मराठी मुख्य सूची|विधी|पूजा विधी|
त्रिसुपर्णमन्त्राः

त्रिसुपर्णमन्त्राः

पूजा विधी
Hindu Pooja Vidhis. The rituals that can be performed during worship of Hindu Gods, Godesses. This collection might contain some of the day specific rituals.


ब्रह्म मेतु माम् । मधु-मेतु माम् । ब्रह्म-मेव मधु-मेतु माम् ।
यास्ते सोम प्रजावथ्सोऽभिसोअहम् । दुःष्वप्नहन्
दुरुष्षह । यास्ते सोम प्राणाँ स्ताञ्जुहोमि ।
त्रिसुपर्ण-मयाचितं ब्राह्मणाय दद्यात् ।
ब्रह्महत्यां वा एते घ्नन्ति । ये ब्रह्मणा-स्त्रिसुपर्णंपठन्ति ।
ते सोमं प्राप्नुवन्ति । आसहस्रात् पङ्क्तिं पुनन्ति ।
ओम्॥
ब्रह्म मेधया । मधु मेधया । ब्रह्ममेव मधु मेधया ।
अद्या नो देव सवितः प्रजावथ्सावी-स्सौभगम् ।
परा दुष्वप्नियँ सुव । विश्वानि दवे सवित-र्दुरितानि परासुव ।
यद्भद्रं तन्मआसुव ।
मधुवाता ऋतायते
मधुक्षरन्ति सिन्धवः । माध्वीर्न-स्सन्त्वोषधीः ।
मधुनक्तमुतोषसी मधुमत्पार्थिवँ रजः ।
मधुद्यौ-रस्तु नः पिता ।
मधुमान्नो वनस्पतिर्-मधुमाँ अस्तु सूर्यः ।
माध्वीर्गावो भवन्तु नः ।
य इमंत्रिसुपर्ण-मयाचितं ब्राह्मणाय दद्यात् ।
भ्रूणहत्यां वा एते घ्नन्ति ।
ये ब्रह्मणा-स्त्रिसुपर्णंपठन्ति ।
ते सोमं प्राप्नुवन्ति । आसहस्रात् पङ्क्तिं पुनन्ति ।
ओम् ॥
ब्रह्म मेधवा । मधु मेधवा । ब्रह्म-मेव मधु मेधवा ।
ब्रह्मा देवानांपदवीः कवीना-मृषि-र्विप्राणां महिषो मृगाणाम् ।
श्येनो गृद्ध्राणाँ स्वधिति-र्वनानाँ सोमः पवित्रमत्येतिरेभन्न् ।
हँस-श्शुचिष-द्वसु-रन्तरिक्षस-द्धोता वेदिषदतिथिर्दुरोणसत् ।
नृष-द्वरस-दृतस-द्‍व्योमस-दब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ।
ऋचे त्वा रुचे त्वा समि-थ्स्रवन्ति सरितो न धेनोः ।
अन्तर् हृदा मनसा पूयमानाः ।
घृतस्या धारा अभिचाकशीमि । हिरण्ययो वेतसो मध्य आसाम् ।
तस्मिन्थ्सुपर्णो मधुकृत् कुलायी भज-न्नास्ते मधु-देवताभ्यः ।
तस्यासते हरय-स्सप्ततीरे स्वधां दुहाना
अमृतस्य धाराम् ।
य इदंत्रिसुपर्ण-मयाचितं ब्राह्मणाय दद्यात् ।
वीरहत्यां वा एते घ्नन्ति ।
ये ब्रह्मणा-स्त्रिसुपर्णंपठन्ति । ते सोमं प्राप्नुवन्ति ।
आसहस्रात् पङ्क्तिं पुनन्ति ।
ओम् ॥

N/A

References : N/A
Last Updated : January 08, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP