अथ सौरप्रारंभ:

ऋग्वेदीयनित्यविधि:


अथ सौरप्रारंभ: ॥
उदुत्यमितित्रयोदशर्चस्यसूक्तस्यकास्यकाण्व:प्रस्कण्व: सूर्योनवाद्यागायत्र्योंऽत्याश्चतस्त्रोऽनुष्टुभोंऽत्यस्तृचोरोगघ्नौपनिषदंत्योऽर्धर्चोद्विषघ्न: ॥ चित्रंदेवानामितिषडर्चस्यसूक्तस्याआंगिरस:कुत्स:सूर्यस्त्रिष्टुप्‍ ॥ इंद्रंमित्रमितिद्वयौरौचथ्योदीर्घतमा:सूर्यस्त्रिष्टुप्‍ ॥ हंस:शुचिषदित्यस्यगौतमोवामदेव:सूर्योजगती ॥ यत्त्वेतिभौमात्रि:सूर्योऽनुष्टुप्‍ ॥ यदद्येत्येकाउत्सूर्यैतितिस्त्र: उद्वेतीतिचतस्त्रोऽर्धपंचमा: एतासां मैत्रावरुणिर्वसिष्ठ: सूर्यस्त्रिष्टुप्‍ ॥ उदुत्यद्दर्शतमितितृचस्यमैत्रावरुणिर्वसिष्ठ: सूर्य: आद्याबृहतीद्वीतीयासतोबृहतीत्रुतीयापुर उष्णिक्‍ ॥ बण्महानितीद्वयोर्भार्गवोजमदग्नि:सूर्योबार्हतप्रगाथ: ॥ नमोमित्रस्येतिद्वादशर्चस्यसूक्तस्यसौर्योऽभितपा:सूर्योजगतीदशमीत्रिष्टुप्‍ ॥ सूर्योन इतिपंचर्चस्यसूक्तस्यसौर्यश्चक्षु: सूर्योगायत्री ॥
विभ्राड्‍बृहदितिचतुऋचस्यसूक्तस्यसौर्योविभ्राट्‍सूर्योजगती ॥ अंत्याप्रस्तारपंक्ति: ॥ आयंगौरितितृचस्यसार्पराज्ञीसूर्योगायत्री ॥ ऋतंचेतितृचस्यमाधुच्छंदसो‍ऽघमर्षणोभाववृत्तिरनुष्टुप्‍ ॥ श्रीसवितृसूर्यनारायणप्रीत्यर्थेसौरसूक्तजपेविनियोग: ॥ हरि: ॐ उदुत्यंजातवेदसंदेवंवहंतिकेतव: ॥ दृशेविश्वायसूर्यम्‍ ॥ अपत्येतायवोयथानक्षत्रायंत्यक्तुभि: ॥ सूरायविश्वचक्षसे ॥ अदृश्रमस्यकेतवोविरश्मयोजनाँऽअनु ॥ भ्राजंतोतऽआववृत्रन्त्सदनादृतस्यादिद्धृतेनपृथिव्युद्यते ॥ हंस:शुचिषद्वसुरंतरिक्षसद्धोतावेदिषदतिथिर्दुरोणसत्‍ ॥ नृषद्वरसदृतव्द्योमसद्ज्जागोजाऽऋतजाअद्रिजाऋतम्‍ ॥ यत्त्वासूर्यस्वर्भानुस्तमसाविद्यदासुर: ॥ अक्षेत्रविद्यथामुग्धोभुवनान्यदीधयु: ॥४॥
यदद्यसूर्यब्रवोनागाऽउद्यन्मित्रायवरुणायस्तयम्‍ ॥ वयंदेवत्रादितेस्यामतवप्रियासोऽअर्यमन्गृणंत: ॥ उत्सूर्योबृहदुर्चीष्यश्वेत्पुरुविश्वाजनिममानुषाणाम्‍ ॥ समोदिवाददृशेरोचमान:क्रत्वाकृत:सुकृत:कर्तृभिर्भूत्‍ ॥ ससूर्यप्रतिपुरोनऽउद्गाएभि:स्तोमेभिरेतशेभिरेवै: ॥ प्रनोमित्रायवरुणायवोचोनागसोऽअर्यम्णेऽअग्नयेच ॥ विन:सहस्त्रंशुरुधोरदंत्वृतावानोवरुणोमित्रोऽअग्नि: ॥ यच्छतुचंद्राऽउपमंनोऽअर्कमान:कामंपुरंतुस्तवाना: ॥५॥
उद्वेतिसुभगोविश्वचक्षा:साधारण: सूर्योमानुषाणाम्‍ ॥ चक्षर्मित्रस्यवरुणस्यदेवश्वर्मेवय: समविव्यक्तमांसि ॥ उद्वेतिप्रसवीताजनानांमहान्केतुरर्णव:- सूर्यस्य ॥ समानंचक्रंपर्याविवृत्सन्यदेतशोवहतिधूर्षुयुक्त: ॥ विभ्राजमानऽउषसामुपस्थाद्रेभैरुदेत्यनुमद्यमान: ॥ एषमेदेव:सविताचच्छंदय:समानंनप्रमिनातिधामं ॥ दिवोरुक्मऽउरुचक्षाऽउदेतिदूरेऽअर्थस्तरणिर्भ्राजमान: ॥ नूनंजना:सूर्येणप्रसूताऽअयन्नर्थानिकृणवन्नपांसि ॥ यत्राचक्रुरमृतागातुस्मैश्येनोनदीयन्नन्वेतिपार्थ: ॥ उदुत्यद्दर्शतंवपुर्दिवऽएतिप्रतिह्वरे ॥ यदीमाशुर्वहतिदेवऽएतशोविश्वस्मैचक्षसेऽअरम्‍ ॥ शीर्ष्ण:शीर्ष्णोजगतस्तस्थुषस्पतिंसमयाविश्वमारज: ॥ सप्तत्वसार: -
सुवितायसूर्यंवहंतिहरितोरथे ॥६॥
तच्चक्षुर्देवावहितंशुक्रमुच्चरत्‍ ॥ पश्येमशरदं:शतंजीवेमशरद:शतम्‍ ॥ बण्महाँअसिसूर्यबळादित्यमहाँअसि ॥ महस्तेसतोमहिमापनस्यतेद्धादेवमहाँअसि ॥ बट्‍सूर्यश्रवसामहाँअसिसत्रादेवमहाँअसि ॥ मह्नादेवानामसुर्य:पुरोहितोविभुज्योतिरदाभ्यम्‍ ॥७॥
नमोमित्रस्यवरुणस्यचक्षसेमहोदेवायतदृतंसपर्यत ॥ दूरेदृशेदेवजातायकेतवेदिवस्पुत्रायसूर्यायशंसत ॥ सामासत्योक्ति:परिपातुविश्वतोद्यावाचयत्रततन्नहानिच ॥ विश्वमन्यन्निविशतेयदेजतिविश्वाहापोविश्वाहोदेतिसूर्य: ॥ नतेअदेव:प्रदिवोनिवासतेयदेतशेभि:पतरैरथर्यसि ॥ प्राचीनमन्यदनौवर्ततेरजऽउदन्येनज्योतिषायासिसूर्य ॥ येनसूर्यज्योतिषाबाधसेतमोजगच्चविश्वमुदियर्षिभानुना ॥ तेनास्मद्विश्वामनिरामनाहुतिमपामीवामपदुष्ष्वप्प्य्रंसुव ॥ विश्वस्यहिप्रेषितोरक्षसिव्रतमहेळयन्नुच्चरसिस्वधाऽअनु ॥ यदद्यत्वासूर्योपब्रवामहैतंनोदेवाऽअनुमंसीरतक्रतुम्‍ ॥ तंनोद्यावापृथिवीतन्नऽआपइंद्र: श्रृण्वंतुमरुतोहवंवच: ॥ माशूनेभूमसूर्यस्यसंदृशिभद्रंजीवंतोजरणामशीमहि ॥८॥
विश्वाहात्वासुमनस: सुचक्षस: प्रजावतोऽअनमीवाऽअनागस: ॥ उद्यंतंत्वामित्रमहोदिवेदिवेज्योग्जीवा:प्रतिपश्येमसूर्य ॥
महिज्योतिर्बिभ्रतंत्वाविचक्षणभास्वंतंचक्षुषेचक्षुषेमय: ॥ आरोहंतंबृहत्‍:पाजसस्परिवयंजीवा:प्रतिपश्येमसूर्य ॥ यस्यतेविश्वाभुवनानिकेतुनाप्रचेरतेनिचविशंतेऽअक्तुभि: ॥ अनागास्त्वेनहरिकेशसूर्याह्नाह्नानोवस्यसावस्यसोदिहि ॥ संनोभवचक्षसाशंनोऽअह्नाशंभानुनाशंहिमाशंघृणेन ॥ यथाशमध्वञ्छमसद्दुरोणेतत्सूर्यद्रविणंधेहिचित्रम्‍ ॥ अस्माकंदेवाऽउभयायजन्मनेशर्मयच्छतद्विपदेचतुष्पदे ॥ अदत्पिबदूर्जयमानमाशितंतदस्मेशंयोररपोदधातन ॥ यद्वोदेवाश्चकृमजिह्वयागुरुमनसोवाप्रयुतीदेवहेळनम्‍ ॥ अरावायोनोऽअभिदुच्छुनायतेतस्मिन्तदेनोवसवोनिधेतन ॥९॥
सूर्योनोदिवस्पातुवातोऽअंतरिक्षात्‍ ॥ अग्निर्न:पार्थिवेभ्य: ॥ जोषासवितर्यस्यतेहर:शतंसवाँऽअर्हति ॥ पाहिनोदिद्युत:पतंत्या: ॥ चक्षुर्नोदेव:सविताचक्षुर्नऽउतपर्वत: ॥ चक्षुर्धातादधातुन: ॥ चक्षुर्नोधेहिचक्षुषेचक्षुर्विख्यैतनूभ्य: ॥ संचेदंविचपश्येम ॥ सुसंदृशंत्वावयंप्रतिपश्येमसूर्य ॥ विपश्येमनृचक्षस: ॥१०॥
विभ्राड्‍बहत्पिबतुसोम्यंमध्वायुर्दधद्यज्ञपतावविह्रुतम्‍ ॥ वातजूतोयोऽअभिरक्षतित्मनाप्रजा: पुपोषपुरुधाविराजति ॥ विभ्राड्‍बृहत्सुभृतंवाजसातमंधर्मदिवोधरुणेसत्यमर्पितम्‍ ॥ अमित्रहावृत्रहादस्युहंतमंज्योतिर्जज्ञेऽअसुरहासपत्नहा ॥ इंदंश्रेष्ठंज्योतिषांज्योतिरुत्तमंविश्वजिद्धनजिदुच्यतेबृहत्‍ ॥ विश्वभ्राड्‍भ्राजोमहिसूर्योदृशऽउरुपप्रथेसहऽओजोऽअच्युतम्‍ ॥ विभ्राजंज्योतिषास्व १ रगच्छोरोचनंदिव: ॥ येनेमाविश्वाभुवनान्याभृताविश्वकर्मणाविश्वदेव्यावता ॥११॥
आयंगौ:पृश्निरक्रमीदसदन्मातरंपुर: ॥ पितरंचप्रयन्त्स्व: ॥ अंतश्चरतिरोचनास्यप्राणादपानती ॥ व्यख्यन्महिषोदिवम्‍ ॥ त्रिंशद्धामविराजतिवाक्पतंगायधीयते ॥ प्रतिवस्तोरहद्युभि: ॥१२॥
ऋतंचसत्यंचाभिद्धात्तपसोध्यजायत ॥ ततोरात्र्यजायततत:समुद्रोऽअर्णव: ॥ समुद्रादर्णवादधिसंवत्सरोऽअजायत ॥
ततोरात्र्यजायततत:समुद्रोऽअर्णव: ॥ समुद्रादर्णवादधिसंवत्सरोऽअजायत ॥ अहोरात्राणिविदधद्विश्वस्यमिषतोवशी ॥
सूर्याचंद्रमसौधातायथापूर्वमकल्पयत्‍ ॥ दिवंचपृथिवींचांतरिक्षमथोस्व: ॥१३॥
सवितापश्वातात्सवितापुरस्तात्सवितोत्तरात्तात्सविताधरात्तात्‍ ॥ सवितान:सुवतुसर्वतातिंसवितानोरासतांदीर्घमायु: ॥
श्रीसवितृसूर्यनारायणार्पणमस्तु ॥ इति सौरं समाप्तम्‍ ॥

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP