोळं तर्पयामि कौषीतकं त० ॥ महाकौषीतकं त० ॥ ऐतरेयं त० ॥ महैतरेयं त० ॥ शाकलं त० ॥ बाष्कलं त० ॥ सुजातवक्रं त० ॥ औदवाहिं त० ॥ महौदवाहिं त० ॥ सौजामिं त० ॥ शौनकं त० ॥ आश्वलायनं त०
ये चान्ये आचार्यास्ते सर्वे तृप्यंतु ॥ इति त्रयोविंशतिमंत्रै: पितृतीर्थेन कुशमूलैस्तर्पयेत्‍ ॥ तत: अस्मत्पितरं अमुकशर्माणं अमुकगोत्रं वसुरुपं स्वधानमस्तर्पयामि ॥ एवं पितामहादींस्त्रींस्त्रीनंजलीन्‍ दत्त्वा ॥ (तातंबात्रितयं सपत्नजननी मातामहादित्रयं सस्त्रि स्त्रीतनयादितातजननीस्वभ्रातर: सस्त्रिय: ॥ तातांबात्मभगिन्यपत्यघवयुग्जायापितासद्गुरुशिष्याप्ता: पितरो महालायविधौ तीर्थे तथा तर्पणे ॥) आब्रह्मस्तंबपर्यंतं देवर्षिपितृमानवा: ॥ तृप्यंतु पितर: सर्वे मातृमातामहादय: ॥ अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम्‍ ॥ आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकमिति त्रिर्दत्त्वा ॥ ये के चास्मत्कुले जाता अपुत्रा गोत्रिणो मृता: ॥ ते गृह्णंतु मया दत्तं वस्त्रनिष्पीडनोदकमिति ॥ उपवीती चतुर्गुणं उपरिदशं वस्त्रं स्थले वामभागे निष्पीढय द्विराचामेत्‍ ॥

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP